सञ्जयः
विदार्य कर्णस्तां सेनां युधिष्ठिरमुपाद्रवत्
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितम्
नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषा
हत्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः
उच्चकर्त शिरांस्युग्रो बाहूनूरूश्च सूतजः
ते हता भूतले पेतुः प्रद्रुताश्चापरे दिशः
द्रविलान्ध्रनिषादास्तु पुनस्सात्यकिचोदिताः
अभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे
ते विबाहुशिरस्त्राणास्सहसा कर्णसायकैः
निपेतुरुर्व्यां युगपच्छिन्नं सालवनं यथा
एवं योधशतान्याजौ सहस्राण्ययुतानि च
हतान्यर्गुमहीं देहैर्यशसाऽपूर्य वै दिशः
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधा इव
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम्
मन्त्रौषधं विना व्याधिर्विधिहीना क्रिया इव
स राजगृध्रुभी रुद्धः पाण्डुपाञ्चालकेकयैः
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्
तैर्योधप्रमुखैर्वीरं दृष्ट्वा विव्याध सायकैः
कर्णः पार्थशरैर्विद्धस्तोत्रार्दित इव द्विपः
प्रमथ्य सहितान्वीरान्युधिष्ठिरमपीडयत्
ततो युधिष्ठिरः कर्णमासाद्य जयतां वरम्
अब्रवीत्परवीरघ्नं क्रोधसंरक्तलोचनः
युधिष्ठिरः
कर्णकर्ण वृथादृष्टे सूतपुत्र वचश्शृणु
सदा स्पर्धसि सङ्ग्रामे फल्गुनेन यशस्विना
यथाऽस्मान्द्विषसे नित्यं धार्तराष्ट्रमनुव्रतः
यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः
युद्धश्रद्धां च तेऽद्याहं विनेष्यामि महारणे
सञ्जयः
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्ततः
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैश्शरैः
तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिन्दमः
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत
सोऽवज्ञाय च निर्विद्धस्सूतपुत्रेण पाण्डवः
प्रजज्वाल महाबाहुर्हविषा हव्यवाडिव
ततो विष्फार्य सुमहच्चापं हेमपरिष्कृतम्
समाधत्त शितं बाणं गिरीणामपि दारणम्
ततः पूर्णायतं तीक्ष्णं यमदण्डनिभं शरम्
मुमोच त्वरितं राजा सूतपुत्रजिघांसया
स तु वेगवता मुक्तो बाणो वज्राशनिप्रभः
बिभेद समरे कर्णं सव्यपार्श्वे स्तनान्तरे
स तु तेन प्रहारेण पीडितः प्रमुमोह वै
स्रस्तबाहुर्महेष्वासो धनुरुत्सृज्य कम्पितः
ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत्
विवर्णमुखमार्तं च कर्णं दृष्ट्वा तथागतम्
सिंहनादाश्च सञ्जज्ञुः क्ष्वेलाः किलकिलास्तथा
पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम्
प्रतिलभ्य तु राधेयस्सञ्ज्ञां नातिचिरादिव
दध्रे राजविनाशाय मनः क्रूरपराक्रमः
स हेमविकृतं चापं विष्फार्य विजयं महत्
अवाकिरदमेयात्मा पाण्डवं निशितैश्शरैः
ततः क्षुराभ्यां पाञ्चालौ चक्ररक्षौ महात्मनः
जघान चन्द्रदेवं च दण्डधारं च वैशसे
तावुभौ धर्मराजस्य प्रवीरौ युधि भारत
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू
युधिष्ठिरः पुनः कर्णमविदध्यत्त्रिंशता शरैः
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम्
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः
ततः प्रहस्याधिरथिष्षष्ठ्या राजञ्शितैश्शरैः
विद्ध्वा युधिष्ठिरं सङ्ख्ये ननादातिरथस्तदा
ततः प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः
युधिष्ठिरं परीप्सन्तः कर्णं चाभ्यर्दयञ्छरैः
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च
धृष्टद्युम्नश्शिखण्डी च द्रौपदेयाः प्रभद्रकाः
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः
कारूशा मात्स्यशेषाश्च केकयाः काशिकोसलाः
एते च त्वरिता वीरा वसुषेणमवारयन्
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः
वाराहकर्णनालीकैर्नाराचैर्विविधैश्शरैः
वत्सदन्तैर्विपाठैश्च क्षुद्रकैश्चटकामुखैः
नानाप्रहरणैश्चोग्रैर्हस्त्यश्वरथसादिनः
सर्वतोऽभ्यद्रवन्कर्णं परिवार्य जिघांसया
स पाण्डवानां प्रवरैस्सर्वतस्समभिद्रुतः
छाद्यमानश्शितैर्घोरैस्स्वस्वनामाङ्कितैश्शरैः
न चचाल रणे कर्णो महेन्द्रो दानवैरिव
उदीरयन् ब्राह्ममस्त्रं शरैरापूरयन्दिशः
निजघान महेष्वासान्पाञ्चालानेकविंशतिम्