धृतराष्ट्रः
पाण्ड्ये हते किमकरोदर्जुनो युधि सञ्जय
एकवीरेण कर्णेन द्राविते च युधिष्ठिरे
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः
सर्वभूतेष्वनुज्ञातश्शङ्करेण च धीमता
सञ्जयः
तस्मान्मम भयं तीव्रममित्रघ्नाद्धनञ्जयात्
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचस्तदा
श्रीभगवान्
हतं पश्यस्व राजानमपयातांश्च पाण्डवान्
कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम्
असौ भीमो महेष्वासः प्रतिवृत्तो रणं प्रति
तमन्येऽप्यनुवर्तन्ते धृष्टद्युम्नपुरोगमाः
पाञ्चालास्सृञ्जयाश्चैव पाण्डवानां च ये मुखम्
निवृत्ते च पुनः पार्थे भग्नं शत्रुबलं महत्
कौरवान्द्रवतो ह्येष कर्णो वारयतेऽर्जुन
अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः
असौ गच्छति कौन्तेय द्रौणिश्शस्त्रभृतां वरः
तमेष प्रद्रुतस्सङ्ख्ये धृष्टद्युम्नो महारथः
अश्वत्थाम्ना हतास्सङ्ख्ये सर्वे कौन्तेय सृञ्जयाः
रथाश्वनरनागानां कृतं च कदनं महत्
सञ्जयः
इत्येतत्सर्वमाचष्ट वासुदेवः किरीटिने
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातॄणां व्यसनं महत्
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः
ततः प्रायाद्धृषीकेशो रथेनाप्रतिमो युधि
ततो रेणुस्समभवत्पुनस्तत्र महारणे
ततो राजन्महानासीत्सङ्ग्रामो रोमहर्षणः
सिंहनादरवाश्चात्र प्रादुरासन्समागमे
उभयोस्सेनयो राजन्मृत्युं कृत्वा निवर्तनम्
ततः पुनस्समाजग्मुरभीताः कुरुसृञ्जयाः
युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम्
ततः प्रववृते युद्धं घोररूपं विशाम्पते
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनम्
तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले रोमहर्षणे
संशप्तकेषु वीरेषु किञ्चिच्छेष्टेषु भारत
धृष्टद्युम्नो महाराज सहितस्सर्वराजभिः
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः
आगच्छमानांस्तान्दृष्ट्वा सङ्ग्रामे विजयैषिणः
दधारैको रणे कर्णो जलौघानिव पर्वतः
समासाद्य रणे कर्णं व्यशीर्यन्त महारथाः
यथाऽचलं समासाद्य वार्योघास्सर्वतोदिशम्
तयोरासीन्महाराज सङ्ग्रामो घोरदर्शनः
प्रयुध्यतोर्महारङ्गे बलिनोर्विजिगीषतोः
धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा
भित्वा च तत्र वै कर्णं तिष्ठतिष्ठेति चाब्रवीत्
विजयं तु धनुश्श्रेष्ठं विधून्वानो महारथः
ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः
पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान्
ताडयामास सङ्क्रुद्धः पार्षतं नवभिश्शरैः
ते हेमविकृतं वर्म भित्त्वा तस्य महात्मनः
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः
ततोऽन्यद्धनुरादाय सारवद्भारसाधनम्
कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम्
द्रोणशत्रुं महेष्वासो विव्याध नवभिश्शरैः
पुनरन्यं महाराज शरं कनकभूषणम्
प्रेषयामास सङ्क्रुद्धो मृत्युदण्डमिवापरम्
तमापतन्तं सहसा घोररूपं विशाम्पते
चिच्छेद शतधा राजन्पार्षतः कृतहस्तवत्
दृष्ट्वा निपतितं भूमौ शरं कर्णो विशाम्पते
पार्षतं शरवर्षेण समन्तात्पर्यवारयत्
विव्याध चैनं त्वरितो नाराचैस्तत्र सप्तभिः
तं प्रत्यविध्यद्दशभिश्शरैर्हेमविभूषितैः
तयोर्युद्धं समभवद्दृष्टिश्रोत्रमनोहरम्
आसीद्घोरं च चित्रं च प्रेक्षणीयं च सर्वशः
सर्वेषां तत्र भूतानां रोमहर्षो व्यजायत
दृष्ट्वा तत्समरे कर्म कर्णपार्षतयोर्नृप
एतस्मिन्नन्तरे द्रौणिरभ्ययात्तं महारथम्
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम्
स दृष्ट्वा समरे कर्णं पार्षतं च महारथम्
अभ्यभाषत सङ्क्रुद्धः पार्षतं शत्रुतापनम्
रथं रथेन सम्पीड्य पार्षतस्य तु ब्राह्मणः
अश्वत्थामा
तिष्ठतिष्ठेति ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे
सञ्जयः
इत्युक्त्वा समरे वीर शीघ्रकृन्निशितैश्शरैः
छादयामास समरे यतमानो महारथः
यत्नतः परया शक्त्या धृष्टद्युम्नं महारणे
योधयामास समरे क्रुद्धरूपो विशाम्पते
यथा हि समरे द्रौणिः पार्षतं दृश्य मारिष
नातिहृष्टमना भूत्वा मेने तं मृत्युमात्मनः
तथा द्रौणिं रणे दृष्ट्वा पार्षतश्शत्रुपूगहा
नातिहृष्टमना ह्यासीन्मन्वानो मृत्युमात्मनः
स ज्ञात्वा समरेऽत्मानं शस्त्रावध्यं महाबलः
जवेनाभिययौ द्रौणिं कालः कालक्षये यथा
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणार्थिनम्
क्रोधेन निश्श्वसन्वीरः पार्षतं समभिद्रवत्
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम्
प्रगृह्य महती चापे शरासनविराजिते
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते
अश्वत्थामा
पाञ्चालापशदाद्य त्वां प्रेषयामि यमक्षयम्
पापं हि यत्त्वया कर्म कृतं तातं घ्नता रणे
अद्य त्वं प्राप्स्यसे तद्वै यथा ह्यकुशलस्तथा
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे
नापक्रामसि वा मोहात्सत्यमेतद्ब्रवीमि ते