श्रीभगवान्
आतुरो मे मतो राजा अविषह्यश्च भारत
अथैनमनुधावन्ति पाञ्चालास्सह सृञ्जयैः
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः
मज्जन्तमिव पाताले बलिनो विजिगीषवः
न केतुर्दृश्यते राज्ञः कर्णस्य पिहितश्शरैः
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः
धृष्टद्युम्नस्य भीमस्य शतानीकस्य चाभि भो
पाञ्चालानां च सर्वेषां चेदिकानां च भारत
एष पार्थ रणे कर्णः पाण्डवानामनीकिनीम्
शरैर्विध्वंसयामास नलिनीमिव कुञ्जरः
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः
एते भारत मातङ्गाः कर्णेनाभ्याहता रणे
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश
रथानां द्रवते वृन्दमेतच्चैव समन्ततः
द्राव्यमाणं रणे पार्थ कर्णेनामिततेजसा
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्रतत्र तु
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर
असौ द्रवति राधेयो भीमसेनरथं प्रति
किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम्
एते नश्यन्ति पाञ्चाला द्राव्यमाणा महात्मना
शक्रेण च यथा दैत्या द्राव्यमाणा महाहवे
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान्
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः
एष कर्णो धनुश्श्रेष्ठं विधून्वन्बहु शोभते
शत्रूञ्जित्वा यथा शक्रो देवसङ्घैस्समावृतः
एष सर्वात्मना पाण्डून्सृञ्जयांश्च समन्ततः
त्रासयित्वा रणे पार्थ राधेयो रथिनां वरः
अभ्यभाषत हृष्टात्मा सर्वसैन्यानि मानद
कर्णः
अभिद्रवत गच्छध्वं द्रुतं द्रवत पाण्डवान्
यथा जीवन्नवःकश्चिन्मुच्यते युधि सृञ्जयः
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः
श्रीभगवान्
एवमुक्त्वाऽनुयात्येष पृष्ठतो विकिरञ्छरान्
पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम्
उदयं पर्वतं यद्वच्छशाङ्केनाभिविराजितम्
पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत
ध्रियमाणेन समरे तथा शतशलाकिना
एष त्वां प्रेक्षते कर्णस्सकटाक्षं धनञ्जय
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे
पश्य चैनं महाबाहो विधून्वानं महद्धनुः
शरांश्चाशीविषाकारान्विसृजन्तं महाबलम्
असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम्
प्रार्थयन्समरं पार्थ त्वया सह परन्तप
वधाय चात्मनोऽभ्येति पावकं शलभो यथा
एष ह्यमर्षी शूरश्च धार्तराष्ट्रहिते रतः
त्वां न मर्षयते पार्थ नित्यमेव सुमन्दधीः
एकाकिनं च दृष्ट्वैव धार्तराष्ट्रो रणाजिरे
त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम्
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे
अात्मानं तु कृतार्थं च समीक्ष्य भरतर्षभ
असौ दुर्योधनः क्रुद्धो रथानीकेन दंशितः
रिरक्षिषुस्सूतपुत्रं धार्तराष्ट्रो निवर्तते
सर्वैस्सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता
प्रतिपद्यस्व राधेयं प्राप्तकालमरिन्दम
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम्
पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम
शतान्यायान्ति वेगेन बलिनां तिग्मतेजसाम्
पञ्चहस्ति सहस्राणि त्रिगुणा वाजिनस्तथा
अभिसंहत्य सहिताः पदाताः प्रयुतानि च
अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते
द्रोणपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय
निकृत्त्यैतद्रथानीकं बलिनं लोकविश्रुतम्
नृसिंहयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः
देवासुरे पार्थ मृधे देवदानवयोरिव
पश्यन्तु कौरवास्सर्वे तव पार्थ पराक्रमम्
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना
उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ
असौ कर्णस्सुसङ्क्रुद्धः पाञ्चालानभिधावति
केतुमस्याभिपश्यामि धृष्टद्युम्नरथं प्रति
समुच्छेत्स्यति पाञ्चालानिति मन्ये परन्तप
आचक्षे त्वत्प्रियं पार्थ तवेदं भरतर्षभ
राजैष कुशली धीरो धर्मपुत्रो युधिष्ठिरः
असौ भीमो महाबाहुस्सन्निवृत्तश्चमूमुखे
वृतस्सृञ्जयसैन्येन सात्यकेन च भारत
एते युधि विहिंस्यन्ते कौरवा निशितैश्शरैः
क्रुद्धेन भीमसेनेन पाञ्चालैश्च महारथैः
सेना हि धार्तराष्ट्रस्य विमुखा व्यद्रवद्रणात्
वेगेन भीमसेनस्य निहता विविधैश्शरैः
विपन्नसस्येव मही रुधिरेण समुक्षिता
भारती भरतश्रेष्ठ सेना कृपणदर्शना
निवृत्तं पश्य कौन्तेयं भीमसेनं युधाम्पतिम्
आशीविषमिव क्रुद्धं तस्माद्द्रवति भारती
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः
केतवोऽपि निपात्यन्ते हस्त्यश्वं विप्रकीर्यते
रथेभ्यः प्रपतन्त्यन्ये रथिनो विगतासवः
नानारूपैर्हता बाणैः पाञ्चालैरपलायिभिः
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय
समाप्लवन्ते पाञ्चाला धार्तराष्ट्रांस्तरस्विनः
मृद्नन्ति च नरव्याघ्र भीमसेनस्य संश्रयात्
बलं यदेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम
एते नर्दन्ति पाञ्चाला ध्मापयन्ति च वारिजान्
अभिद्रवन्ति च रणे निघ्नन्तस्सायकैः परान्
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परन्तपाः
धार्तराष्ट्रान्विनिघ्नन्तो विशन्त्येते रथोत्तमान्
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः
त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैरभिपात्यते
सुभृशञ्च पराक्रान्ताः कृपकर्णादयो विभो
निवारणे महेष्वासाः पाञ्चालानां परन्तप
अनिवृत्तांश्च भीतांस्तान्धार्तराष्ट्रान्परन्तप
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः
रथाश्च विविधास्सर्वे निवृत्ते भरतर्षभे
विवर्णमुखभूयिष्ठा धार्तराष्ट्री महाचमूः
पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी
वज्रिवज्रहतानीव शिखराणि धराभृताम्
भीमसेनेन निर्विद्धा बाणैस्सन्नतपर्वभिः
स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः
एते द्रवन्ति कुरवो भीमसेनभयार्दिताः
त्यक्त्वा गजान् हयांश्चैव रथांश्चैव सहस्रशः
हस्त्यश्वरथपत्तीनां द्रवतां निस्स्वनं शृणु
भीमसेनस्य निनदं द्रावयानस्य कौरवान्
अभिजानामि भीमस्य सिंहनादं पुनःपुनः
नदतः पाण्डवेयस्य सङ्ग्रामे जितकाशिनः
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्
विसृजंस्तोमरान्क्रुद्धो दण्डपाणिरिवान्नदन्
तस्य चैव भुजौ च्छिन्नौ भीमसेनेन गर्जतः
नागश्च क्रकरप्रख्यैर्नाराचैर्दशभिर्हतः
हन्तैते पुनरायान्ति नागा ह्यन्ये प्रमाथिनः
नीलाञ्जनचयप्रख्या महामात्रवरास्स्थिताः
शक्तितोमरनाराचैर्विनिघ्नन्तो वृकोदरम्
सप्तसप्त च नागस्था वैजयन्त्यश्च सध्वजाः
नवत्या निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा
पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य सङ्गताः
क्रुद्धेन नरसिंहेन भीमसेनेन पातिताः
नहि शक्ता रणे भीमं पार्थिवास्समुदीक्षितुम्
मध्यन्दिनगतं सूर्यं यथा दुर्बलदृष्टयः
एते भीमस्य सन्त्रस्तास्सिंहस्येवेतरे मृगाः
शरैस्सन्ताडितास्सङ्ख्ये न लभन्ते सुखं क्वचित्
राजानं च महाबाहुं पीडयन्त्यात्तमन्यवः
राधेयो बहुभिस्सार्धमसौ गच्छति वेगितः
वर्धयित्वा तु भीमं तं पार्श्वतो ह्यानयद्धनुः
तं पालयन्महाराजं धार्तराष्ट्रं बलान्वितः
सञ्जयः
एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्
अर्जुनो व्यधमच्छिष्टान्संशप्तकगणान्बहून्
ते वध्यमानाः पार्थेन संशप्तकगणाः प्रभो
शक्रस्यातिथितां प्राप्तास्समपद्यन्त विज्वराः
नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः
उत्तमं जवमास्थाय महावातो घनानिव
ते भीता ह्यवकीर्यन्त तत्र तत्रैव भारत
लुलितांश्च ततश्शूरानहनत्पुरुषोत्तमः
पुनश्च पुरुषव्याघ्रश्शरैस्सन्नतपर्वभिः
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम्