धृतराष्ट्रः
कथं संशप्तकैस्सार्धमर्जुनस्याभवद्रणः
सूतपुत्रस्य पाञ्चालैः कथं युद्धं प्रवर्तितम्
अश्वत्थाम्नश्च यद्युद्धमर्जुनस्य च सञ्जय
अन्येषां च मदीयानां सह पार्थैर्ब्रवीहि मे
सञ्जयः
शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम
वीराणां शत्रुभिस्सार्धं देहपाप्मविनाशनम्
पार्थस्संशप्तकबलं प्रविश्यार्णवसन्निभम्
व्यक्षोभयदमित्रघ्नो महावात इवार्णवम्
पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः
सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव
सुवृत्तानायतान्पुष्टांश्चन्दनागरुभूषितान्
सायुधान्सतलत्राणान्पञ्चास्यानिव पन्नगान्
बाहून्पादानमित्राणां उच्चकर्ताऽर्जुनो रणे
धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चापानि सायकान्
पाणीन्नूरूंश्च निशितैर्भल्लैश्चिच्छेद पाण्डवः
द्विपान्रथान्हयांश्चैव सारोहानर्जुनो युधिते
शरैरनेकसाहस्रैर्निन्ये राजन्यमक्षयम्
प्रवीरास्सुसंरब्धा नर्दमाना इवर्षभाः
वाशितार्थमभिक्रुद्धा अभिद्रुत्य महोत्कटाः
निघ्नन्तमभिजघ्नुस्ते शरैश्शृङ्गैरिवर्षभाः
तस्य तेषां च तद्युद्धमभवद्रोणहर्षणम्
त्रैलोक्यविजये यद्वद्दैत्यानां सह वज्रिणा
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः
इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्निरासदत्
छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन्
विध्वस्तायुधतूणीरान्समुन्मथितकेतनान्
सञ्छिन्नयोक्त्ररश्मीषांस्वित्रिवेणून्विकूबरान्
विशम्याबन्धुरयुगान्विजङ्घाजानुमण्डलान्
रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः
विस्मापयन् प्रेक्षकाणां द्विषतां भयवर्धनम्
महारथसहस्रस्य समं कर्मार्जुनोऽकरोत्
सिद्धदेवर्षिसङ्घाश्च चारणाश्चापि तुष्टुवुः
देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन्
केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी
अशरीरिणी वाक्
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः
यौ सदा बिभ्रतो वीराविमौ तौ केशवार्जुनौ
ब्रह्मेशानाविव पुरा वीरावेकरथे स्थितौ
सर्वभूतवरौ वीरौ नरनारायणाविमौ
सञ्जयः
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत
अश्वत्थामा सुसङ्क्रुद्धः कृष्णावभ्यद्रवद्रणे
अथ पाण्डवमस्यन्तममित्रान्तकराञ्छरान्
सेषुणा पाणिनाऽऽहूय प्रहसन्द्रौणिरब्रवीत्
अश्वत्थामा
यदि मां मन्यसे वीर प्राप्तमार्यमिवातिथिम्
ततस्सर्वात्मनाऽद्य त्वं युद्धातिथ्यं प्रयच्छ मे
सञ्जयः
एवमाचार्यपुत्रेण समाहूतो युयुत्सया
बहुमेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम्
अर्जुनः
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम्
यदत्रानन्तरं प्राप्तं तत्प्रशाधि महाभुज
सञ्जयः
एवमुक्तोऽवहत्पार्थ कृष्णो द्रोणात्मजान्तिके
शैक्षेण विधिनाऽऽहूतं वायुरिन्द्रमिवाध्वरे
तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत्
श्रीभगवान्
अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम्
सूक्ष्मौ विवादौ विप्राणां सूक्ष्मौ क्षात्रौ जयाजयौ
नहि सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम्
समाप्तिमिच्छन्युध्यस्व स्थिरो भूत्वाऽद्य पाण्डवम्
सञ्जयः
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः
तस्यार्जुनस्सुसङ्क्रुद्धस्त्रिभिर्भल्लैश्शरासनम्
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः
सज्यं कृत्वा निमेषाच्च विव्याधार्जुनकेशवौ
त्रिभिश्शतैर्वासुदेवं सहस्रेण च पाण्डवम्
ततश्शतसहस्राणि प्रयुतान्यर्बुदानि च
ससृजे द्रौणिरायसत्तस्स्तम्भयामास चार्जुनम्
इषुधेर्धनुषो ज्यायास्त्वङ्गुलिभ्यश्च मारिष
बाह्वोः कराभ्यामुरसो वदनाद्घ्राणनेत्रतः
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमचर्मभ्य एव च
रथध्वजाभ्यां च शरा निष्पेतुर्ब्रह्मवादिनः
शरजालेन महता बद्ध्वा केशवपाण्डवौ
ननाद मुदितो द्रौणिर्महामेघौघनिस्स्वनः
तैः पतद्भिर्महाराज द्रौणिमुक्तैस्समन्ततः
सञ्छादितो रथस्थौ तावुभौ कृष्णधनञ्जयौ
ततश्शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान्
निश्चेष्टौ तावुभौ चक्रे रणे माधवपाण्डवौ
हाहाकृतमभूत्सर्वं स्थावरं जङ्गमं तथा
चराचरस्य गोप्तारौ दृष्ट्वा सञ्छादितौ शरैः
सिद्धचारणसङ्घाश्च सम्पेतुर्वै समन्ततः
अपि स्वस्ति भवेदद्य लोकानामिति चाब्रुवन्
न मया तादृशो राजन्दृष्टपृर्वः पराक्रमः
सञ्जज्ञे यादृशो द्रौणेः कृष्णौ च्छादयतो रणे
द्रौणेस्तु धनुषश्शब्दं रथानां त्रासनं रणे
अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा
ज्या चास्य चरतो युद्धे सव्यं दक्षिणमस्यतः
विद्युदम्भोधरस्येव भ्राजमाना व्यदृश्यत
स तदा क्षिप्रकारी च दृढहस्तश्च पाण्डवः
प्रमोहं परमं गत्वा प्रेक्षन्नास्ते धनञ्जयः
विक्रमं च हृतं मेने आत्मनस्तेन संयुगे
तदास्य समरे राजन्वपुरासीत्सुदुर्दृशम्
द्रौणेस्तत्कुर्वतः कर्म यादृग्रूपं पिनाकिनः
वर्धमाने ततस्तत्र द्रोणपुत्रे विशाम्पते
हीयमाने च कौन्तेये कृष्णं रोषस्समाविशत्
स रोषान्निश्वसन्राजन्निर्दहन्निव चक्षुषा
द्रौणिं ददर्श सङ्ग्रामे फल्गुनं च मुहुर्मुहुः
ततः कृष्णोऽब्रवीत्कृष्णः पार्थं सप्रणयं वचः
श्रीभगवान्
अत्यद्भुतमहं पार्थ त्वयि पश्यामि संयुगे
यत्त्वां विशेषयत्याजौ द्रोणपुत्रोऽद्य भारत
कच्चित्ते गाण्डिवं हस्ते मुष्टिर्वा न व्यशीर्यत
कच्चिद्वीर्यं यथापूर्वं भुजयोर्वा बलं तव
उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे
गुरुपुत्र इति ह्येनं मानयन्पाण्डवर्षभ
उपेक्षां मा कृथाः पार्थ नायं कालोह्युपेक्षितुम्
अर्जुनः
पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति
वधं प्राप्तौ मन्यते नौ प्रावृत्य शरवेश्मनि
एषाऽस्य हन्मि सङ्कल्पं शिक्षया च बलेन च
सञ्जयः
एवमुक्त्वाऽस्य चिच्छेद भल्लैः कर्मारमार्जितैः
धनुश्छत्रं पताकां च रथशक्तिं गदां वराम्
अश्वत्थाम्नश्शरानस्ताञ्छित्त्वैकैकं त्रिभिस्त्रिभिः
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः
ततस्संशप्तकान्भूयस्साश्वसूतरथद्विपान्
सपदातिगणानुर्ग्रैर्बाणैर्विव्याध पाण्डवः
ये ये ददृशिरे तत्र यद्यद्रूपं तदा जनाः
ते ते तत्तच्छरैर्व्याप्तं मेनिरे मानमेव च
गाण्डीवप्रच्युतास्ते वै नानारूपाः पतत्रिणः
क्रोशे साग्रे स्थिताञ्जघ्नुर्द्विपांश्च पुरुषान्रणे
भल्लैश्छिन्नाः कराः पेतुर्द्विपानां मदवर्षिणाम्
तथा तथा परशुभिःप्रवृत्ताश्शाल्मलिद्रुमाः
पश्चात्तु शैलवत्पेतुस्ते गजास्सह सादिभिः
वज्रिवज्रप्रमथिता यथा शैलचयास्तथा
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्
विनीतैर्जवनैर्युक्तानास्थितान्युद्धदुर्मदैः
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत्
स्वलङ्कृतानश्वसादीन्पत्तीन्निघ्नन्रणाजिरे
धनञ्जययुगान्ताग्निस्संशप्तकमहार्णवम्
व्यशोषयत दुश्शाम्यं तिग्मैश्शरगभस्तिभिः
तं च द्रौणिमहाशैलं नाराचैस्सूर्यसन्निभैः
निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम्
तमाचार्यसुतः क्रुद्धस्साश्वयन्तारमाशुगैः
बीभत्सुं नाशकद्योद्धुं पार्थस्तानन्तराऽच्छिनत्
ततः परमसङ्क्रुद्धः काण्डकोशमवासृजत्
अश्वत्थामाभिरूपाय गृहानतिथये यथा
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात्
अपाङ्क्तेयानिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम्
स्थितास्संशप्तका राजन्दृष्ट्वा युद्धं महात्मनोः