धृतराष्ट्रः
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः
न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम्
तस्य विस्तरतो ब्रूहि प्रवीरस्यास्य विक्रमम्
शिक्षां वीर्यं च मानं च प्रभावं दर्पमेव च
सञ्जयः
भीष्मद्रोणकृपद्रौणिकर्णार्जुनजनार्दनान्
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे रथान्
तुल्यतां द्रोणभीष्माभ्यामात्मनो यो न मृष्यते
वासुदेवार्जुनाभ्यां च न्यूनतां चापि नेच्छति
स पाण्ड्यो नृपतिश्रेष्ठस्सर्वशस्त्रभृतां वरः
कर्णस्यानीकमहनत्पाशहस्त इवान्तकः
तदुदीर्णरथाश्वेभपत्तिप्रवरसङ्कुलम्
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाभ्यर्दितं बलम्
व्यश्वसूतध्वजरथान्विप्रयुद्धायुधान्रथान्
सम्यगस्तैश्शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत्
द्विरदान्प्रवरारोहान्विपताकायुधध्वजान्
सपादरक्षान्यहनद्वज्रेणाद्रीनिवाद्रिहा
सशक्तिप्रासयष्टींश्च हयारोहान्हयानपि
पुलिन्दकषबाह्लीकान्निषादान्ध्रकतङ्कणान्
दाक्षिणात्यांश्च भोजांश्च शूरान्सङ्ग्रामकर्कशान्
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून्
चतुरङ्गं बलं राजन्निघ्नन्तं पाण्डयमाहवे
दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्ततरो ययौ
आभाष्य चैनं मधुरमनुसृत्य ह्यभीतवत्
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयत्
अश्वत्थामा
राजन्कमलपत्राक्ष प्रधानायुधवाहन
वज्रसंहननाचिन्त्य प्रख्यातबलपौरुष
मुष्टिक्लिष्टाङ्गुलिभ्यां च व्यायताभ्यां महद्धनुः
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम्
शरवर्षैर्महावेगैरमित्रानभिवर्षसि
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून्
मृगसङ्घानिवारण्ये नखैर्भीमबलो हरिः
महता रथघोषेण दिवं भूमिं च नादयन्
वर्षान्ते सस्यगां सूर्यो भाभिरादीपयन्निव
संस्पृशानश्शरैः पूर्णौ तूणी चाशीविषोपमैः
मयैवैकेन युध्यस्व त्र्यम्बकेन यथान्तकः
सञ्जयः
एवमुक्तस्तथेत्युक्त्वा प्रमथ्यैनं स पार्थिवः
कर्णिना द्रोणतनयं विव्याध मलयध्वजः
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः
मर्मस्वभ्यहनद्द्रौणिः पाण्ड्यमाचार्यनन्दनः
ततोऽपरान्नवांस्तूर्णं नाराचान्कङ्कवाससः
गत्या दशम्या संयुक्तानश्वत्थामाऽप्यवासृजत्
तानच्छिनत्तदा पाण्ड्यश्चतुर्भिरपरैश्शरैः
चतुरोऽभ्याहनच्चाश्वानाशु ते व्यसवोऽभवन्
अथ द्रोणसुतस्येषूञ्ञ्छित्वा छित्वा शितैश्शरैः
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः
अथाधिज्यं महत्कृत्वा धनुर्द्रौणिरमित्रहा
प्रेक्ष्य चाशु रथे युक्तान्नरैरन्यान्हयोत्तमान्
ततश्शरसहस्राणि प्रेषयामास स द्विजः
इषुसम्बाधमाकाशमकरोद्दिश एव च
ततस्तानस्यतस्सर्वान्द्रौणेर्बाणान्महात्मनः
जानन्नप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः
प्रततांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः
चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैश्शरैः
अथ तल्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः
प्रास्यद्द्रोणसुतो बाणान्वर्षं पूषानुजो यथा
अष्टावष्टगवान्यूहुश्शकटानि यदायुधम्
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम्
ये ये ददृशिरे रूपं विसञ्ज्ञाः प्रायशोऽभवन्
आचार्यपुत्रस्तां सेनां बाणवृष्ट्या ह्यवीवृषत्
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम्
द्रौणिपर्जन्यसृष्टां तां बाणवृष्टिं दुरासदाम्
वायव्यास्त्रेण स क्षिप्रं विद्ध्वा पाण्ड्यानिलोऽनदत्
तस्य नानदतः केतुं चन्दनागुरुरूषितम्
मलयप्रतिमं द्रौणिश्छित्त्वा बाणैरपातयत्
सूतमेकेषुणा हत्वा महाजलदनिस्स्वनम्
धनुश्छित्त्वाऽर्धचन्द्रेण व्यधमत्तिलशो रथम्
अस्त्रैरस्त्राणि संवार्य च्छित्त्वा सर्वायुधानि च
प्राप्तमप्यहितं द्रौणिर्नावधीद्युद्धतृष्णया
हतेश्वरं द्विरदवरं सुकल्पितं शराभिमृष्टः प्रतिशब्दगो बली
तदाऽध्यतिष्ठन्मलयध्वजस्त्वरन्यथाऽद्रिशृङ्गं हरिरुन्नदंस्तथा
स तोमरं भास्कररश्मिवर्चसं बलास्त्रसर्गोत्तमयत्नमन्युभिः
ससर्ज शीघ्रं परिपीडयन्गजं गुरोस्सुताय द्रमिलेश्वरो नदन्
मणिप्रवेकोत्तमवज्रहाटकैरलङ्कृतं चांशुकमाल्यमौक्तिकैः
हतो मयाऽसीत्यसकृन्मुदा नदन्पराभिनद्द्रौणिवराङ्गभूषणम्
तदर्कचन्द्रग्रहवैद्युतत्विषं भृशाभिघातात्पतितं विघूर्णितम्
महेन्द्रवज्राभिहतं महास्वनं यथाऽद्रिशृङ्गं धरणीतले तथा
ततः प्रजज्वाल परेण मन्युना पदाहतो नागपतिर्यथा तथा
समाददे चान्तकदण्डसन्निभानिषूनमित्रान्तकरांश्चतुर्दश
द्विपस्य पादाग्रकरान्स पञ्चभिर्नृपस्य बाहुं च शिरोऽथ पत्रिभिः
जघान षड्भिष्षडृतूपमत्विषस्स पाण्ड्यराजानुचरान्महारथान्
सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषितौ
भुजौ धरायां पतितौ नृपस्य तौ विचेष्टतुस्तार्क्ष्यहताविवोरगौ
शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम्
क्षितौ विबभ्राज सुदीप्तकुण्डलं विशाखयोर्मध्यगतः यथा शशी
समाप्तविद्यं तु गुरोस्सुतं नृपस्समाप्तकर्माणमुपेत्य ते सुतः
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः