सञ्जयः
ततः प्रववृते भूयस्सङ्ग्रामो राजसत्तम
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः
धनूंषि बाणान्परिघानसितोमरपट्टसान्
मुसलानि भुसुण्ठीश्च शक्तियष्टिपरश्वथान्
गदाः प्रासाञ्शितान्कुन्तान्भिण्डिपालान्महाङ्कुशान्
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया
धनुर्ज्यातलशब्देन दिशश्च प्रदिशो वियत्
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान्
तेन शब्देन बहवस्संहृष्टाश्चक्रुराहवम्
वीरा वीरैर्महाघोरं कलहान्तमभीप्सवः
ज्यातलत्रधनुश्शब्दाञ्शस्त्राणां च निपात्यताम्
ताडितानां च पततां निनादांश्चैव दन्तिनाम्
बाणशब्दांश्च विविधाञ्शूराणां चैव गर्जताम्
श्रुत्वा शब्दान् भृशं नेदुः पेतुर्मम्लुश्च भारत
तेषामाददतां बाणान् शस्त्रवर्षं च वर्षताम्
बहूनातिरथिः कर्णः प्रममाथ तथेषुभिः
पञ्च पाञ्चालवीराणां रथानां दश सप्त च
साश्वसूतरथान् कर्णश्शरैर्निन्ये यमक्षयम्
योधमुख्या महावेगाः पाण्डूनां कर्णमभ्ययुः
शिक्षितास्तमभिद्रुत्य परिवव्रुस्समन्ततः
दीर्घमम्बरमावृत्य वाताः पूर्वापरा इव
ततः कर्णो द्विषत्सेनां बाणवृष्ट्या विलोलयन्
विजगाहेऽण्डजाकीर्णां पद्मिनीमिव यूथपः
द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम्
विदुधाव शितैर्बाणैश्शिरांस्युन्मथ्य पातयत्
हस्तिनस्समहामात्रान्साश्वारोहान्हयानपि
रथिनोऽप्येकबाणेन भ्रमतश्चाप्यपातयत्
चर्म वा वर्म वाऽश्रित्य निपातमपि देहिनः
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः
वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान्
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान्
ममर्द तरसा कर्णस्सिंहो मृगगणानिव
ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष
यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः
तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डवाः
प्रियानसून्परित्यज्य योधा जग्मुः परस्परम्
सुसन्नद्धाः कवचिनश्शिरस्त्राणविभूषिताः
गदाभिर्मुसलैश्चान्यैः परिघैश्च महारथाः
समभ्यधावंस्त्वन्योन्यं देवदण्डैरिवोद्यतैः
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष
ततो निजघ्नुरन्योन्यं पेतुरन्योन्यपातिताः
वमन्तो रुधिरं वक्त्रैर्विमस्तिष्केक्षणायुधाः
दन्तपूर्णैस्सरुधिरैरास्यैर्दाडिमसन्निभैः
जीवन्त इव चान्ये तु तस्थुश्शस्त्रौघबृंहिताः
परश्वथैरपि शरैः पट्टसैरसिभिस्तथा
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः
ततक्षुर्बिभिदुश्चैव चिक्षिपुश्चिच्छिदुस्तथा
सञ्चकर्तुश्च जघ्नुश्च क्रुद्धा राजन् महारणे
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः
क्षरन्तस्स्वरसं रक्तं प्रकृत्ताश्चन्दना इव
रथा रथैर्विनिहता हस्तिनश्चापि हस्तिभिः
नरा नरैर्हताः पेतुरश्वैरश्वास्सहस्रशः
ध्वजाश्शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः
क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाश्शोभां न तत्यजुः
वध्यतां दारुणश्शब्दस्स्तनतां पततामभूत्
नराश्वेभरथानां हि नराश्वेभरथैस्तथा
नराश्वनागांश्च रथाःपत्तीन्ममृदुराहवे
नरानश्वा नरान्नागा विषाणैर्जघ्नुरञ्जसा
तथा रथा हताः पेतुरश्वारोहैस्सहस्रशः
अश्वारोहैर्हतारोहाश्छिन्नगात्राश्च दन्तिनः
सपताकाध्वजाः पेतुर्निकृत्ता इव शाखिनः
सादिभिः पत्तिसङ्घाश्च प्रहता युधि शेरते
पत्तिभिश्च समाप्लुत्य द्विरदास्स्यन्दनास्तथा
हस्त्यारोहाश्च रथिनो हताः प्रासासितोमरैः
अश्वारोहास्समासाद्य सहसा पत्तिभिर्हताः
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः
हतानां वदनान्यासन्गात्राणि च नृणां रणे
रूपाण्यत्यर्थकान्तानि द्विरदानां रणे नृप
विशीर्णानीव रोधांसि नदीनां भरतर्षभ