सञ्जयः
प्रत्येत्याथ पुनर्जिष्णुर्हत्वा संशप्तकान्बभौ
वक्रानुवक्रगमनादङ्गारक इव ग्रहः
पार्थबाणहतास्तेऽथ नराश्वरथकुञ्जराः
विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च भारत
धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चापासिसायकान्
पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम्
तं प्रवीरास्त्वदीयानां नर्दमाना हि दुद्रुवुः
वाशितार्थं युध्यमाना वृषाणां वृषभं यथा
तेषां तस्यापि तद्युद्धमभवद्रोमहर्षणम्
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा
अथाविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः
उग्रायुधोऽस्य तज्जिष्णुश्शिरः कायादपाहरत्
ततस्ते सर्वतः पार्थं नानाशस्त्रैरवीवृषन्
मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः
सम्यगस्तैश्शरैस्सर्वानहितानहनद्बहून्
छिन्नत्रिवेणुजङ्घेषान्हताश्वान्हतसारथीन्
सञ्छिन्नरश्मियोक्त्राक्षान्सानुकर्षायुधान्रथान्
विध्वस्तसर्वसन्नाहान्बाणैश्चक्रेऽर्जुनस्त्वरन्
ते रथास्तत्र विध्वस्ताः परार्द्ध्या भान्त्यनेकशः
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः
द्विपास्सम्भिन्नमर्माणो वज्राशनिनिभैश्शरैः
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा
अनेकैश्च शिलाधौतैर्वज्रानलविषोपमैः
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान्
सारोहास्तुरगाः पेतुर्बहवोऽर्जुनपीडिताः
निर्यज्जिह्वाः क्षितौ क्षीणा रुधिरार्द्रास्सुदुर्दृशः
नराश्वनागा नाराचैस्संस्यूतास्सव्यसाचिना
बभ्रमुश्चस्खलुर्नेदुः पेतुर्मम्लुश्च मारिष
महार्हवर्माभरणा नानावर्णाम्बरायुधाः
सरथाश्वद्विपा वीरा हताः पार्थेन शेरते
निर्भयाः पुण्यकर्माणो विशिष्टाभिजनश्रुताः
गताश्शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम्
अथार्जुनरथं वीरास्त्वदीयास्समभिद्रवन्
नानाजनपदाध्यक्षास्सगणा जातमन्यवः
उह्यमना रथाश्वेभैः पत्तयश्च जिघांसवः
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः
साश्वपत्तिद्विपरथं महाशस्त्रौघविप्लवम्
सहसा सन्वितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना
अथाब्रवीद्वासुदेवः पार्थ किं क्रीडसेऽनघ
संशप्तकान्प्रमथ्यैनानथ कर्णवधे त्वर
तथेत्युक्त्वाऽर्जुनः कृष्णं शिष्टान्संशप्तकानथ
क्षपयिष्यंस्तदाऽस्त्रेण दैत्यानिन्द्र इवावधीत्
नाददत्सन्दधच्चैव दृष्टः कैश्चिद्रणेऽर्जुनः
विमुञ्चन्वा शराञ्घोरान्दृश्यन्ते वै नरा हताः
आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत्
हंसाङ्गगौरास्ते सेनां हंसास्सर इवाविशन्
ततस्सङ्ग्रामभूमिं तां वर्तमाने जनक्षये
अवेक्षमाणो गोविन्दस्सव्यसाचिनमब्रवीत्
श्रीभगवान्
एष पार्थ महारौद्रो वर्तते भरतक्षयः
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्
हतानामपविद्धानि कलापानिषुधींस्तथा
जातरूपमयैः पुङ्खैश्शरांश्च नतपर्वणः
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान्
आकीर्णांस्तोमरावापांश्चित्रान्हेमविभूषितान्
दण्डान् कनकचित्रांश्च रणभूमिं च संवृतान्
हस्तिदन्तत्सरून् खड्गान् जातरूपपरिष्कृतान्
वर्माणि चापविद्धानि तोमरांश्च बहून्रणे
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः
जाम्बूनदमयैः पट्टैर्बद्धाश्च विविधा गदाः
जातरूपमयीश्चर्ष्टीः पट्टसान्हेमभूषितान्
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वथान्
परिघान्भिण्डिपालांश्च मुसुण्ठीः क्रकचानपि
अयस्कन्धांश्च पतितान्मुसलानि गुरूणि च
शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा
चक्राणि चापविद्धानि खड्गांश्चापि महारथान्
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः
जीवन्त इव दृश्यन्ते गतसत्वास्तरस्विनः
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्
गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः
गजवाजिमनुष्याणां शरशक्त्यृष्टितोमरैः
निस्त्रिंशैः पट्टसैः प्रासैर्नखरैर्लगुडैरपि
शरीरैर्बहुधा छिन्नैश्शोणितौघपरिप्लुतैः
गतासुभिरमित्रघ्न संवृता रणभूमयः
बाहुभिश्चन्दनादिग्धैस्साङ्गदैर्लब्धभूषणैः
सतलत्रैस्सकेयूरैर्भाति भारत मेदिनी
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्
बद्धचूडामणिवरैश्शिरोभिश्चारुकुण्डलैः
निकृत्तैर्वृषभाक्षाणां विराजति वसुन्धरा
गजवाजिमनुष्याणां शरशक्त्यृष्टितोमरैः
कबन्धैश्शोणितादिग्धैश्छिन्नगात्रशिरोधरैः
भूर्भाति भरतश्रेष्ठ शान्तार्चिभिरिवाग्निभिः
रथांश्च बहुधा च्छिन्नान्हेमकिङ्किणिभूषितान्
वाजिनश्च हतान् पश्य निष्कीर्णान्त्राञ्शराचितान्
अनुकर्षानुपासङ्गान्पताका विविधान्ध्वजान्
रथिनाञ्च महाशङ्खान्पाण्डरांश्च प्रकीर्णकान्
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान्
वैजयन्तीर्विचित्राश्च हताश्च गजयोधिनाम्
वारणानां परिस्तोमान्संयुक्तान्रक्तकम्बलान्
विपाटितविचित्राश्च रौप्यचित्राः कुथास्तथा
भिन्नाश्च बहुधा घण्टाः पतद्भिस्ताडिता गजैः
वैडूर्यमणिदण्डांश्च पतितानङ्कुशांस्तथा
अश्वानां च युगानीषान्रत्नचित्रपरिश्छदान्
पश्य सादिभुजाग्रेषु सुवर्णविकृताः कशाः
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान्
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः
छत्राणि चापविद्धानि चामरव्यजनानि च
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः
वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम्
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः
उपास्यमानांश्च बहून्न्यस्तशस्त्रैर्विशाम्पते
ज्ञातिभिश्च जलक्लिन्नान्रोदमानैर्मुहुर्मुहुः
उत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः
पुनर्युद्धाय गच्छन्ति जये लुब्धाः प्रमन्यवः
अपरे तत्र तत्रैव परिधावन्ति मानवाः
ज्ञातिभिः पतितैश्शूरा याच्यमाना जलं तदा
जलार्थं च गताः केचिन्मृता वै बहवो जनाः
सन्निवृत्ताश्च ते शूरा दृष्ट्वा चैनान्विचेतसः
जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम्
जलं पीत्वा मृतान्पश्य पिबन्त्यन्ये च भारत
परिष्वज्य प्रियानन्ये बान्धवान्बन्धुवत्सलाः
विसञ्ज्ञास्समरे योधांस्तत्रतत्र महारणे
पश्यापरान्नरश्रेष्ठ सन्दष्टोष्ठपुटान्पुनः
भृकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्महारणम्
एतत्तवैवानुरूपं कर्मार्जुन महाहवे
दिवि वा देवराजस्य त्वया यत्कृतमद्य वै
सञ्जयः
एवं तां दर्शयन्कृष्णो रणभूमिं किरीटिने
गच्छन्नेवाश्रृणोच्छब्दं दुर्योधनबले महत्
शङ्खदुन्दुभिनिर्घोषं भेरीपणवमिश्रितम्
रथाश्वनरनागानां पादशब्दांश्च दारुणान्
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगितैः
पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य विष्ठितः
स हि नानाविधैश्शस्तरैरिष्वस्त्रप्रवरो युधि
न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा
गजवाजिमनुष्याणां शरीराणि शितैश्शरैः
हत्त्वा प्रहरतां श्रेष्ठो विदेहासूनथाकरोत्
शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः
छित्त्वा तानवधीत्पाण्ड्यश्शत्रूञ्शक्र इवासुरान्