सञ्जयः
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्
क्रोशतस्सूतपुत्रस्य न स्म राजन्न्यवर्तत
ततः पक्षप्रपक्षस्थाः प्रकुक्षिस्थाश्च भारत
उदात्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान्
हंसवर्णान्हयानग्र्यान्प्रैषयद्यत्र पाण्डवः
ते प्रेषिता महाराज शल्येनाहवशोभिना
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः
मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्
भीमः
एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम्
संशयान्महतो मुक्तः कथञ्चित्प्रेक्षतो मम
अग्रतो मे कृतो राजा भिन्नसर्वपरिच्छदः
दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना
अन्तमद्य गमिष्यामि तस्य दुःखस्य मारिष
हन्ता वाऽस्मि रणे कर्णं स मां वा निहनिष्यति
सङ्ग्रामेऽद्य सुघोरेऽस्मिन्सत्यमेतद्ब्रवीमि वः
राजानमद्य भवतां न्यासभूतं ददानि वै
तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः
सञ्जयः
एवमुक्त्वा महाबाहुः प्रायादातिरथिं प्रति
सिंहनादेन महता सर्वान् सन्नादयन्दिशः
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्
सूतपुत्रमथोवाच मद्राणामीश्वरः विभुः
शल्यः
पश्य कर्ण महाबाहुं सङ्क्रुद्धं पाण्डुनन्दनम्
दीर्घकालार्जितं क्रोधं मोक्तुकामस्त्वयि ध्रुवम्
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन
अभिमन्यावपि हते राक्षसे वा घटोत्कचे
त्रैलोक्यस्य समग्रस्य शक्तः क्रुद्धो निवारणे
बिभर्ति यादृशं रूपं कालाग्न्यनिलवर्चसम्
सञ्जयः
एवं ब्रुवति राधेयं मद्राणामीश्वरे नृप
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः
तथा गतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम्
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव
कर्णः
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः
निरपेक्षश्शरीरे च प्राणतश्च बलाधिकः
अज्ञातवासं वसता विराटनगरे तदा
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्
प्रसह्य विक्रमेणाजौ कीचकससगणो हतः
सोऽद्य सङ्ग्रामशिरसि सन्नद्धः क्रोधमूर्च्छितः
किङ्करोद्यतदण्डेन मृत्युनाऽपि व्रजेद्रणम्
चिरकालाभिलषितो मम यस्तु मनोरथः
अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः
स मे कदाचिदद्यैव भीमसेनसमागमात्
निहते भीमसेने तु यदि वा विरथीकृते
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय
सञ्जयः
एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः
उवाच वचनं शल्यस्सूतपुत्रं तथागतम्
शल्यः
अभियाहि महाबाहो भीमसेनं महाबलम्
निरपेक्षश्च युध्यस्व शक्तिं स्वां सम्प्रदर्शयन्
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः
स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते
कर्णः
सञ्जयः
एवमुक्तस्तु राधेयश्शल्यं पुनरुवाच ह
हन्ताऽहमेनं संरब्धं मां वा हन्याद्वृकोदरः
सञ्जयः
एवमुक्त्वा ततो राजन् राधेयो रथिनां वरः
युद्धे मनस्समाधाय याहि याहीत्यचोदयत्
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशाम्पते
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्
ततस्तूर्यनिनादाश्च भेरीणाञ्च महास्वनाः
उदतिष्ठन्त राजेन्द्र कर्णभीमसमागमे
भीमसेनो हि सङ्क्रुद्धस्तव सैन्यं दुरासदम्
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली
स सन्निपातस्तुमुलो घोररूपो विशाम्पते
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव
भीमसेनो महाबाहुः कर्णप्रेप्सुरभिद्रवत्
तमापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषा
आजघानोरसि क्रुद्धो नाराचेन परन्तरपः
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत्
स विद्धस्सूतपुत्रेण च्छादयामास पत्रिभिः
विव्याध निशितैः कर्णं नवभिर्नतपर्वभिः
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा
अथैनं छिन्नधन्वानं प्रत्यविध्यत्स्तनान्तरे
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना
सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः
राजन्मर्मसु मर्मज्ञो विव्याध निशितैश्शरैः
ननाद बलवान्नादं कम्पयन्निव रोदसी
तं कर्णः पञ्चविंशत्या नाराचानां समर्पयत्
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम्
ततस्सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः
संरम्भामर्षताम्राक्षस्सूतपुत्रजिघांसया
स कार्मुके महावेगं भारसाधनमुत्तमम्
गिरीणामपि भेत्तारं सायकं समयोजयत्
व्याकृष्य बलवच्चापमाकर्णान्तमविच्युतम्
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया
स विसृष्टो बलवता बाणो वज्राशनिस्वनः
अदारयद्रणे कर्णं वज्रवेगो यथाऽचलम्
स भीमसेनाभिहतस्सूतपुत्रोऽप्यरिन्दमः
निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः
रुधिरेणावसिक्ताङ्गो गतासुवदरिन्दमः
एतस्मिन्नन्तरे दृष्ट्वा मद्रराजो वृकोदरम्
जिह्वां छेत्तुं समायान्तं सान्त्वयन्निदमब्रवीत्
शल्यः
भीमसेन महाबाहो यत्त्वां वक्ष्यामि तच्छृणु
वचनं हेतुसम्पन्नं श्रुत्वा चैतत्तथा कुरु
अर्जुनेन प्रतिज्ञातो वधः कर्णस्य शुष्मिणः
तां तथा कुरु भद्रं ते प्रतिज्ञां सव्यसाचिनः
भीमः
दृढव्रतत्वं पार्थस्य जानामि नृपसत्तम
राज्ञस्तु धर्षणं पापः कृतवान्मम सन्निधौ
ततः कोपाभिभूतेन शेषं न गणितं मया
पतिते चापि राधेये न मे मन्युश्शमं गतः
जिह्वोद्धरणमेवास्य प्राप्तकालं मतं मम
अनेन सुनृशंसेन समवेतेषु राजसु
अस्माकं शृण्वतां कृष्णा यानि वाक्यानि मातुल
असह्यानि च नीचेन बहूनि श्रावितानि भो
नूनं चैतत्परिज्ञातं दूरस्थस्यापि पार्थिव
छेदनं चास्य जिह्वायास्तदेवाकाङ्क्षितं मया
राज्ञस्तु प्रियकामेन कालोऽयं परिपालितः
भवता तु यदुक्तोऽस्मि वाक्यं हेत्वर्थसंहितम्
तद्गृहीतं महाराज कटुकस्थमिवौषधम्
हीनप्रतिज्ञो बीभत्सुर्न हि जीवेत कर्हिचित्
अस्मिन्विनष्टे नष्टास्स्मस्सर्व एव सकेशवाः
अद्य चैव नृशंसात्मा पापः पापकृतां वरः
गमिष्यति पराभावं दृष्टमात्रः किरीटिना
युधिष्ठिरस्य कोपेन पूर्वं दग्धो नृशंसकृत्
त्वया संरक्षितस्त्वद्य मत्समीपादुपायतः
सञ्जयः
एवं मद्राधिपश्श्रुत्वा विसञ्ज्ञं सूतनन्दनम्
अपोवाह रथेनाजौ कर्णमाहवशोभिनम्
पराजिते ततः कर्णे धार्तराष्ट्री महाचमूः
व्यपायात्सर्वतो भग्ना हाहाभूता समन्ततः