सञ्जयः
क्षत्रियास्ते महाराज परस्परवधैषिणः
अन्योन्यं समरे जघ्नुः कृतवैरा महौजसः
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः
गजौघाश्च महाराज संसक्ताश्च परस्परम्
गदानां परिघाणां च शक्तीनां च परस्परम्
प्रासानां भिण्डिपालानां मुसुण्ठीनां च सर्वशः
सम्पातं समपश्याम सङ्ग्रामे भृशदारुणे
शलभा इव सम्पेतुश्शस्त्रवृष्ट्यस्समन्ततः
नागान्नागास्समासाद्य व्यधमन्त समन्ततः
हया हयांश्च समरे रथिनो रथिनस्तथा
पत्तयः पत्तिसङ्घांश्च सादिनश्च गजान् रथान्
पत्तयो रथमातङ्गान्रथिनः पत्तिसादिनः
हस्तिनोऽश्वान्रथांश्चैव ममृदुश्शीघ्रगा नृप
नागाश्च समरे त्र्यङ्गं हयास्त्र्यङ्गं च मारिष
नराश्च ममृदुस्त्र्यङ्गं रथास्त्र्यङ्गं च मारिष
शरतोमरनाराचैर्गदाशक्तिपरश्वथैः
वध्यतां तत्र शूराणां क्रोशतां च परस्परम्
घोरमायोधनं जज्ञे पशूनां घातने यथा
रुधिरेण समास्तीर्णा बभौ भारत मेदिनी
शक्रगोपसमाकीर्णा प्रावृषीव वसुन्धरा
यथैव वाससी शुभ्रे महारजतरञ्जिते
बिभ्रती युवती श्यामा तद्वदासीद्वसुन्धरा
बद्धचूडामणिवरैश्शिरोभिश्चारुकुण्डलैः
उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुन्धरा
शशशोणितदिग्धेव शातकुम्भमयीव च
भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवानलः
छिन्नानामुत्तमाङ्गानां बाहूनां चोरुभिस्सह
कुण्डलानां पिनद्धानां भूषणानां च भारत
निष्काणां हेमसूत्राणां शरीराणां च धन्विनाम्
वर्मणां सपताकानां तूणीराणां तथैव च
अगम्यकल्पा पृथिवी सर्वतो भृशदुर्दमा
गजा गजान्समासाद्य विषाणैरर्दयन्नृप
विषाणाग्रहतास्तत्र भ्राजन्ते स्म गजोत्तमाः
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव
स्यन्दमाना यथा भान्ति पर्वता धातुमण्डिताः
तथा रेजू रणे नागा रुधिरेण समाप्लुताः
तोमरान्सादिभिर्मुक्तान्प्रतिमानस्थितान्बहून्
हस्तैरुद्धृत्य तान्नागा बभञ्जुश्च परे रणे
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः
प्रावृट्काले महाराज मेघा इव सविद्युतः
शरैः कनकपुङ्खैश्च चिता रेर्जुर्गजोत्तमाः
उल्काभिस्सम्प्रदीप्ताग्राः पर्वता इव मारिष
केचिदभ्याहता नागैर्नागा नगवरोपमैः
न चेलुस्समरात्तस्माच्छिन्नपक्षा इवाद्रयः
अपरे प्राद्रवन्नागाश्शरार्ता व्रणतापिताः
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे
निषेदुस्सिंहवच्चान्ये नदन्तो भैरवान्रवान्
मम्लुश्च बहवो राजंश्चुक्रुशुश्चापरे तथा
हयाश्च निहता बाणैस्स्वर्णभाण्डपरिच्छदाः
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश
अपरे क्लिश्यमानाश्च व्यवेष्टन्त महीतले
भावान्बहुविधांश्चक्रुस्ताडिताश्शरतोमरैः
नराश्च निहता भूमौ कूजन्तस्तत्र मारिष
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान्
धावमानान्परांश्चापि दृष्ट्वाऽन्ये तत्र भारत
ख्यातानि नामगोत्राणि शशंसुरितरेतरम्
तेषां छिन्ना महाराज भुजाः कनकभूषणाः
उद्वेष्टन्ते विवेष्टन्ते भ्रमयन्त्युत्पतन्ति च
निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः
वेगांश्चान्ये रणे चक्रुः पञ्चास्या इव पन्नगाः
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते
लोहितार्द्रा भृशं रेजुस्तापनीया इव ध्वजाः
वर्तमाने तथा घोरे सङ्ग्रामे सर्वतो दिशम्
अविज्ञातास्स्म युध्यन्ते विनिघ्नन्तः परस्परम्
भौमेन रजसा कीर्णे शस्त्रसम्पातसङ्कुले
न च स्वे न परे राजन्विज्ञायन्ते तमोन्विताः
तथा प्रवर्तमाने तु घोररूपे भयानके
लोहितोदा महानद्यः प्रस्रुतास्तत्र चासकृत्
शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः
हस्थिसङ्घाटसङ्कीर्णा धनुःकाशा गजोडुपाः
मांसशोणितपङ्किन्यो हस्तिग्राहास्सुदारुणाः
नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धिनीः
भीरुवित्रासकारिण्यश्शूराणां हर्षवर्धनाः
ता नदीर्घोररूपास्तु नयन्तीर्यमसादनम्
अवगाह्य न्यमज्जन्त क्षत्रिया जयगर्धिनः
क्रव्यादानां महाराज नर्दतां च समन्ततः
घोरमायोधनं जज्ञे प्रेतराजपुरं यथा
उत्थितान्यगणेयानि कबन्धानि समन्ततः
नृत्यन्ति वै भूतगणा वितृप्ता मांसशोणितैः
पीत्वा च शोणितं तत्र वसां भुक्त्वा च भारत
मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह
धावमानाश्च दृश्यन्ते काककङ्कबलास्तथा
ते शूरास्समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम्
सम्प्रहृष्टा महाराज चक्रुः कर्माण्यभीतवत्
शरशक्तिगदाकीर्णे क्रव्यादगणसङ्कुले
विचेरुस्समरे शूराः ख्यापयन्तस्स्वपौरुषम्
अन्योन्यं ख्यापयन्तिस्म नामगोत्राणि चैव हि
पितृनामानि च रणे मातृगोत्राणि चापरे
इतश्चेतश्च बहवस्तत्र योधा विशाम्पते
अन्योन्यमवमृद्नन्ति शक्तितोमरपट्टसैः
वर्तमाने तथा युद्धे घोररूपे सुदारुणे
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे