सञ्जयः
भीमसेनं सपाञ्चालं चेदिकेकयसंवृतम्
सेनापतिस्स्वयं क्रुद्धो वारयामास सायकैः
ततस्तु चेदिकारूशान्सृञ्जयांश्च महारथान्
कर्णो जघान सङ्क्रुद्धो भीमसेनस्य पश्यतः
भीमसेनस्ततः कर्णे विहाय रथसत्तमम्
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन्
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा
सृञ्जयांश्च महेष्वासान्सञ्जघान सहस्रशः
संशप्तकेषु पार्थस्तु कौरवेषु वृकोदरः
पाञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः
ते क्षत्रिया दह्यामानास्त्रिभिस्तैः पावकोपमैः
विनाशमगमंस्तीव्रं राजन्दुर्मन्त्रिते तव
ततो दुर्योधनः क्रुद्धो नकुलं नवभिश्शरैः
विव्याध भरतश्रेष्ठ चतुर्भिश्चास्य वाजिनः
ततः परममेयात्मा तव पुत्रो जनाधिप
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम्
नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः
आजघान भृशं राजन्सहदेवश्च पञ्चभिः
तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम्
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिश्शरैः
ततोऽपराभ्यां भल्लाब्यां धनुषी समकृन्तत
यमयोः प्रसभं वीरो विव्याधाशु त्रिभिस्त्रिभिः
तावन्ये धनुषी मृष्ठे शक्रचापनिभे तथा
प्रगृह्य रेजतुश्शूरौ देवपुत्रसमौ युधि
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृपम्
शरैर्ववर्षतुर्घोरैस्तोयदाविव पर्वतम्
ततः क्रुद्धो महाराज तव पुत्रो महारथः
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः
धनुर्मण्डलमेवास्य ददृशे युधि भारत
सायकाश्चाप्यदृश्यन्त निश्चरन्तस्समन्ततः
तस्य सायकसञ्छन्नौ माद्रेयौ न विरेजतुः
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ गतप्रभौ
ते तु बाणा महाराज स्वर्णपुङ्खाश्शिलाशिताः
आच्छादयन्दिशस्सर्वास्सूर्यस्येव मरीचयः
बाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्थले
राज्ञस्तु ददृशे रूपं कालान्तकयमोपमम्
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः
मृत्योरिवान्तिकं प्राप्तौ पाण्डुपुत्रौ हि मेनिरे
ततस्सेनापती राजन्पाण्डवानां महारथः
पार्षतः प्रययौ राजन् यत्र राजा सुयोधनः
माद्रीपुत्रौ ततश्शूरावतिक्रम्य महारथौ
धृष्टद्युम्नस्तव सुतं पीडयामास सायकैः
तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषोत्तमः
ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च
अथास्य सशरं चापं मुष्टिदेशे विशाम्पते
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे
तदपास्य धनुश्छिन्नं पाञ्चाल्यश्शत्रुकर्शनः
अन्यदादत्त वेगेन धनुर्भारसहं नवम्
क्रोधाद्रुधिररक्ताक्षस्संरम्भात्प्रज्वलन्निव
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत्
ते वर्म हेमविकृतं भित्त्वा राज्ञश्शिलीमुखाः
विविशुर्धरणीं वेगात्कङ्कबर्हिणवाससः
सोऽतिविद्धो महाराज पुत्रस्तव विराजते
वसन्ते पुष्पशबले यथा स्यात्किंशुको महान्
स च्छिन्नमर्मा नाराचैः प्रहारैर्झर्झरीकृतः
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम्
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समर्पयत्
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः
प्रफुल्लपङ्कजं यद्वद्भ्रमरा मधुलिप्सवः
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम्
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम्
भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः
तपनीयाङ्गदं छत्रं नागं मणिमयं शुभम्
ध्वजं कुरुपतेश्छिन्नं ददृशुस्सर्वपार्थिवाः
दुर्योधनं तु विरथं छिन्नवर्मायुधं रणे
भ्रातरं समुदैक्षन्त सोदरा भरतर्षभ
तमारोप्य रथे राजन्कुण्डधारो नराधिपम्
अपोवाह रणादाशु धृष्टद्युम्नस्य पश्यतः