सञ्जयः
ततस्समभवद्युद्धं शुक्राङ्गिरसवर्चसोः
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव
सन्तापयन्तावन्योन्यं दीप्तैश्शररश्मिभिः
लोकत्रासकरावास्तां विमार्गस्थाविव ग्रहौ
ततोऽविध्यद्भुवोर्मध्ये नाराचेनार्जुनो भृशम्
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः
अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्पितौ भृशम्
स्वरश्मिजालविकचौ युगान्तार्काविवासतुः
ततोऽर्जुनस्सर्वतोधारमस्त्रमवासृजद्वासुदेवेऽभिभूते
द्रौणायनिश्चाप्यहनत्पृषत्कैर्वज्राग्निवैवस्वतदण्डकल्पैः
स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतितीव्रकर्मा
बाणैस्सुमुक्तैरतितीव्रवेगैर्यैराहतो मृत्युरपि व्यथेत
द्रौणेरिषूनिषूनर्जुनस्सन्निवार्य व्यायच्छतस्तद्द्विगुणैस्सुपुङ्खैः
तं साश्वसूतध्वजमेकवीरमावृत्य संशप्तकसैन्यमार्च्छत्
धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणींस्तथा पाणिगतं च शस्त्रम्
छत्राणि केतूंस्तुरगान्रथेषां वस्त्राणि माल्यान्यथ भूषणानि
चर्माणि वर्माणि मनोहराणि प्रसह्य तेषां स शिरांसि चैव
चिच्छेद पार्थो द्विषतां सुमुक्तैर्बाणैस्स्थितानामपराङ्मुखानाम्
सुकल्पितास्स्यन्दनवाजिनागास्समास्थिताः कृतयत्नैर्नृवीरैः
पार्थेरितैर्बाणशतैर्निरस्तास्तैरेव सार्धं नृवरैर्विनेशुः
पद्मार्कपूर्णेन्दुसमाननानि किरीटमाली मकुटोत्कटानि
भल्लार्धचन्द्रक्षुरसन्निकृत्तान्यपातयच्छत्रुशिरांस्यजस्रम्
अथ द्विपैर्दैत्यरिपुद्विपाभैर्देवारिकल्पा बलमन्युदर्पाः
कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन्
तेषां द्विपानां निचकर्त पार्थश्चर्माणि वर्माणि करान्नियन्तॄन्
ध्वजाः पताकाश्च ततः प्रपेतुर्वज्राहतानीव गिरेस्तटानि
तेषु प्रभग्नेषु गुरोस्तनूजं बाणैः किरीटी नवसूर्यवर्णैः
प्रच्छादयामास महाभ्रजालैर्वायुस् समुद्यन्तमिवांशुमन्तम्
ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणिश्शरैरर्जुनवासुदेवौ
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ ननाद सोऽम्भोद इवातपान्ते
तमर्जुनस्तांश्च पुनस्त्वदीयानभ्यर्दितस्तैरभिसृत्य शस्त्रैः
बाणान्धकारं सहसैव कृत्त्वा विव्याध पार्थो वरहेमपुङ्खैः
नाप्याददत्सन्दधन्नैव मुञ्चन्बाणान्रथेऽदृश्यत सव्यसाची
रथान् स नागांस्तुरगान्पदातीन्संस्यूतदेहान्ददृशुर्हतांश्च
सन्धाय नाराचवरान्दशाशु द्रौणिस्त्वरन्नेकमिवोत्ससर्ज
तेषां च पञ्चार्जुनमभ्यविध्यन्पञ्चाच्युतं निर्बिभिदुस्सुपुङ्खाः
तैराहतौ सर्वमनुष्यमुख्यावसृक्क्षरौ वैश्रवणेन्द्रकल्पौ
समाप्तविद्येन तथाऽभिभूतौ हतौ स्विदेताविति मेनिरेऽन्ये
ततोऽर्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधमेनम्
कुर्याद्धि दोषं समुपेक्षितोऽसौ कष्टो महान्व्याधिरिवाक्रियावान्
तथेति चोक्त्वाऽच्युतमप्रमादी द्रौणेः प्रहस्याशु किरीटमाली
भुजौ वरौ चन्दनसारदिग्धौ वक्षश्शिरोऽथाप्रतिमं तथोरू
गाण्डीवमुक्तैः कुपिताहिकल्पैर्द्रौणिं शरैस्संयति निर्बिभेद
छित्त्वा च रश्मींस्तुरगानविध्यत्ते तं रणादूहुरतीव दूरम्
स तैर्हृतो वातजवैस्तुरङ्गैर्द्रौणिर्दृढं पार्थशराभिभूतः
आवृत्य नेयेष पुनस्स योद्धुं पार्थेन सार्धं मतिमान्विमृश्य
जानञ्जयं नियतं वृष्णिवीरे धनञ्जये चाङ्गिरसां वरिष्ठः
विवेश कर्णस्य बलं तरस्वी क्षीणोत्साहः क्षीणबाणास्त्रयोगः
नियम्य तु हयान् समाश्वास्य पुनःपुनः
गजाश्वरथसम्बाधं कर्णस्य प्राविशद्बलम्
प्रतीपकामे तु रणादश्वत्थाम्नि हृते हयैः
मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाद्धृते
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ
वातोद्धूतपताकेन स्यन्दनेनौघनादिना