सञ्जयः
ततस्सम्प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः
राजानमनुधावन्तं शरैरावृत्य रोदसी
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः
सन्निवृत्तस्ततस्तूर्णं राधेयश्शत्रुकर्शनः
भीमं प्रच्छादयामास समन्तान्निशितैश्शरैः
भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः
अभ्यद्रवदमेयात्मा पार्ष्णिग्रहणकारणात्
भीमसेनरथप्रेप्सुः कर्णो भारत सात्यकिम्
अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम्
विसृजन्तौ शरांस्तत्र व्यभ्राजेतां परस्परम्
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम्
कौञ्चपृष्ठारुणं रौद्रं बाणजालमदृश्यत
नैव सूर्यप्रभां खं वा दिशो वा प्रदिशस्तथा
अज्ञासिष्म वयं ते वा शरैर्मुक्तैस्समन्ततः
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः
क्रान्तास्सर्वाश्शरौघैस्तैः कर्णमाधवयोस्तदा
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम्
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः
तेषामापततां वेगस्तीव्र आसीद्विशाम्पते
उद्भूतानां यथा वृष्ट्या सागराणां भयावहः
ते सेने भृशसंविग्ने दृष्ट्वाऽन्योन्यं महाहवे
हर्षेण महता युक्ते प्रत्युपेत्य परस्परम्
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे
यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम्
बलौघास्ते समासाद्य बलौघान् सुमहामृधे
अभ्यवर्तन्त वेगेन वार्योघा इव सागरम्
आसीन्निनादस्सुमहान्बाणौघानां परस्परम्
गर्जतां सागरौघाणां यथा स्यान्निस्स्वनो महान्
ते तु सेने समासाद्य वेगवत्यौ परस्परम्
एकीभावमनुप्राप्ते नद्योघाविव सङ्गतौ
ततः प्रववृते युद्धं घोररूपं विशाम्पते
कुरूणां पाण्डवानां च लिप्सूनां सुमहद्यशः
शूराणां गर्जतां तत्र साधिक्षेपकृता गिरः
अश्रूयन्त महाराज राजन्यङ्गान्युद्दिश्य भारत
यस्य यद्यद्रणे न्यङ्गं पितृतो मातृतोऽपि वा
कर्मतश्शीलतो वाऽपि श्रावयासुराहवे
तान्दृष्ट्वा समरे शूरांस्तर्जमानान्परस्परम्
बभूव मे मती राजन्नैतेषामस्ति जीवितम्
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम्
भयं तीव्रं ममाभूद्वै कथमेतद्भविष्यति
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः
ततक्षुस्सायकैस्तूर्णमन्योन्यं विजयैषिणः