कर्णः
यदन्योऽप्युक्तवांस्तत्रा ब्राह्मणः कुरुसंसदि
पञ्चनद्यो वहन्त्येता यत्र पीलुवनान्युत॥
शतद्रुश्च विपाशा च तृतीयैरावती तथा
चन्द्रभागा वितस्ता च सिन्धुषष्ठा महानदी
आरट्टा नाम बह्लीका एतेष्वार्यो हि नो वसेत्
व्रात्यानां निन्दनीयानां विदेहानामयज्वनाम्
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः
ब्राह्मणेन यथा प्रोक्तं विदुषा साधुसंसदि
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते
सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च
पात्रसङ्करिणो जाल्मास्सर्वान्नक्षीरभोजनाः
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिताम्
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदन्योऽप्युक्तवान्वाक्यं ब्राह्मणः कुरुसंसदि
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले
तद्वद्भूतिपथे स्नात्वा कथं स्वर्गं गमिष्यति
पञ्चनद्यो वहन्त्येता यत्र निस्सृत्य पर्वतान्
आरट्टा नाम बाह्लीका न तेष्वार्योऽवतिष्ठते
बाह्लीका नाम भीकश्च पीशाची च पिशाचकः
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः
ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः
कारस्करान्माहिषकान्करम्भान्कीटकान्शकान्
कर्करान्वीरकाश्मन्तान् उन्मार्गांश्च विवर्जयेत्
इति तीर्थानुसञ्चारा राक्षसी काचिदब्रवीत्
एकरात्रमुषित्वेह महोलूखलमेखला
आरट्टा नाम ते देशा बाह्लीकं नाम तद्वनम्
वसातिसिन्धुसौवीरा इति प्रायो हि कुत्सिताः
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते
उच्यमानं मया सम्यक्त्वं ह्येकाग्रमनाश्शृणु
ब्राह्मणः किल नो गेहमभ्यागच्छत्पुराऽतिथिः
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत्
ब्राह्मणः
मया हिमवतश्शृङ्गे एकेनाध्युषितं चिरम्
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः
न च केन च धर्मेण विरुध्यन्त इमाः प्रजाः
सर्वाश्चाप्यवदद्धर्मान् यथोक्तं वेदपारगैः
अटता तु मया देशान्नानाधर्मसमाकुलान्
आगच्छता महाराज बाह्लीकेषु निशामितम्
तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः
वैश्यश्शूद्रश्च बाह्लीकस्ततो भवति नापितः
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः
द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते
भवन्त्येककुला विप्राश्शिष्टा ये ब्रह्मचारिणः
गान्धारका मद्रकाश्च बाह्लीकाश्चाप्यतेजसः
एवं श्रुतं मया तत्र धर्मसङ्करकारकम्
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः
कर्णः
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम्
आनीयेहाक्षता काचिदारट्टे किल दस्युभिः
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः
स्त्री
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ
तस्मात्कुमार्यस्स्वैरिण्यो भविष्यन्ति कुलेषु वः
नैव तस्मात्प्रमोक्ष्यध्वं घोराच्छापान्नराधमाः
कर्णः
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि
कुरवस्सहपाञ्चालास्साल्वा मात्स्याश्च नैमिशाः
कौसलाः काशयश्चैव कालिङ्गा मागधास्तथा
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्
नानादेशेषु सन्तश्च प्रायो बाह्यालयादृते
आमत्स्येभ्यः कुरुपाञ्चालसाल्वैस्ते नैमिशाच्चेदयो ये विशिष्टाः
धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पाञ्चनदांश्च जिह्मान्
एवं जानन्धर्मकथासु नित्यं तूष्णीम्भूतश्शल्य भवेस्सदा त्वम्
त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य
अथवा दुष्कृतानि त्वं हर्ता तेषामरक्षिता
रक्षिता पुण्यभाग्राजा प्रजानां त्वं तु पापभाक्
पूज्यमाने तथा धर्मे सर्वदेशेषु शाश्वते
धर्मं पाञ्चनदं श्रुत्वा धिगित्याह पितामहः
व्रात्यानां दाशकीयानां कृतेऽप्यशुभकारिणाम्
ब्रह्मणा गर्हितान्सर्वान्कश्चित्सिद्धात्मकोऽब्रवीत्
इति पाञ्चनदान् धर्मानवमेने पितामहः
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नात्यपूजयत्
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते
कल्माषपादस्सरसि निमज्जन्राक्षसोऽब्रवीत्
क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम्
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम्
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप
मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम्
मुष्टिकानां मलं षण्ढाष्षण्ढानां राजयाजकाः
राजयाजकयाज्यानां मद्रकाणां च यन्मलम्
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च
विद्वद्भिर्भेषजं दृष्टं संसिद्धं वचनोत्तरम्
ब्राह्म्याः पाञ्चालाः कौरवेयाश्च धर्म्यास्सत्या मत्स्याश्शूरसेनास्तु याज्याः
प्राच्या दासा वृषला दाक्षिणात्यास्स्तेना बाह्लीकास्सङ्करा वै सुराष्ट्राः
कृतघ्ना वै परवित्तापहारा मत्ताः पानैर्गुरुदारावमर्दाः
येषां धर्मस्तान्प्रति नास्ति धर्म आरट्टजान्पाञ्चनदान् धिगस्तु
आपाञ्चालाः कुरवो नैमिशाश्च मत्स्याश्चैवाप्यनुजानन्ति धर्मम्
अथोदीच्याश्चेदयो मागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा
प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून्
उदीचीं भगवान्त्सोमो ब्रह्मा च ब्राह्मणैस्सह
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः