कर्णः
इङ्गितज्ञास्तु मगधाः प्रेक्षितज्ञास्तु कोसलाः
अर्धोक्ताः कुरुपाञ्चालास्सर्वोक्ता दाक्षिणापथाः
पार्वतीयास्तु विषमा यथैव गिरयस्तथा
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः
म्लेच्छास्स्वसञ्ज्ञानिरता नानुक्तमितरे जनाः
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः
न त्वमेतादृशश्शल्य मा ब्रूया वाक्यमुत्तरम्
एवं ज्ञात्वा जोषमास्स्व त्वमद्य मा स्म क्रुद्धः पापभृतां वरिष्ठ
पूर्वं हत्वा त्वां सपुत्रं बलैश्च पश्चाद्धंस्ये वासुदेवार्जुनौ च
शल्यः
आतुराणां परित्यागस्स्वदाराणाञ्च विक्रयः
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः
अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान्
रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तथोचिवान्
सर्वत्र ब्राह्मणास्सन्ति क्षत्रियास्सन्ति सर्वशः
वैश्याश्शूद्रास्तथा कर्ण स्त्रियस्सत्यश्च सुव्रताः
रमन्ते चोपहासेन पुरुषाः पुरुषैस्सह
अन्योन्येन मदक्षीबा देशेदेशे च मैथुनम्
परवाच्येषु निपुणस्सर्वो भवति सर्वदा
आत्मवाच्यं न जानीते जानन्नपि स मुह्यते
सर्वत्र सन्ति राजानस्स्वं स्वं धर्ममनुव्रताः
दुर्मनुष्यान्निगृह्णन्तस्सन्ति सर्वत्र धार्मिकाः
न कर्ण देशसामान्यात्सर्वः पापं निषेवते
यादृशास्तु स्वभावेन देशांस्तांस्तादृशान्विदुः
सञ्जयः
ततो दुर्योधनो राजा कर्णशल्याववारयत्
सखिभावेन राधेयं शल्यं सौजन्यकेन च
ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष
प्रहस्य तत्र राजेन्द्र यदि शल्येत्यचोदयत्
ततः प्रयान्तं राधेयं मद्रराजस्स्मयन्निव
अवधूय इदं वाक्यमब्रवीत्कुरुसन्निधौ
शल्यः
चमूं तवेमां विपुलं समृद्धामसङ्ख्येयामश्वनराकुलां च
तथा प्रवेष्टा समरे धनञ्जयः कक्षं दहन्दीप्त इवाश्रयाशी
रथे स्थितौ वीरवरौ वरेण्यौ सिंहस्कन्धौ लोहितपद्मनेत्रौ
द्रष्टा भवानद्य विना प्रयत्नात्तथाहीमे शकुना वेदयन्ति
अद्य द्रष्टाऽसि तं वीरं श्वेताश्वं कृष्णसारथिम्
निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ
वासुदेवार्जुनौ कर्ण द्रष्टाऽस्यमितविक्रमौ
सारथिर्यस्य गोविन्दो गाण्डीवं यस्य कार्मुकम्
तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि
प्रवात्येष महावायुरभितस्तव वाहिनीम्
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम्
पश्य कर्ण महाघोरं भयं वै रोमहर्षणम्
अर्कं जीमूतसङ्काशः कबन्धो वार्य तिष्ठति
पश्य यूथं बहुशतं मृगाणां सर्वतोदिशम्
ररास दीप्तलाङ्गूलमादित्यामभितस्स्थितम्
पश्य काकांश्च गृध्रांश्च समवेतान्सहस्रशः
आदित्यमभिवीक्षन्ते ह्यशिवाः कर्ण सस्वराः
श्वेतवाजिसमायुक्ते तव कर्ण महारथे
पताकाः प्रज्वलन्त्येता ध्वजश्चातीव कम्पते
सर्ववेपथून् हयान्पश्य महाकायान्मनोजवान्
प्लवमानान्महावीर्यानाकाशे गरुडानिव
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः
शङ्खानां तुमुलश्शब्दश्श्रूयते रोमहर्षणः
आनकानां च राधेय मृदङ्गानां च हन्यताम्
शृणु शब्दान्बहुविधान्नराश्वरथदन्तिनाम्
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः
सहेमचन्द्रताराभाः पताकाः किङ्किणीयुताः
नानावर्णा रणे भान्ति श्वसनेन प्रकम्पिताः
पश्य कर्णार्जुनस्यैतास्सौदामिन्य इवाम्बुदे
ध्वजाः कणकणायन्ते वातेनातिसमीरिताः
सपताका रथाश्चापि पाञ्चालानां महात्मनाम्
एष रेणुस्समुद्भूतो दिवमावृत्य तिष्ठति
गजवाजिप्रणुन्ना च कम्पते कर्ण मेदिनी
श्रूयते मेघसङ्काशो रथनेमिस्वनस्तथा
पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम्
प्रहरिष्यन्तमायान्तं कपिप्रवरकेतनम्
गजाश्वरथपत्त्योघांस्तावकान्युधि निघ्नतः
ध्वजाग्रं दृश्यते तस्य ज्याशब्दश्चैव श्रूयते
सञ्जयः
एष संशप्तकाहूतस्तानेवाभिमुखो गतः
करोति कदनं चैष सङ्ग्रामे द्विषतां बली
इति ब्रुवाणं मद्रेशं कर्णः प्रोवाच मन्युमान्
कर्णः
पश्य संशप्तकैः क्रुद्धैस्समन्तात्समभिद्रुतम्
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते
एष दान्तोऽर्जुनः शल्य निमग्नश्शोकसागरे
शल्यः
वरुणं कोऽम्भसा हन्यादिन्धनेन च कोऽनलम्
को वाऽनिलं निगृह्णीयात्पिबेद्वा को महार्णवम्
ईदृग्रूपमहं मन्ये पार्थस्य युधि निर्जयम्
न हि शक्योऽर्जुनो जेतुं युधि देवासुरैरपि
अथैवं परितोषस्ते वाग्भिस्त्वं सुमाना भव
न हि शक्यो युधा जेतुमन्यं कुरु मनोरथम्
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः
पातयेत्त्रिदिवाद्देवान्नार्जुनं समरे जयेत्
पश्य कुन्तीसुतं भीमं वीरमक्लिष्टकारिणम्
प्रहरन्तं महाबाहुं स्थितं मेरुमिवाचलम्
अमर्षी पुरुषव्याघ्रस्सदा वैरमनुस्मरन्
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान्
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः
तिष्ठत्यसुकरस्सङ्ख्ये परैः परपुरञ्जयः
एतौ च पुरुषव्याघ्रावाश्विनेयौ महारथौ
नकुलस्सहदेवश्च तिष्ठतो युधि दुर्जयौ
एते तिष्ठन्ति कार्ष्णेयाः पञ्च पञ्चाचला इव
योत्स्यमाना महावीर्या भीमार्जुनसमा युधि
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः
हीनास्सत्यजिता वीरास्तिष्ठन्ति परमौजसः
यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः
तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः
इति संवदतोरेवं तयोः पुरुषसिंहयोः
ते सेने समसज्जेतां गङ्गायमुनवद्भृशम्