सञ्जयः
ततः परानीकमिदं व्यूढमप्रतिमं महत्
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम्
प्रययौ रथघोषेण सिंहनादरवेण च
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्
वेपमान इव क्रोधाद्युद्वशौण्डः प्रतापवान्
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ
व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव
युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह
कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च
सङ्ग्राहेण च रश्मीनां समकम्पन्त सृञ्जयाः
तानि सर्वाणि सैन्यानि कर्णं दृष्ट्वा विशाम्पते
बभूवुस्सम्प्रहृष्टानि तावकानि युयुत्सया
अश्रूयन्त ततो वाचस्तावकानां विशाम्पते
सैनिकाः
कर्णार्जुनमहायुद्धमेतदद्य भविष्यति
अद्य दुर्योधनो राजा हतामित्रो भविष्यति
अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति
अद्य तावद्वयं युद्धे कर्णस्यैवानुगामिनः
कर्णबाणमयं भीमं युद्धं द्रक्ष्याम संयुगे
चिरकालागतमिदमद्येदानीं भविष्यति
अद्य द्रक्ष्याम सङ्ग्रामं घोरं दैवासुरोपमम्
अद्येदानीं महद्युद्धं भविष्यति भयानकम्
अद्येदानीं जयो नित्यमेकस्यैकस्य वा रणे
अर्जुनं किल राधेयो वधिष्यति महारणे
अथवा कं नरं लोके न स्पृशन्ति मनोरथाः
सञ्जयः
इत्युक्त्वा विविधा वाचः कुरवः कुरुनन्दन
आजघ्नुः पटहांश्चैव तूर्यांश्चैव सहस्रशः
भेरीनादांश्च विविधान्सिंहनादांश्च पुष्कलान्
मुरजानां महाशब्दानानकानां महारवान्
नृत्यमानाश्च बहवस्तर्जमानाश्च मारिष
अन्योन्यमभ्ययुर्युद्धे युद्धरङ्गगता नराः
तेषां पदाता नागानां पादरक्षास्समन्ततः
पट्टसासिधराश्शूराश्चापबाणमुसुण्ठिनः
भिण्डिपालधराश्चैव शूलहस्तास्सुचक्रिणः
तेषां समागमो घोरो देवासुररणोपमः
धृतराष्ट्रः
कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान्
धृष्टद्युम्नमुखान्सङ्ख्ये भीमसेनाभिरक्षितान्
के वा पक्षे प्रपक्षे च मम सैन्यस्य सञ्जय
प्रविभज्य यथान्यायमवतस्थुस्सुदंशिताः
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्
कथं चैतन्महद्युद्धं प्रावर्तत सुदारुणम्
क्व च बीभत्सुरभवत्कर्णो यत्र व्यवस्थितः
को ह्यर्जुनस्य सान्निध्ये शक्तो जेतुं युधिष्ठिरम्
सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा
कस्तमन्यस्तु राधेयात्प्रतियुध्येज्जिजीविषुः
सञ्जयः
शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः
परिवार्य नृपान्सर्वान्सङ्ग्रामश्चाभवद्यथा
कृपश्शारद्वतो राजन्मागधाश्च तरस्विनः
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः
तेषां प्रपक्षे शकुनिरुलूकश्च महाबलः
सादिभिर्विमलप्रासैस्तदानीमभ्यरक्षताम्
गान्धारैश्चाप्यसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः
शलभानामिव व्रातैः पार्वतीयैश्च दुर्जयैः
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः
चतुर्विंशत्सहस्राणि रथानामनिवर्तिनाम्
संशप्तका युद्वशौण्डा वामं पक्षमपालयन्
समूहितास्तव सुतैः कृष्णार्जुनजिघांसवः
तेषां प्रपक्षाः काम्भोजाश्शकाश्च यवनैस्सह
निदेशात्सूतपुत्रस्य सरथाश्वेभपत्तयः
आह्वयन्तोऽर्जुनं तस्थुः केशवं च जिघांसवः
ततस्सेनामुखे कर्णो प्यवातिष्ठत दंशितः
चित्रवर्माङ्गदस्स्रग्वी पालयन्ध्वजिनीमुखम्
रक्ष्यमाणस्सुसंरब्धैः पुत्रैश्शस्त्रभृतां वरैः
वाहिनीप्रमुखं वीरैस्सम्प्रकर्षन्नशोभत
अशोकस्तु महाबाहुश्चन्द्रवैश्वानरद्युतिः
महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः
दुश्शासनो वृतस्सैन्यैस्स्थितो व्यूहस्य पृष्ठतः
तन्मध्ये स महाबाहुस्स्वयं दुर्योधनो नृपः
चित्राश्वैश्चित्रसन्नाहैस्सोदर्यैरभिरक्षितः
रक्ष्यमाणो महावीर्यैस्सहितैर्मद्रकेकयैः
अशोभत महाराज देवैरिव शतक्रतुः
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः
नित्यमत्ताश्च मातङ्गाश्शूरैर्म्लेच्छैरधिष्ठिताः
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः
ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः
सादिभिश्चास्थिता रेजुर्धूयमाना इवाचलाः
तेषां पदाता नागानां पादरक्षास्सहस्रशः
पट्टसासिधराश्शूरा बभूवुरनिवर्तिनः
सादिभिस्स्यन्दनैर्नागैपत्तिभिश्चाप्यलङ्कृतः
स व्यूहराजो विबभौ देवासुरचमूपमः
बार्हस्पत्यस्सुविहितो नायकेन विपश्चिता
नृत्यतीव महाव्यूहः परेषामदधाद्भयम्
तस्य पक्षप्रपक्षेभ्यो निस्सरन्ति युयुत्सवः
पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः
ततस्सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः
धनञ्जयममित्रघ्नमेकवीरमुवाच ह
युधिष्ठिरः
पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे
युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते
तत्समीपगतं ह्येतत्प्रत्यमित्रं महद्बलम्
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्
सञ्जयः
एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत्
अर्जुनः
यथा यथा भवानाह तत्सत्यं न तदन्यथा
यत्तस्य विहितं तात तत्करिष्यामि भारत
प्रधानमथ चैवास्य विनाशं च करोम्यहम्
युधिष्ठिरः
तस्मात्त्वं जहि राधेयं भीमसेनस्सुयोधनम्
वृषसेनं च नकुलस्सहदेवोऽपि सौबलम्
दुश्शासनं शतानीको हार्दिक्यं शिनिपुङ्गवः
धृष्टद्युम्नस्तथा द्रौणिं स्वयं योत्स्याम्यहं कृपम्
द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना
ततस्तानहितान्शीघ्रमस्माकं घ्नन्तु मामकाः
सञ्जयः
इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः
व्यादिदेश स्वसैन्यानि स्वयमागाच्चमूमुखम्
धनञ्जयो महाराज दक्षिणं पक्षमास्थितः
भीमसेनो महाबाहुर्वामं पक्षमुपाश्रितः
सात्यकिर्द्रौपदेयाश्च स्वयं राजा च पाण्डवः
व्यूहस्य प्रमुखे तस्थुस्स्वेनानीकेन संवृताः
स्वबलेनारिसैन्यं तत्प्रत्यवस्थाप्य पाण्डवः
प्रत्यव्यूहत्पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ
तत्सादिनागकलिलं पदातिरथसङ्कुलम्
धृष्टद्युम्नमुखं व्योहमशोभत महाबलम्