धृतराष्ट्रः
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय
येन कर्णो महाष्वासो रथोपस्थे निपातितः
कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैस्सह
इति दुर्योधनस्सूत प्रोक्तवान्मां मुहुर्मुहुः
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे
ततः परं किमकरोत्पुत्रो दुर्योधनो मम
सञ्जयः
विसञ्ज्ञं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे
महत्या सेनया सार्धं सोदरानिदमब्रवीत्
दुर्योधनः
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत
भीमसेनभये घोरे मज्जन्तं व्यसनार्णवे
सञ्जयः
ते तु राज्ञा समादिष्टा भीमसेनजिघांसया
अभ्यवर्तन्त सहसा पतङ्गा इव पावकम्
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटस्समः
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ
दुष्प्रधर्षस्सुबाहुश्च वातवेगसुवर्चसौ
दुर्धरो दुर्मदश्चैव तथा सन्धिश्शमस्सहः
एते रथैः परिवृता वीर्यवन्तो बलान्विताः
भीमसेनं समासाद्य समन्तात्पर्यवारयन्
ते किरन्तशरव्रातान्नानालिङ्गान्समन्ततः
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः
तेषामापततां शीघ्रं पुत्राणां ते जनाधिप
रथैः पञ्चशतैस्सार्धं पञ्चाशदहनद्रथान्
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः
भीमसेनो महाराज तत्पपात ततो भुवि
सकुण्डलशिरस्त्राणं पूर्णचन्द्रनिभाननम्
अशोभत महाराज पूर्णचन्द्र इवाम्बरे
तं दृष्ट्वा निहतं शूरं भ्रातरस्सर्वतस्तदा
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम्
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे
जहार समरे प्राणाञ्छिताभ्यां पाण्डुनन्दनः
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ
विकटश्च सहश्चोभौ देवपुत्रसमौ नृप
ततस्तु त्वरितो भीमः क्राथिं निन्ये यमक्षयम्
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि
हाहाकारस्ततस्तीव्रस्सम्बभूव जनेश्वर
वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु
तेषां संलुलिते सैन्ये पुनर्भीमो महाबलः
नन्दोपनन्दौ समरे प्राहिणोद्यमसादनम्
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम्
पुत्रांस्ते निहतान्दृष्ट्वा कर्णः क्रोधसमन्वितः
हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः
ते प्रेषिता महाराज मद्रराजेन वाजिनः
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः
स सन्निपातस्तुमुलो घोररूपो विशाम्पते
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे
दृष्ट्वा मम महाराज तौ समेतौ महारथौ
आसीद्बुद्धिः कथं नु स्यादेतदद्य भविष्यति
ततो भीमो रणश्लाघी छादयामास पत्रिभिः
कर्णं रणे महाराज पुत्राणां तव पश्यताम्
ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः
विव्याध परमास्त्रज्ञो भल्लैस्सन्नतपर्वभिः
तान्निहत्य महाराज भीमो भीमपराक्रमः
आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः
ततः कर्णो महाराज आशीविष इव श्वसन्
शरवर्षेण महता छादयामास पाण्डवम्
भीमोऽपि तं शरव्रातैश्छादयित्वा महारथम्
पश्यतां कौरवेयाणां विननाद महारथः
ततः कर्णो भृशं क्रुद्धो द्रुतमायम्य कार्मुकम्
भीमं विव्याध दशभिः कङ्कपत्रैश्शिलाशितैः
कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च
ततो भीमो महाबाहुर्हेमपट्टपरिष्कृतम्
परिघं घोरमादाय मृत्युदण्डमिवापरम्
कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन्
तमापतन्तं परिघं वज्राशनिसमस्वनम्
चिच्छेद बहुधा कर्णश्शरैराशीविषोपमैः
ततः कार्मुकमादाय भीमो भीमतरं दृढम्
छादयामास विशिखैः कर्णं परबलार्दनम्
ततो युद्धमभूद्घोरं कर्णपाण्डवयोर्मृधे
मृगेन्द्रयोरिव महत्परस्परवधैषिणोः
ततः कर्णो महाराज भीमसेनं त्रिभिश्शरैः
आकर्णपूर्णैरभ्यघ्नद्दृढमायम्य कार्मुकम्
भीमं विव्याध दशभिः क्रङ्कपत्रैश्शिलाशितैः
सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः
घोरमादत्त विशिखं कर्णकायविभेदनम्
तस्य वर्म तनुत्राणं भित्त्वा देहं च सायकः
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः
स तेनातिप्रहारेण व्यथितो विह्वलन्निव
सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः
ततः कर्णो महाराज कोपामर्षसमन्वितः
भीमं तं पञ्चविंशत्या नाराचानां समार्पयत्
चिच्छेद कार्मुकं तूर्णं पाण्डवस्य महात्मनः
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव
विरथं भीमकर्माणं भीमं चक्रे नराधिप
ततो भीमो महातेजा विरथो रथिनां वरः
गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात्
गदया च महाराज कर्णस्य रथकूबरम्
पोथयामास सङ्क्रुद्धस्समरे शत्रुतापनः
स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान्
विद्राव्य गदया वीरस्तव पुत्रान्महाहवे
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः
व्यधमद्गदया भीमो दण्डपाणिरिवान्तकः
दन्तवेष्टेषु नेत्रेषु कुम्भेषु च मुखेषु च
मर्मस्वपि च मर्मज्ञस्सोऽर्दयामास संयुगे
तेऽभ्यर्दिता मारुतिना विनदन्तो भृशातुराः
ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः
महामात्रास्तमावव्रुर्मेघा इव दिवाकरम्
तान्सप्तशतनागेन्द्रान्सारोहायुधकेतनान्
भूमिष्ठो गदयाऽभ्यघ्नच्छरन्मेघानिवानिलः
ततस्सुबलपुत्रस्य हयानतिजितवान्पुनः
पोथयामास कौन्तेयस्त्रिसाहस्रानरिन्दमः
रथानाञ्च शतं साग्रं पत्तींश्च शतशोऽपरान्
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम्
प्रताप्यमानं सूर्येण भीमेन च महात्मना
तव सैन्यं सञ्चुकोच चर्मेवाग्नौ समाहितम्
ते भीमभयसन्त्रस्तास्तावका भरतर्षभ
विहाय समरे भीमं विप्रकीर्णा दिशो दश
रथाः पञ्चदशैवान्ये ह्रादिनश्शरवर्षिणः
भीममभ्यद्रवन्घ्नन्तश्शरसङ्घैस्समन्ततः
तान्ससूतरथाश्वोभान्सपताकध्वजायुधान्
पोथयामास समरे भीमो विष्णुरिवासुरान्
ततश्शकुनिनिर्दिष्टास्सादिनश्शूरसम्मताः
त्रिसाहस्राण्यभिययुश्शरशक्त्यृष्टिपाणयः
तान्प्रत्युद्गम्य यवनान्साश्वारोहान्परारिहा
विविधान्विचरन्मार्गान्गदया समपोथयत्
तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः
अग्निभिर्दह्यमानानां नलानामिव भारत
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान्
हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात्
कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम्
शरै प्रच्छादयामास सरथं चाप्यपातयत्