सञ्जयः
कर्णस्तु सात्यकिं हित्वा राजगृध्नुरमर्षणः
द्रोणहन्तारमुग्रेषुं ससाराभिमुखो बली
तं पृष्ठतोऽन्वयात्क्रुद्धश्शैनेयोऽभिहतश्शरैः
वारणं जघने निघ्नन् विषाणाभ्यामिव द्विपः
स भारत महानासीद्योधानां सुमहात्मनाम्
कर्णपार्षतयोर्युद्धे सङ्क्रुद्धानां महारणः
न पाण्डवानां नास्माकं कश्चिदासीत्पराङ्मुखः
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिरथक्षयः
प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः
सर्वतोऽभ्यद्रवन्कर्णं पतत्त्रिण इव द्रुमम्
तेषामातिरथिः क्रुद्धः प्रधानान्वै तरस्विनः
विचिन्वन्निव बाणाग्रैस्समासादयदग्रतः
व्याघ्रकेतुस्सुशर्मा च शुक्रश्चित्रायुधः क्रतुः
दुर्जयो रोचमानश्च सिंहसेनस्तथाऽष्टमः
महता रथवंशेन परिवव्रुर्नरोत्तमम्
सृजन्तस्सायकांस्तूर्णं कर्णमाहवशोभिनम्
यतमानांस्तु ताञ्शूरान्मनुजेन्द्रश्शितैश्शरैः
अष्टाभिरष्टौ राधेयः पाञ्चालान्न्यहनद्रणे
अथापरान्महाराज सूतपुत्रः प्रतापवान्
जघान बहुसाहस्रान्योधान्युद्धविशारदान्
विष्णुं च विष्णुवर्माणं देवापिं भद्रमेव च
दण्डधारं च समरे चित्रं चित्रायुधं हरिम्
सिंहकेतुं रोचमानं शलभं च महारथम्
निजघान सुसङ्क्रुद्धश्चेदिकानां महारथान्
तेषामाददतः प्राणानासीदातिरथेर्वपुः
शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवातिभैरवम्
तत्र भारत कर्णेन मातङ्गास्ताडिताश्शरैः
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम्
निपेतुरुर्व्यामपरे कर्णसायकताडिताः
कुर्वन्तो विविधान्नादान्वज्ररुग्णा इवाचलाः
गजवाजिमनुष्यैश्च निपतद्भिस्सहस्रशः
रथैर्भग्नैर्ध्वजैश्चैव समास्तीर्यत मेदिनी
नैवं भीष्मो नच द्रोणो नाप्यन्ये युधि तावकाः
चक्रुर्हि तादृशं कर्म यादृशं कृतवान्रणे
मृगमध्ये यथा सिंहो निर्भयो दृश्यते परान्
पाञ्चालानां तथा मध्ये कर्णो ह्यभीतवत्
सूतपुत्रोऽथ नागेषु हयेषु च रथेषु च
नरेषु च नरव्याघ्रश्चकार कदनं महत्
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः
पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा
सिंहं स्म हि यथा प्राप्य न जीवन्ति मृगाः क्वचित्
तथा कर्णमनुप्राप्य न जीवन्ति स्म सृञ्जयाः
वैश्वानरमुखं प्राप्य दह्यन्ते शलभा यथा
कर्णाग्निं समरे प्राप्य दग्धा भारत सृञ्जयाः
चेदिष्वेकेन कर्णेन पाञ्चालेषु च भारत
विश्राव्य नाम निहता बहवश्शूरसम्मताः
मतिर्ममासीद्राजेन्द्र दृष्ट्वा कर्णस्य विक्रमम्
नैकोऽप्यातिरथेर्जीवत्पाञ्चालानां महारणे
सङ्ख्ये विमथ्य पाञ्चालान्सूतपुत्रः पुनः पुनः
अभ्यधावत्सुसङ्क्रुद्धः कुन्तीपुत्रं युधिष्ठिरम्
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च धन्विनः
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः
शिखण्डी सहदेवश्च नकुलोऽन्ये च भूमिपाः
जनमेजयश्शिनेर्नप्ता बहवश्च प्रभद्रकाः
एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे
कर्णमस्यन्तमिष्वस्त्रैस्ततक्षुरमितौजसम्
तांस्तानतिरथिस्सङ्ख्ये चेदिपाञ्चालपाण्डवान्
एको बहूनभ्यपतद्गरुत्मानिव पन्नगान्
भीमसेनस्तु कौन्तेयः कुरून्मद्रान्सकेकयान्
एकस्सङ्ख्ये महेष्वासश्चालयामास सायकैः
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम्
वाजिनश्च हतारोहाः पदाताश्च गतासवः
अशेरत महाराज वमन्तो रुधिरं बहु
ताडितास्सहसा नागा भीमसेनेन मारिष
निपतन्तिस्म वेगेन वज्ररुग्णा इवाचलाः
निहतैस्तैर्महाराज वेगवद्भिर्महागजैः
शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः
सहस्रशश्च रथिनः पत्तयः पतितायुधाः
विक्षतास्समदृश्यन्त भीमाद्भीता गतासवः
रथिभिस्सादिभिस्सूतैर्पादातैर्वाजिभिर्गजैः
भीमसेनशरैश्छिन्नैरास्तीर्णा वसुधाऽभवत्
संस्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम्
दुर्योधनबलं सर्वं निरुत्साहं कृतं रणे
निश्चेष्टं तु बलं दीनं बभौ तस्मिन्रणाजिरे
प्रसन्नसलिले काले यथा स्यात्सागरो नृप
तद्वत्तव बलं तद्वै निश्चलं समवस्थितम्
मन्युवीर्यबलोपेतं दर्पात्पर्यवरोपितम्
अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा
ते बले भरतश्रेष्ठ वध्यमाने परस्परम्
रुधिरौघपरिक्लिन्ने रुधिरार्द्रे बभूवतुः
सूतपुत्रोऽवधीत्क्रुद्धस्सृञ्जयानामनीकिनीम्
भीमसेनः कुरूणां च त्रिगर्तानां धनञ्जयः