सञ्जयः
कृतवर्मा कृपो द्रौणिस्सूतपुत्रश्च महारथः
उलूकस्सौबलश्चैव राजा च सह सोदरैः
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्
समुज्जिहीर्षस्सर्वे भिन्नां नावमिवाम्भसि
अभ्यद्रवन्त समरे पाण्डवानामनीकिनीम्
ततो युद्धमतीवासीन्मुहूर्तमिव भारत
कृपेण शरवर्षाणि सुप्रमुक्तानि संयुगे
सृञ्जयांश्छादयामासुस्शलभानामिवव्रजाः
शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ
वारयञ् शरवर्षेण समन्ताद्ब्राह्मणं कृपम्
महदासीत्तयोर्युद्धं मुहूर्तमिव दारुणम्
क्रुद्धयोस्समरे राजन् रामरावणयोरिव
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिश्शरैः
ततश्शिखण्डी कुपितश्शरैस्सप्तभिराहवे
कृपं विव्याध हृदये कङ्कपत्रैरजिह्मगैः
ततः कृपो दृढं क्रुद्धस्सोऽतिविद्धो महारथः
ततस्सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः
हताश्वात्तु ततो यानादवप्लुत्य महारथः
खड्गं चर्म च सङ्गृह्य सत्वरं ब्राह्मणं ययौ
तमापतन्तं सहसा शरैस्सन्नतपर्वभिः
वारयामास समरे तदद्भुतमिवाभवत्
तदद्भुतमपश्याम शिलानामिव सर्पणम्
स निश्चेष्टोऽभवद्राजञ्छिखण्डी विष्ठितो बली
कृपेण वारितं दृष्ट्वा शिखण्डिनमतो नृप
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति
प्रतिजग्राह वेगेन कृतवर्मा महारथः
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति
सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत्
नकुलं सहदेवं च त्वरमाणौ महारथौ
प्रतिजग्राह ते पुत्रश्शरवर्षेण वारयन्
भीमसेनं करूशांश्च केकयान् सृञ्जयांस्तथा
कर्णो वैकर्तनो वीरो वारयामास तेजसा
शिखण्डिने ततो बाणान्कृपश्शारद्वतो युधि
प्रैषयत्त्वरया युक्तो बीभत्सोरथ सन्निधौ
ताञ्छरान्प्रेषितांस्तेन सुपुङ्खान्रुक्मभूषितान्
चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः
शतचन्द्रं तदा चर्म ब्राह्मणस्तस्य मारिष
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः
स विचर्मा महाराज खड्गपाणिरभिद्रवत्
कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत्
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महारणे
चित्रकेतुसुतो दृष्ट्वा सुकेतुस्त्वरितो ययौ
स किरन्ब्राह्मणं युद्धे बहुभिर्निशितैश्शरैः
अभ्यगच्छदमेयात्मा शारद्वतरथं रणे
दृष्ट्वा विषक्तं तं युद्धे ब्राह्मणं च निवारितम्
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम
सुकेतुस्त्वथ राजेन्द्र गौतमं निशितैश्शरैः
विद्ध्वा विव्याध विंशत्या पुनश्चैनं त्रिभिश्शरैः
अथास्य सशरं चापं पुनश्चिच्छेद मारिष
सारथिं वाहनान्राजंस्तस्य मर्माण्यताडयत्
गौतमस्तु ततः क्रुद्धो धनुर्गृह्यापरं दृढम्
सुकेतुं त्रिंशता बाणैस्सर्वमर्मस्वताडयत्
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे
भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम्
चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम्
सोष्णीषं सशिरस्त्राणं क्षुरप्रेण न्यपातयत्
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्
ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत
तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः
गौतमं समरे त्यक्त्वा दिशस्ते विप्रदुद्रुवुः
धृष्टद्युम्नं तु समरे सन्निवार्य महारथः
कृतवर्मानदन्हृष्टस्तिष्ठतिष्ठेति चाब्रवीत्
तदभूत्तुमुलं युद्धं वृष्णिपार्षतयोस्तथा
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिश्शरैः
आजघानोरसि क्रुद्धः पीडयन्निव सात्वतम्
कृतवर्मा तु समरे पार्षतेन दृढाहतः
पार्षतं सरथं साश्वं छादयामास सायकैः
सरथं छादितो राजन्धृष्टद्युम्नो न दृश्यते
मेघैरिव परिच्छन्नो भास्करो जलधारिभिः
विधूय तान् बाणगणाञ् शरैः कनकभूषणैः
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः
ततस्तु पार्षतः क्रुद्धश्शस्त्रवृष्टिं सुदारुणाम्
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः
तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम्
शरैरनेकसाहस्रैर्सात्वतोऽवारयद्युधि
यथा रुक्मरथेनाजौ वाहान्वाहैरमिश्रयत्
तथैव सात्वतरथे वाहान्व्राहैरमिश्रयत्
गृहीत्वा चर्म खड्गं च रथं तस्यावपुप्लुवे
मिश्रितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते
दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः
गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः
तमदृष्ट्वा रथोपस्थे सारथिं समताडयत्
खड्गेन शितधारेण स हतः प्रापतद्रथात्
कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह
पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः
स तं न ममृषे युद्धे तलशब्दं समीरितम्
यथा नागस्सदा मत्तस्तलशब्दं समीरितम्
अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः
अभ्ययात्सात्वतं तूर्णं तिष्ठतिष्ठेति चाब्रवीत्
कृतवर्मा तु सङ्क्रुद्धो दिधक्षुरिव पावकः
दृष्टद्युम्नमुखान्सर्वान्पाण्डवान्पर्यवारयत्
ततो राजन्महेष्वासं कृतवर्माणमाशु वै
गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत्
सोऽतिविद्धो बलवता न्यपतन्मूर्च्छया हतः
श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात्
धृष्टद्युम्नस्तु समरे जित्वा शत्रून् महारथः
कौरवान्समरे तूर्णं कालयामास सायकैः
ततस्ते तावका योधा धृष्टद्युम्नमभिद्रवन्
सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत