वैवस्वताद्दण्डहस्ताद्वरुणाद्वाऽपि पाशिनः
सगदाद्वा धनपतेस्सवज्राद्वा सुराधिपात्
तथाऽन्यस्मादपि सुरादमित्रादाततायिनः
इति शल्य विजानीहि यथाऽहं न बिभेम्युत
तस्मान्न मे भयं पार्थान्नैव चापि जनार्दनात्
सह युद्धं हि मे ताभ्यां साम्पराये भविष्यति
श्वभ्रे ते पतिता चक्रमिति मां ब्राह्मणोऽब्रवीत्
युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायनं भयम्
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम्
एते हि सोमराजान ईश्वरास्सुखदुःखयोः
कदाचिद्ब्राह्मणस्याथ योग्यहेतेरहं नृप
अजानन्नक्षिपं बाणं घोररूपं भयावहम्
होमधेन्वास्ततो वत्सः प्रमत्त इषुणा हतः
चरन्वै विजने शल्य ततो मां व्याजहार सः
ब्राह्मणः
यस्माद्वत्सस्त्वया चात्र होमधेन्वा हतो नृप
तस्मात्त्वमपि राधेय वाक्शल्यं महदाप्नुहि
श्वभ्रे ते पतिता चक्रं युध्यमानस्य शत्रुणा
प्राप्त एकायने काले मृत्युसाधारणे त्वयि
कर्णः
स्पर्धसे येन सङ्ग्रामे यदर्थं घटसेऽनिशम्
तत एव ध्रुवं मृत्युं सूत प्राप्स्यसि संयुगे
अहं प्रसादयाञ्चक्रे ब्राह्मणं संशितव्रतम्
गवां दशशतं वित्तं बलीवर्दांश्च षट्शतम्
प्रयच्छन् नालभं कामं ब्राह्मणात्तमहं तदा
दासीशतं निष्ककण्ठं शतमश्वतरीरथान्
कन्यानां निष्ककण्ठीनां सहस्रं समलङ्कृतम्
ईषादन्तान्सप्तशतान्दासीर्दशशतानि च
ददतो द्विजमुख्यो मे प्रसादं न चकार वै
कृष्णानां श्वेतवत्सानां गोशतानि चतुर्दश
अददं न लभे तस्मात्प्रसादं द्विजसत्तमात्
यत्किञ्चिन्मामकं वित्तं त्वदधीनं करोमि तत्
इति मां याचमानं वै ब्राह्मणः प्रत्यवारयत्
ब्राह्मणाः
क्रोधदीप्तेक्षणश्शल्य निर्दहन्निव चक्षुषा
यन्मया व्याहृतं सूत तत्तथा न तदन्यथा
अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयाम्
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे
मा त्वं ब्रह्मगर्ह्यस्स्याः प्रायश्चित्तं कृतं त्वया
कर्णः
नैतत्तदनृतं कुर्यात्सर्वलोकोऽपि सूतज
यन्मयोक्तं सरोषेण गच्छ सूतज माचिरम्
इति मामसकृत्क्रुद्धस्स उवाच द्विजोत्तमः
एते हि सोमराजेन ईश्वरास्सुखदुःखयोः
नाहं बिभेमि बीभत्सोर्न शल्य मधुसूदनात्
तस्माद्बिभेम्यहं शापात्तेन सत्येन ते शपे
युद्धेऽस्मिञ्जीवितं मेऽद्य शल्य संशयमागतम्
शक्रोऽप्यमरराट् ताभ्यामुपगम्याहवं सह
संशयं परमं गच्छेत्कथं वा मन्यते भवान्
इत्येवं ते मयाऽऽख्यातं क्षिप्तेन च सुहृत्तया
जानामि त्वाऽधिक्षिपन्तं दोषमात्मगतं शृणु
सह युद्धं समेताभ्यामद्येदं समुपस्थितम्