सञ्जयः
ततः पुनर्महाराज मद्रराजमरिन्दमम्
अभ्यभाषत राधेयस्सन्निवार्योत्तरं वचः
कर्णः
निदर्शनार्थं शल्य त्वं यत्तु जल्पितवानसि
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे
यदि मां देवतास्सर्वा योधयेयुस्समागताः
ततोऽपि मे भयं न स्यात्किमु पार्थात्सकेशवात्
नाहं भीषयितुं शक्यः शुद्धकर्माऽहमाहवे
अभिजानीहि शक्तस्त्वमन्यं भीषयितुं रणे
नीचस्य बलमेतावत्परुषं यत्त्वमात्थ माम्
अशक्तो हि गुणान्वक्तुं वल्गसे बहु दुर्मते
न हि कर्णस्समुद्भूतो भयार्थमिह मारिष
विक्रमार्थमहं जातो यशोर्थं च तथैव हि
सखिभावेन सौहार्दान्मित्रभावेन चैव हि
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम्
राज्ञश्च धार्तराष्ट्रस्य कार्यं हि महदुद्यतम्
मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम्
कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव
समयः परिपाल्यो मे तेन जीवसि साम्प्रतम्
ऋते शल्यसहस्रेण विजयेयमहं परान्
मित्रद्रोहस्तु पापीयानिति जीवसि मद्रक
शल्यः
आर्तप्रलापांस्त्वं कर्ण यान्ब्रवीषि परान्प्रति
न ते कर्णसहस्रेण शक्या जेतुं परे युधि
सञ्जयः
तथा ब्रुवन्तं परुषं शल्यं वैकर्तनस्तदा
परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम्
कर्णः
इदं त्वमेकाग्रमनाश्शृणु मद्रजनाधिप
सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्
ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रसमीपतः
तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः
बाह्लीकदेशान्मद्रांश्च कुत्सयन्वाक्यमब्रवीत्
ब्राह्मणः
बहिष्कृता हिमवता गङ्गया च तिरस्कृताः
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये
पञ्चानां सिन्धुषष्ठानां नदीनामुत्तराश्रिताः
तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत्
पटच्चरं नाम वटं सुभाण्डं नाम पत्तनम्
एतद्राजकुलद्वारमाकुमारात्स्मराम्यहम्
कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया
तत एषां समाचारस्संवासाद्विदितो मया
शाकलं नाम नगरमनापगमनिम्नगम्
चण्डाला नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम्
पानं गुडासवं पीत्वा गोमांसं लशुनैस्सह
अपूपसक्तुमद्यानामाशिताश्शीलवर्जिताः
हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः
नगरापणवेशेषु बहिर्माल्यानुलेपनाः
मत्तापगीतविरुतैः खरोष्ट्रनिनदोपमैः
सुरामैरेयपुष्टाश्च सर्वे नग्ना मदोत्कटाः
हेहते हेहतेत्येवं स्वामिभर्तृहतेति च
आक्रोशन्तः प्रनृत्यन्ति सर्वे सर्वा मदोत्कटाः
तेषां मदावलिप्तानां निवसन्कुरुजाङ्गले
कश्चिद्बाह्लीकमत्तानां नातिहृष्टमना जगौ
सा नूनं बृहती गौरी मत्ता कम्बलवासिनी
मामनुस्मरती शेते बाह्लीकी कुरुवासिनम्
शतद्रुं तरसा तीर्त्वा चन्द्रभागामिरावतीम्
गत्वा स्वदेशं द्रक्ष्यामि स्थूलजङ्घाश्शुभास्स्त्रियः
मनश्शिलोज्ज्वलापाङ्ग्यो गौर्यस्ताः काककुञ्जकाः
कम्बलाजिनसंवीता रुदन्त्यः प्रियदर्शनाः
मृदङ्गानाञ्च शङ्खानां पटहानाञ्च निस्स्वनैः
खरोष्ट्राश्वतरीयानैः कथं यास्यामहे सुखम्
शमीपीलुकरीराणां वनेषु शुभवर्त्मसु
अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मदिरान्विताः
पथिषु प्रबला भूत्वा तथा सम्पततोऽध्वगान्
चेलापहारं कुर्वाणास्ताडयिष्याम भूयशः
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः
एवंशीलेषु व्रात्येषु बाह्लीकेषु दुरात्मसु
कर्णः
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः
येषां षड्भागहर्ता त्वमुभयोः पुण्यपापयोः
इत्युक्त्वा ब्राह्मणस्साधुरुत्तरं पुनरब्रवीत्
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोध तत्
ब्राह्मणः
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम्
शाकले नगरे स्फीते आहत्य निशि दुन्दुभिम्
कथं वा तादृशो गाथाः पुनर्गास्यामि शाकले
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं वरासवम्
गौरीभिस्सह नारीभिर्बृहतीभिस्स्वलङ्कृता
पलाण्डुगण्डूषयुतान् खादन्तश्चेशिकान्बहून्
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्
धानाश्च ये न खादन्ति तेषां जन्म निरर्थकम्
कर्णः
एवं गायन्ति ये मत्ताश्शीधुना पीलुकावने
सबालवृद्धाः क्रन्दन्ति तेषां धर्मः कथं भवेत्
यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः
विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत्
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते