धृतराष्ट्रः
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय
संशप्तकाः कथं पार्थं कथं कर्णश्च पाण्डवान्
एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम्
सञ्जयः
तत्संस्थितमथो दृष्ट्वा प्रत्यमित्रं महद्बलम्
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते
तत्सादिनागकलिलं पदातिरथसङ्कुलम्
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्
पारावतसवर्णाश्वैश्चन्द्रसूर्यसमद्युतिः
स पार्षतो बभौ धन्वी कालो विग्रहवानिव
पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः
विजये धृतसङ्कल्पा मृत्युं कृत्वा निवर्तनम्
तदश्वसङ्घबहुलं पत्तिनागरथाकुलम्
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत्
तदुद्यतं महत्सैन्यं सागरौघसमं जवे
पार्थवेलां समासाद्य विष्ठितं समदृश्यत
मृद्नन्तं शरवर्षौघैर्द्रुतमर्जुनमार्दयत्
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना
तस्यैव तु यथा राजन्निवातकवचैस्सह
रथिनोऽश्वान्ध्वजान्पत्तीन्गजान्गजगतानपि
इषून्धनूंषि खड्गांश्च सगदान् सपरश्वथान्
सायुधानुद्यतान्बाहून्विविधान्यायुधानि च
चिच्छेद द्विषतां पार्थश्शिरांसि च सहस्रशः
तस्मिन्सैन्यमहावर्ते पातालावर्तसन्निभे
निमग्नं तं रथं दृष्ट्वा नेदुस्संशप्तका मुदा
स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत्
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव
अथ पाञ्चालचेदीनां पाण्डवानां च सर्वशः
त्वदीयैस्सह सङ्ग्रामो बभूव भुवि दारुणः
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः
हृष्टसेनास्सुसंरब्धा रथानीकैःप्रहारिभिः
कोसलैः काशिभिर्मत्स्यैः कारूशैः केकयैरपि
शूराश्शूरैर्भृशं जघ्नुस्सङ्ग्रामे रोमहर्षणे
तेषां तदाऽभवद्युद्धं देहपाप्मविनाशनम्
शूद्रविट्क्षत्रविप्राणां धर्म्यं स्वर्ग्यं यशस्करम्
दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः
पाण्डवैस्सह पाञ्चालैश्चेदिभिः केकयैस्सह
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्
कर्णोऽपि निशितैर्बाणैर्विनिपात्य महाचमूम्
प्रमृद्य च युधिश्रेष्ठान्युधिष्ठिरमपीडयत्
विपत्रायुधदेहासून्कृत्वा योधान्सहस्रशः
युक्तान् स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्
तद्विगाह्य रथानीकं सूतपुत्रो महारथः
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम्
शोणितोदां क्षुद्रमत्स्यां नागनक्रां दुरत्ययाम्
मांसमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम्
पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः
अशनीभिरिव ध्वस्ता नदी राजन्विराजते
तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम्
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम्
अपारामनपारां च शङ्खदुन्दुभिघोषिणीम्
रौद्रां नदीं महाराज रजसा सर्वतोवृताम्
अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम्
समं च विषमं चैव समायान्तीं महाभयाम्
आगुल्फाच्चात्र सीदन्ति नराश्शोणितकर्दमैः
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः
ततस्ते तत्रतत्रैव प्रतरन्तो महानदीम्
विचेरुस्सर्वतो योधा नौवारणमहारथैः
शोणितेन समं राजन्कृतमासीत्समन्ततः
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशाम्पते
एवं भारत सङ्ग्रामो नरवाजिजनक्षयः
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत्