धृतराष्ट्रः
युक्तं प्रविश्य पार्थानां सेनां कुर्वन्बलक्षयम्
कर्णो राजानमायच्छत् तन्ममाचक्ष्व सञ्जय
के च प्रवीराः पार्थानां युधि कर्णमवारयन्
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत्
सञ्जयः
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान्
समभ्यधावत्त्वरितः पाञ्चालाञ्छत्रुकर्शनः
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः
प्रत्युद्ययुर्महाराज हंसास्सर इवोष्णगे
ततश्शङ्खसहस्राणां निस्स्वनो हृदयङ्गमः
प्रादुरासीदुभयतो भेरीशब्दस्सुदारुणः
नानाबाणनिनादश्च द्विपाश्वरथनिस्स्वनः
सिंहनादश्च वीराणामभवद्दारुणस्तदा
साद्रिद्रुमार्णवा भूमिस्सघनाम्बुदमम्बरम्
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णिता
इति भूतानि तं शब्दं मेनिरे विव्यथुस्तदा
यानि चाप्यल्पसत्त्वानि प्रायस्तानि मृतानि वै
अथ कर्णो भृशं क्रुद्धश्शीघ्रमस्त्रमुदीरयन्
जघान पाण्डवीं सेनामासुरीं मघवानिव
स पाण्डवचमूं कर्णः प्रविश्य विविधैश्शरैः
प्रभद्रकाणां प्रवरान्यहनत्सप्तसप्ततिम्
ततस्सुपुङ्खैर्विशिखैरथ श्रेष्ठान् रथेषुभिः
अहनत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम्
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः
चेदिकानवधीद्वीरश्शतशोऽथ सहस्रशः
तं तथा समरे कर्म कुर्वाणमपराजितम्
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः
ततस्सन्धाय विशिखान्पञ्च भारत दुस्सहान्
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषा
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत
तपनं शूरसेनं च पाञ्चालानहनद्रणे
पाञ्चालेषु तु वीरेषु वध्यमानेषु सायकैः
हाहाकारो महानासीत्पाञ्चालानां महाहवे
तेषां सङ्कीर्यमाणानां हाहाकारं प्रकुर्वताम्
पुनरेव च तान्कर्णो जघानाशु पतत्त्रिभिः
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ
सुषेणस्सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम्
पृष्ठगोप्तस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः
वृषसेनोऽन्वयात्कर्णं पृष्ठतः परिपालयन्
धृष्टद्युम्नस्सात्यकिश्च द्रौपदेया वृकोदरः
जनमेजयश्शिखण्डी च प्रवीराश्च प्रभद्रकाः
चेदिकेकयपाञ्चाला यमौ मात्स्याश्च दंशिताः
समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः
तथा तं विविधैश्शस्त्रैश्शरधाराभिरेव च
समभ्यवर्षन्नर्दन्तः प्रावृषीवाम्बुदा गिरिम्
पितरं च परीप्सन्तः कर्णपुत्राः प्रहारिणः
त्वदीयाश्चापरे वीराः परवीरानवारयन्
सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम्
नाराचैस्सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह
अथान्यद्धनुरादाय बलवद्वेगवत्तरम्
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः
विव्याध चैनं दशभिः क्रुद्धो राजन्महेषुभिः
कर्णं तु तूर्णं विव्याध त्रिसप्तत्या शितैश्शरैः
सत्यसेनं च दशभिस्साश्वसूतायुधध्वजम्
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत्
क्षुरप्रकृत्तं तत्तस्य शिरश्चन्द्रनिभाननम्
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम्
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत्
कृपहार्दिक्ययोश्चापे छित्त्वा तावप्यमर्दयत्
दुश्शासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः
उलूकं च पतत्रिं च चकार विरथावुभौ
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम्
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत्
अथ प्रगृह्यान्यमपि सुपर्वाणं सुतेजनम्
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषा
पुनः कर्णस्त्रिसप्तत्या भीमसेनमथेषुभिः
पुत्रं परीप्सन्विव्याध क्रुद्धश्शत्रुजिघांसया
नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत्
नकुलस्तं तु विंशत्या विद्ध्वा भारत संयुगे
ननाद बलवन्नादं कर्णस्य भयमादधत्
तं सुषेणो महाराज विद्ध्वा दशभिरायसैः
धनुरस्याच्छिनच्छीघ्रं क्षुरप्रेण महारथः
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः
सुषेणं नवभिर्बाणैर्वारयामास संयुगे
तस्य बाणैर्दिशो राजन्नाच्छाद्य परवीरहा
आजघ्ने सारथिं क्रुद्धस्सुषेणं च पतत्रिभिः
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्तदा
अथान्यद्धनुरादाय सुषेणः परवीरहा
अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः
तद्युद्धमभवत्तेषां घोरं दैवासुरोपमम्
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति
सात्यकिर्वृषसेनं तु विद्ध्वा सप्तभिरायसैः
पुनर्विव्याध सप्तत्या सारथिं च त्रिभिश्शरैः
वृषसेनस्तु शैनेयं शरेणानतपर्वणा
आजघान महाराज शङ्खदेशे महारथम्
शैनेयो वृषसेनेन पत्रिणा परिपीडितः
कोपं चक्रे महाराज क्रुद्धो वेगं च दारुणम्
जग्राहेषुवरान्वीरश्शीघ्रं वै दश पञ्च च
सात्यकिर्वृषसेनस्य सूतं हत्वा त्रिभिश्शरैः
धनुश्चिच्छेद चैकेन जघानाश्वांश्च सप्तभिः
ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत्
अथापतच्च स्वरथे मुहूर्तात्पुनरुत्थितः
अथो जिघांसुश्शैनेयं खड्गचर्मभृदभ्ययात्
तस्य चापततश्शीघ्रं वृषसेनस्य सात्यकिः
वाराहकर्णैर्दशभिरविव्यास्यासिचर्मणी
दुश्शासनस्तु तं दृष्ट्वा विरथं व्यायुधं तथा
आरोप्य स्वरथं तूर्णमपोवाह रथान्तरम्
अथान्यं रथमास्थाय वृषसेनो महारथः
कर्णस्य युधि दुर्धर्षं पुनः पृष्ठमपालयत्
युयुधानं तु राधेयो नवैर्नवभिरायसैः
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत्
स चान्यं रथमास्थाय विधिवत्कल्पितं पुनः
युयुधे पाण्डवैस्सार्धं कर्णस्य व्यधमद्बलम्
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः
द्रौपदेयास्त्रिसप्तत्या युयुधानश्च सप्तभिः
भीमसेनश्चतुष्षष्ट्या सहदेवश्च सप्तभिः
नकुलस्त्रिंशता बाणैश्शतानीकश्च सप्तभिः
शिखण्डी दशभिर्वीरो धर्मराजश्शतेन च
एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः
अभ्यर्दयन्महेष्वासं सूतपुत्रं विशाम्पते
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिश्शितैः
रथेप्रचारान्विचरन्प्रत्यविध्यदरिन्दमः
सात्यकिं भीमसेनं च धृष्टद्युम्नशिखण्डिनौ
द्रौपदेयांश्च संरब्धान्यतमानान्महारथान्
पश्यतां सर्वसैन्यानामथैतान्सूतनन्दनः
विरथान्रथिनां श्रेष्ठान्निमेषार्धाच्चकार ह
अमोघत्वाच्च बाणानां भूतसङ्घा विसिष्मिरे
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः
अपश्याम महाराज तदद्भुतमिवाभवत्
नाप्याददानं ददृशुस्सन्दधानं च सायकान्
विमुञ्चन्तं च संरम्भादपश्यन्नैव तं जनाः
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात्
न तं पश्याम राजेन्द्र क्व नु कर्णोऽद्य तिष्ठति
इषूनेव स्म पश्यामो विनिकीर्णान्समन्ततः
छादयानान्दिशो राजञ्शलभानामिव व्रजान्
तस्य तैरिषुभिस्त्रीक्ष्णैस्सम्पतद्भिस्सहस्रशः
मरीचिभिरिवोष्णांशोश्शरैस्सन्नतपर्वभिः
व्याप्तास्सर्वा दिशो राजन्योधाश्च ददृशुस्तदा
शरैस्संवृतमाकाशं ताम्राभ्रैरिव चाभवत्
द्यौर्वियद्भूर्दिशश्चैव प्रच्छन्ना निशितैश्शरैः
अरुणाभ्रावृताकारास्तस्मिन्देशेऽभवंस्तदा
ततः पुनरमेयात्मा कर्णो राजन् महारथः
न्यहनत्समरे योधान्योधवृत्तमनुष्ठितः
नृत्यन्निव हि राधेयश्चापहस्तो रणाजिरे
यैर्विद्धः प्रत्यविद्ध्यत्तानेकैकं त्रिगुणैश्शरैः
दशभिर्दशभिश्चैव पुनर्विव्याथ नानदत्
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः
ते हन्यमानाः कर्णेन पलायन्ते दिशो दश
नादयन्तो दिशस्सर्वाः कर्मत्रस्ता विचेतसः
तान्प्रमृद्य महेष्वासान्राधेयश्शरवृष्टिभिः
राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः
स रथांस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम्
राधेयो निशितैर्बाणैस्ततोऽभ्यागाद्युधिष्ठिरम्
ततस्ते विरथाश्शूरा रथानन्यान्समास्थिताः
परिवव्रुर्महाराज धर्मपुत्रं युधिष्ठिरम्
ततस्ते च परे राजञ्छिखण्डी च ससात्यकिः
राधेयात्परिरक्षन्तो राजानं पर्यवारयन्
मुञ्चन्तो विविधान्बाणान्स्वर्णपुङ्खाञ्शिलाशितान्
तथैव तावकास्सर्वे कर्णं दुर्वारणं रणे
यत्तसेना महेष्वासा पर्यरक्षन्त सर्वशः
नादो वादित्रघोषाणां प्रादुरासीत्समन्ततः
सिंहनादाश्च सञ्जज्ञुश्शूराणामनिवर्तिनाम्
ततः पुनस्समाजग्मुरभीताः कुरुसृञ्जयाः
युधिष्ठिरमुखाः पार्थास्सूतपुत्रमुखा वयम्