सञ्जयः
द्रौणिर्युधिष्ठिरं दृष्ट्वा युयुधानेन रक्षितम्
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत्
किरन्निषुगणान्घोरान्हेमपुङ्खाञ्शिलाशितान्
दर्शयन्विविधान्मार्गाञ्शिक्षया लघुहस्तवत्
खं पूरयञ्शरैस्तीक्ष्णैर्वेगवद्भिस्समन्ततः
युधिष्ठिरस्य समरे दिशस्सर्वास्समावृणोत्
भारद्वाजशरैश्छन्नं न प्राज्ञायत किञ्चन
बाणभूतमभूत्सर्वमायोधनशिरो महत्
बाणजालं दिविष्ठं तत्स्वर्णपुङ्खैर्विभूषितम्
शुशुभे भरतश्रेष्ठ विमानमिव विष्ठितम्
तेन च्छन्ने रणे राजन्बाणजालेन भास्वता
अभ्रच्छायेव सञ्जज्ञे हृतरश्मिर्दिवाकरः
तदद्भुतमपश्याम बाणभूते नभस्स्थले
न स्म सम्पतते भूतं द्रौणेर्दृष्ट्वा पराक्रमम्
सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम्
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्
वध्यमाने महासैन्ये द्रौपदेया महारथाः
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन्
सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः
पुनर्विव्याध नाराचैस्सप्तभिस्स्वर्णभूषितैः
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः
सुतसोमस्तु नवभिश्शतानीकस्तथाऽष्टभिः
श्रुतकर्मा त्रिभिर्बाणैश्श्रुतकीर्तिश्च सप्तभिः
अन्ये च बहवश्शूरा विव्यधुस्तं समन्ततः
स तु क्रुद्धस्ततो राजन्नाशीविष इव श्वसन्
सात्यकिं पञ्चविंशत्या प्रत्यविध्यच्छिलाशितैः
श्रुतकीर्तिं च नवभिस्सुतसोमं च पञ्चभिः
अष्टभिश्श्रुतकर्माणं प्रतिबिन्ध्यं त्रिभिस्तथा
शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः
अथेतरान्महेष्वान्द्वाभ्यां द्वाभ्यां समर्पयत्
श्रुतकीर्तेस्तथा चापं मुष्टौ चिच्छेद मारिष
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः
द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैश्शितैश्शरैः
ततो द्रौणिर्महाराज शरवर्षेण सर्वतः
छादयामास तत्सैन्यं समन्ताद्युद्धदुर्मदः
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्
द्विधा च्छित्वा प्रहस्याथ तं विव्याध त्रिभिश्शरैः
ततो धर्मसुतो राजा प्रगृह्यान्यन्महद्धनुः
द्रोणपुत्रं त्रिषष्ट्या तु बाह्वोरुरसि चार्पयत्
शैनेयस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे
अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम्
छिन्नधन्वा ततो द्रौणिश्शक्त्या शक्तिमतां वरः
सारथिं पातयामास शैनेयस्य द्रुतं रथात्
अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान्
शैनेयं शरवर्षेण छादयामास भारत
तस्याश्वाः प्रद्रुतास्सङ्ख्ये पतिते रथसारथौ
तत्र तत्रैव धावन्तस्समदृश्यन्त मारिष
युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम्
अभ्यवर्तन्त वेगेन विसृजन्तश्शिताञ्छरान्
सहसाऽऽपततस्तान्वै क्रुद्धरूपान्समन्ततः
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे
ततश्शरशतज्वालस्सेनाकक्षं महारणे
द्रौणिर्ददाह समरे कक्षमग्निरिवोत्थितः
तद्बलं पाण्डवेयस्य द्रोणपुत्रशराहतम्
चुक्षुभे भरतश्रेष्ठ तस्मिन्नेव चमूमुखे
तद्बलं पाण्डवेयस्य द्रोणपुत्रश्शरार्चिषा
तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान्
भज्यमानममर्षेण ब्राह्मणस्य च सायकैः
क्षुभ्यते पाण्डवं सैन्यं तिमिनेव नदीमुखम्
दृष्ट्वा तत्र महाराज द्रोणपुत्रपराक्रमम्
सर्वान्दुर्योधनः पार्थान्हतान्युद्धे ह्यमन्यत
युधिष्ठिरस्तु त्वरितो द्रौणिं पीड्य महारथम्
अब्रवीद्द्रोणपुत्रं स रोषामर्षसमन्वितः
युधिष्ठिरः
जानामि त्वां युधि श्रेष्ठं वीर्यवन्तं महाबलम्
कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम्
बलमेतद्भवान्सर्वं पार्षते यदि दर्शयेत्
ततस्त्वां बलवन्तं च कृतविद्यं च विद्महे
न हि वै पार्षतं दृष्ट्वा समरे शत्रुसूदनम्
भवेत्तव बलं किञ्चिद्ब्रवीमि त्वां न तु द्विजम्
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता
ततस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि
ब्राह्मणेन तपः कार्यं शमश्च दम एव च
क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः
कुरुष्व समरे कर्म ब्रह्मबन्धो यथेष्टतः
मिषतस्तेऽद्य समरे ध्रुवं जेष्यामि कौरवान्
सञ्जयः
एवमुक्तो महाराज द्रोणपुत्रस्स्मयन्निव
युक्तं तथ्यं च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत्
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम्
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः
स च्छाद्यमानस्समरे द्रोणपुत्रेण मारिष
व्यपायासीद्रणे पार्थं प्रगृह्य महतीं चमूम्
प्रयाते तु ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे
द्रोणपुत्रस्स्थितो राजन्प्रत्यादेशान्महात्मनः
ततो युधिष्ठिरं त्यक्त्वा राजानं द्रौणिराहवे
प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे