सञ्जयः
ततस्सरथनागाश्वा पाञ्चालाः पाण्डुसृञ्जयाः
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव
ततः प्रववृते युद्धं तावकानां परैस्सह
घोरं घोरप्रभं काले भीमरूपं परन्तप
नकुलो वृषसेनं तु विद्ध्वा पञ्चभिरायसैः
पितुस्समीपे तिष्ठन्तं त्रिभिर्भूयोऽप्यविध्यत
नकुलं तु ततश्शूरो वृषसेनस्स्मयन्निव
नाराचेन सुतीक्ष्णेन हृदये प्रत्यविध्यत
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः
शत्रुं विव्याध सप्तत्या सूतं चैवास्य सप्तभिः
ततश्शरसहस्रैस्तु तावुभौ पुरुषर्षभौ
प्रच्छादयेतामन्योन्यं तवाभज्यत वाहिनी
दृष्ट्वा विप्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः
निवारयामास बलादनुपत्य विशाम्पते
एतस्मिन्नन्तरे युद्धं कष्टमासीद्विशाम्पते
निवृत्ते तु ततस्सैन्ये नकुलः कौरवान्ययौ
वृषसेनस्तु पाञ्चालान् पित्रा सार्धं विशाम्पते
कर्णपुत्रस्तु समरे हित्वा राजन् युधिष्ठिरम्
जुगोप चक्रं त्वरितो राधेयस्यैव मारिष
उलूकस्तु रणे क्रुद्धस्सहदेवेन मारिष
निवारितश्शरशतैः क्रुद्धेन रणमूर्धनि
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्
छादयामास समरे मेघो वृष्ट्येव पर्वतम्
सारथिं प्रेषयामास यमस्य सदनं प्रति
उलूकस्तु ततो यानादवप्लुत्य विशाम्पते
अपयातस्ततस्तूर्णमवप्लुत्य उलूको रणमूर्धनि
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः
सात्यकिश्शकुनिं विद्ध्वा विंशत्या निशितैश्शरैः
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान्
विदार्य कवचं वीरो ध्वजं चिच्छेद काञ्चनम्
अथैनं निशितैर्बाणैस्सात्यकिः प्रत्यविध्यत
सारथिं च महाराज त्रिभिरेव समार्पयत्
अथास्य वाहांस्त्वरितश्शरैर्निन्ये यमक्षयम्
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ
आरुरोह रथं तूर्णमुलूकस्य महात्मनः
अपोवाह रथस्थं तं सात्यकस्याजिसागरात्
शैनेयस्तु रणे राजंस्तावकानामनीकिनीम्
अभिदुद्राव वेगेन ततोऽनीकमभज्यत
शैनेयशरनुन्नं तव सैन्यं विशाम्पते
भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत्
भीमसेनं तव सुतो वारयामास संयुगे
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त क्षत्रियाः
ततोऽपायान्नृपस्तस्माद्भीमसेनभयार्दितः
कुरुसैन्यं ततस्सर्वं भीमसेनमुपाद्रवत्
तत्र रावो महानासीद्भीमसेनं जिघांसताम्
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छदे
अथान्यद्धनुरादाय कृपश्शस्त्रभृतां वरः
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ
ततोऽपायाद्रथेनैव युधामन्युस्सुबुद्धिमान्
उत्तमौजाश्च वार्ष्णेयं भीमं कृतवर्माणमाहवे
छादयामास समरे मेघो वृष्ट्येव पर्वतम्
तद्युद्धं सुमहच्चासीद्घोररूपं परन्तप
तादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे
हृदि विव्याध सहसा रथोपस्थ उपाविशत्
तं सारथिरपोवाह रथेन रथिनां वरम्
ततस्तु सात्वतो राजन्पाण्डुसैन्यमभिद्रवत्