सञ्जयः
ततः पुनरमेयात्मा चेदीनां प्रवरान्दश
न्यहनद्भरतश्रेष्ठ कर्णो वैकर्तनस्तदा
तस्य बाणसहस्राणि सम्प्रपन्नानि मारिष
दृश्यन्ते दिक्षु सर्वासु शलभानामिव व्रजाः
कर्णनामाङ्किता बाणास्स्वर्णपुङ्खास्सुतेजनाः
नराश्वकायान्निर्भिद्य पेतुरुर्व्यां समन्ततः
कर्णेनैकेन समरे चेदीनां प्रवरा रथाः
सृञ्जयानां च सर्वेषां शतशो निहता रणे
कर्णस्य शरसञ्छन्नं बभूव तुमुलं तमः
नाज्ञायत ततः किञ्चित्परेषामात्मनोऽपि वा
तस्मिंस्तमसि भूते च क्षत्रियाणां भयङ्करे
विचचार महाबाहुर्निर्दहन्क्षत्रियान्बहून्
ततश्शरमहाज्वालो वीर्यार्चिः कर्णपावकः
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे
ततस्तेषां महाराज पाण्डवानां महारथाः
सृञ्जयानां च सर्वेषां शतशोऽथ सहस्रशः
अस्त्रैः कर्णं महेष्वासं समन्तात्पर्यवारयन्
स संवार्य महास्त्राणि महेष्वासो महात्मनाम्
प्रहस्य पुरुषेन्द्रस्य कर्णश्चिच्छेद कार्मुकम्
ततस्सन्धाय नवतिं निमेषान्नतपर्वणाम्
बिभेद कवचं राज्ञो रणे कर्णश्शितैशशरैः
तद्वर्म हेमविकृतं रत्नचित्रं पतद्बभौ
सविद्युदभ्रं सवितुश्श्लिष्टं वातहतं यथा
तदङ्गात्पुरुषेन्द्रस्य भ्रष्टं वर्म व्यशोभत
रत्नैरलङ्कृतं पुण्यैर्व्यभ्रं निशि यथाऽम्बरम्
भिन्नवर्मा शरैः पार्थो रुधिरेण परिप्लुतः
बभासे पुरुषश्रेष्ठ उद्यन्निव दिवाकरः
स शराचितसर्वाङ्गश्छिन्नवर्माऽथ संयुगे
क्षत्रधर्मं समास्थाय सिंहनादमकुर्वत
नदित्वा सुचिरं कालं पाण्डवो रभसो रणे
तां ज्वलन्तीमिवाकाशे शक्तिं सप्तभिराशुगैः
भल्लैश्चिच्छेद राधेयस्सा व्यशीर्यत वै रणे
हृदि बाह्वोर्ललाटे च क्षिप्रकारी युधिष्ठिरः
चतुर्भिस्तोमरैः कर्णं ताडयित्वाऽनदन्मुदा
उद्भिन्नरुधिरः कर्णः क्रुद्धस्सर्प इव श्वसन्
जघान सूतं पार्थस्य पार्ष्ठिं च नवभिश्शरैः
ध्वजं चिच्छेद नृपतेस्त्रिभिर्विव्याध चैव तम्
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत्
एतस्मिन्नन्तरे शूराः पाण्डवानां महारथाः
ववृषुश्शरवर्षाणि राधेयं प्रति भारत
सात्यकिः पञ्चविंशत्या शिखण्डी नवभिश्शरैः
अवर्षतां महाराज राधेयं शत्रुकर्शनम्
शैनेयं तु ततः क्रुद्धः कर्णः पञ्चभिरायसैः
विव्याध समरे राजंस्त्रिभिश्चान्यैश्शिलीमुखैः
दक्षिणं तु भुजं तस्य त्रिभिः कर्णोऽप्यविध्यत
सव्यं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैश्शरैः
सूतपुत्रोऽनयत्क्षिप्रं यमस्य सदनं प्रति
अथापरेण भल्लेन धनुश्छित्त्वा महारथः
सारथेस्सशिरस्त्राणं शिरः कायादपाहरत्
हताश्वसूते तु रथे स्थितस्स शिनिपुङ्गवः
शक्तिं चिक्षेप कर्णाय वैडूर्यमणिभूषिताम्
तामापतन्तीं सहसा द्विधा चिच्छेद भारत
कर्णो वै धन्विनां श्रेष्ठस्तांश्च सर्वानवारयत्
ततस्तान्निशितैर्बाणैः पाण्डवानां महारथान्
न्यवारयदमेयात्मा शिक्षया च बलेन च
अर्दयित्वा शरैस्तांस्तु सिंहः क्षुद्रमृगानिव
पीडयन्धर्मराजानं शरैस्सन्नतपर्वभिः
अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः
ततः पार्थो व्यपायासीद्धताश्वो हतसारथिः
अशक्नुवन्मुखे स्थातुं ततः कर्णस्य दुर्मनाः
तमभिद्रुत्य राधेयः पाण्डुपुत्रं युधिष्ठिरम्
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम्
कर्णः
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः
प्रजह्यात्समरे शत्रून्प्राणान्रक्षन् महाहवे
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः
ब्राह्मे बले भवान्युक्तस्स्वाध्याये यज्ञकर्मणि
मा स्म युध्यस्व कौन्तेय मा स्म वीरान्समासदः
मा चैवं विप्रियं ब्रूहि मा च त्वं भज संयुगम्
वक्तव्या मारिषाऽन्ये तु न वक्तव्यास्तु मादृशाः
मादृशान्हि ब्रुवन्युद्धे एतदन्यच्च लप्स्यसे
स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ
न हि त्वा समरे राजन्हन्यात्कर्णः कथञ्चन
शक्तिं चिक्षेप वेगेन प्रदीप्तामशनीमिव