धृतराष्ट्रः
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः
अवशेषं न पश्यामि मम सैन्येषु सञ्जय
अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम्
जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम्
कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान्
बहुनाऽद्य किमुक्तेन दैवं तेषां परायणम्
मामकाः किमकुर्वन्त तन्ममाचक्ष्व सञ्जय
सञ्जय
क्षयस्तेषां महाञ्जातो राजन्दुर्मन्त्रिते तव
दृष्ट्वा भीमं महेष्वासं तव पुत्रः प्रतापवान्
क्रोधरक्तेक्षणः क्रुद्धो भीमसेनमभिद्रवत्
दुर्योधनः
तिष्ठतिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम्
अद्य त्वां प्रेषायष्यामि यमस्य सदनं प्रति
सञ्जयः
इत्युक्त्वा प्रययौ तूर्णं यत्र भीमो व्यवस्थितः
तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम्
यत्नेन महता कर्णो व्यवस्थापयते बलम्
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्
प्रत्युद्ययौ रणे कर्णः पाण्डवान्युद्धदुर्मदः
प्रत्युद्ययुश्च राधेयं पाण्डवानां महारथाः
धून्वाना विविधांश्चापान् विक्षिपन्तश्च सायकान्
भीमसेनश्शिनेर्नप्ता शिखण्डी जनमेजयः
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः
पाञ्चालानां नरव्याघ्रास्समन्तात्तव वाहिनीम्
अभ्यद्रवन्सुसङ्क्रुद्धास्समरे जितकाशिनः
तथैव तावका राजन्पाण्डवानां महाचमूम्
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथान्
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम्
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्
शिखण्डी तु ययौ कर्णं धृष्टद्युम्नस्सुतं तव
दुश्शासनं महाराज महासेनस्समभ्ययात्
नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः
उलूकं समरे राजन्सहदेवस्समभ्ययात्
सात्यकिश्शकुनिं चापि भीमसेनस्तु कौरवान्
अर्जुनं च रणे यान्तं द्रोणपुत्रो महारथः
युधामन्युं कृपो राजन्नुत्तमौजास्तु कौरव
संयुगे कृतवर्माणमायान्तं पर्यवारयत्
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव भारत
सहानीकान्महाराज एक एवाभ्यवारयत्
शिखण्डी तु ततः कर्णं विचरन्तमभीतवत्
भीष्महन्ता महाराज वारयामास पत्रिभिः
प्रतिरुद्धस्ततः कर्णो रोषात्प्रचुरकुण्डलः
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये ह्यविध्यत
धारयन् स शितान्बाणाञ्शिखण्डी बह्वशोभत
राजतः पर्वतो यद्वत्त्रिभिश्शृङ्गैस्समन्वितः
सोऽतिविद्धो महेष्वासस्सूतपुत्रेण संयुगे
कर्णं विव्याध समरे नवत्या निशितैश्शरैः
तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिश्शरैः
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः
हताश्वात्तु ततो यानादवप्लुत्य महारथः
सञ्छिन्नकार्मुको राजन् सूतपुत्रेण संयुगे
शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धश्शत्रुतापनः
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः
शिखण्डिनमथाविध्यन्नवभिर्निशितैश्शरैः
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः
अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्
तूलराशिं समासाद्य यथा वायुर्महाबलः
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः
दुश्शासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे
तस्य दुश्शासनो बाहुं सव्यं विव्याध मारिष
शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा
धृष्टद्युम्नस्तु निर्विद्धश्शरं घोरममर्षणः
दुश्शासनस्य सङ्क्रुद्धः प्रेषयत्तनयस्य ते
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते
अथापरैष्षोडशभिर्भल्लैः कनकभूषणैः
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत्
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः
अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव
धृष्टद्युम्नं शरव्रातैस्समन्तात्पर्यवारयत्
तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः
व्यस्मयन्त रणे योधास्सिद्धाश्चाप्सरसस्तथा
धृष्टद्युम्नमपश्याम घटमानं महाबलम्
दुश्शासनेन संरुद्धं सिंहेनेव महाद्विपम्