सञ्जयः
वर्तमाने तथा रोद्रे सङ्ग्रामेऽद्भुतदर्शने
निहत्य पृतनामध्ये संशप्तकगणान्बहून्
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत्
अर्जुनः
प्रभग्नं बलमेतद्धि योत्स्यमानं मया सह
एते धावन्ति सगणास्संशप्तकमहारथाः
दुर्जया ह्येव समरे देवैरपि सवासवैः
अपारयन्तो मद्बाणान्सिंहशब्दान् मृगा इव
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे
कुरवश्चाभिधावन्ति भीमसेनभयार्दिताः
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः
न च कर्णं रणे शक्ता जेतुमेते महारथाः
दुर्जयो ह्येष समरे देवदानवराक्षसैः
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे
तत्र याहि यतः कर्णो द्रावयत्येष नो बलम्
त्रिगर्तान्वर्जयन्याहि सूतपुत्रं महारथम्
वासुदेव महाबाहो यथा च तव रोचते
सञ्जयः
तच्छ्रुत्वा वचनं तस्य गोविन्दः प्रहसन्निव
अब्रवीदर्जुनं तूर्णं कौरवान्याहि भारत
ततस्तव महत्सैन्यं गोविन्दप्रेषिता हयाः
हंसवर्णा विशंस्तूर्णं वहन्तोऽर्जुनमाहवे
केशवप्रेषितैरश्वैस्तैः काञ्चनविभूषितैः
आविशद्भिस्तव बलं चतुर्दिशमदीर्यत
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ
क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती
युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरे
यज्वभिर्विधिनाऽऽहूतौ मखे देवाविवाश्विनौ
क्रोधताम्रेक्षणौ वीरौ शुशुभाते महाबलौ
मदोत्कटौ यथा नागौ दृष्टिसञ्चारचारिणौ
क्रुद्धौ तौ तु महात्मानौ वेगवन्तौ बभूवतुः
तलशब्देन रुषितौ महानागाविवोत्कटौ
विगाह्य च रथानीकमश्वसङ्घांश्च फल्गुनः
व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत
संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत्
ततो रथसहस्रे द्वे द्विरदानां शतत्रयम्
चतुर्दश सहस्राणि वाजिनां च महाहवे
पूर्णे शतसहस्रे द्वे पदातीनां च धन्विनाम्
राजन् पुरुषवीराणां कौरवाणां समन्ततः
अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः
सञ्च्छाद्यमानस्समरे शरैः परबलार्दनः।
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत्
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः
निरन्तरमिवाकाशमासीन्नूनं किरीटिना
किरीटिचापनिर्मुक्तैस्सम्पतद्भिर्महाशरैः
समाच्छन्नं बभौ व्योम काद्रवेयैरिव प्रभो
रुक्मपुङ्खाञ्शरान्घोरान्प्रसन्नान्नतपर्वणः
अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः
मही वियद्दिशस्सर्वास्समुद्रास्सपर्वताः
फलन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनैः
हत्वा दशसहस्राणि क्षत्रियाणां महारथान्
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितो ययौ
प्रपक्षं तं समासाद्य पार्थः काम्भोजरक्षितम्
प्रममाथ बलं भल्लैर्दानवानिव वासवः
प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम्
शस्त्रपाणींस्तथा बाहूंस्तथैव च शिरांस्युत
अङ्गाङ्ङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्भुवि
विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम्
सुदक्षिणादवरजश्शरवृष्ट्याभ्यवीवृषत्
तस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ
पूर्णचन्द्राभवक्त्रं च क्षुरेणापाहरच्छिरः
तत्पपात ततो वेगात्कुण्डलाभ्यां परिष्कृतम्
मनश्शिलागिरेश्शृङ्गं वज्रेणेव विदारितम्
सुदक्षिणादवरजं काम्भोजं ददृशुर्हतम्
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम्
काञ्चनस्तम्भसङ्काशं भिन्नं हेमगिरिं यथा
ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम्
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम्
पार्थेषु निहतैरश्वैः काम्भोजैर्यवनैश्शकैः
शोणिताक्तैस्तदा रक्तं सर्वामासीद्विशाम्पते
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः
अन्योन्येन महाराज कृतो घोरो जनक्षयः
आसीत्क्रुद्धेऽर्जुने कर्णे भीमसेने च दारुणम्
तस्पिन्प्रपक्षे पक्षे च वध्यमाने महात्मना
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात्
विधून्वानो महच्चापं कार्तस्वरविभूषितम्
आददानश्शरान्घोरान्स्वरश्मीनिव भास्करः
तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम्
विस्मापयिषतोर्लोकं यशश्चोत्तममिच्छतोः
संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः
सूतपुत्रस्तु पाञ्चालान्भूयोऽघ्नंस्त्वरितश्शरैः
एवमेव महाराज विनाशः पृथिवीक्षिताम्
आसीत्क्रुद्धेऽर्जुने कर्णे भीमसेने महाबले
युद्धं घोरतरं चासीत्तथाभूते चमूमुखे