सञ्जयः
मद्राधिपस्याधिरथिर्महात्मा वचो निशम्याप्रियमप्रतीतः
उवाच शल्यं विदितं ममैतद्यथाविधावर्जुनवासुदेवौ
शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य
अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य
तौ चाप्यहं शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ
सन्तापयत्यभ्यधिकं हि रामाच्छापोऽद्य मां ब्राह्मणसत्तमाच्च
पुरा महेन्द्राद्रिवरे समुद्रे तपस्विनं राममुपेत्य शल्य
अस्त्रार्थिनं मामद्य शिष्यं गृहाणेत्यथाब्रुवं ब्राह्मणच्छद्मना च
तत्रावसं ब्राह्मण इत्यविप्रो ब्रह्मास्त्रलोभादनृतेन चाहम्
तज्जामदग्न्येन परं महास्त्रं समन्त्रयुक्तं विहितं ममासीत्
अस्त्रं यदा तद्विदितं ममासीत्तदाऽब्रवीद्ब्राह्मणो मां महर्षिः
आपद्गतेनास्त्रमिदं प्रयोज्यं त्वया रणे गच्छता साधयेति
तत्रापि मे देवराजेन विघ्नो हितार्थिना फल्गुनस्यैव शल्य
कृतो विभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम्
गुरोर्भयाच्चापि न चेलिवानहं तथैव बुद्धो ददृशे स विप्रः
स धैर्ययुक्तं प्रसमीक्ष्य मां वै न त्वं विप्रः कोऽसि सत्यं वदेति
तस्मै तदाऽऽत्मानमहं यथावदाख्यातवान्सूत इत्येव शल्य
स मां निशम्याथ महातपस्वी संशप्तवान्रोषपरीतचेताः
सूतोपधाच्चाप्तमिदं महास्त्रं न कर्मकाले प्रतिभास्यतीति
अन्यत्र तु स्यात्तव मृत्युकालादब्राह्मणे ब्रह्म न हि ध्रुवं स्यात्
तदद्य पर्यापततीव मेऽस्त्रमुपस्थितेऽस्मिंस्तुमुले विमर्दे
ध्रुवं कुरूणामयमन्तकालो महाभयश्शोणितौघप्रवाही
ध्रुवः क्षयः क्षत्रियपुङ्गवानां महाभयोऽयं समुपस्थितोऽद्य
अस्त्रं हि मे न प्रतिभामुपैति येन क्षयं शत्रुगणान्नयिष्ये
तस्मात्तदासादय मद्रराज दिव्यं धनुर्यस्य महेषवश्च
अस्त्राणि दिव्यानि च सन्ति यस्मिंस्तस्मिन्रथं प्रापय शीघ्रमद्य
श्रोष्यन्तीमं कथ्यमानं विचित्रं यावद्भूमौ भवितारो मनुष्याः
शल्योग्रधन्वानमहं वरिष्ठं तरस्विनं भीममसह्यवीर्यम्
सत्यप्रतिज्ञं युधि पाण्डवेयं धनञ्जयं मृत्युवशं नयिष्ये
अपाम्पतिर्वेगवानप्रमेयो निमज्जयिष्यन्बहुलाः प्रजा इव
महारवं यः कुरुते समुद्रो वेलेव तं वारयाम्यप्रमेयम्
प्रमुञ्चन्तं बाणसङ्घानमोघान्मर्मच्छिदः प्रवरान् कङ्कपत्रान्
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ज्याकर्षिणामुत्तमं मर्त्यलोके
एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम्
शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिर्वारयिष्ये
कृती कृतास्त्रो दृढहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी
सुरासुरान्युधि वै यो जयेत तेनाद्य मे पश्य युद्धं सुघोरम्
अभीर्मानी पाण्डवो युद्धकामो योऽमानुषैरस्यति मां महास्त्रैः
तस्यास्त्रमस्त्रैरभिभूय सङ्ख्ये बाणोत्तमैः पातयिष्यामि पार्थम्
सहस्ररश्मिप्रतिमं ज्वलन्तं दिशश्च सर्वाः प्रतपन्तमुग्रम्
तमोनुदं मेघ इवातिमात्रो धनञ्जयं छादयिष्यामि बाणैः
वैश्वानरं धूमकेतुं ज्वलन्तं तेजस्विनं नरवीरान्दहन्तम्
पर्जन्यभूतश्शरवर्षैर्यथाऽग्निं निर्वापयिष्यामि रणे हि पार्थम्
आशीविषं दृष्टिविषं सुघोरं सुतीक्ष्णदंष्ट्रं ज्वलनप्रभावम्
क्रोधात्प्रदीप्तानलवद्दहन्तं कुन्तीसुतं शमयिष्यामि भल्लैः
प्रवाहिणं बलवन्तं महौजसं प्रभञ्जनं मातरिश्वानमुग्रम्
युद्धे सहिष्ये हिमवानिवाचलः क्रोधोद्धतं पार्थममृष्यमाणम्
विशारदं रथमार्गेष्वसक्तं धुर्यं नित्यं समरेषु प्रवीरम्
लोके वरं सर्वधनुर्धराणां धनञ्जयं समरेऽहं हनिष्ये
अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम्
सर्वामिमां यः पृथिवीं सहेत तथाऽपि तेनाद्य रणे समेष्ये
यस्सर्वभूतानि सदैवतानि प्रस्थेऽजयत्खाण्डवे सव्यसाची
को जीवितं रक्षमाणो हि तेन युयुत्सतेऽस्त्रैर्मानुषैर् मामृतेऽन्यः
मानी दृढास्त्रः कृतहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी
तस्याहमद्यातिरथस्य कायाच्छिरो हरिष्यामि शितैः पृषत्कैः
योत्स्याम्यहं शल्य धनञ्जयेन मृत्युं पुरस्कृत्य रणे जयं वा
अन्यो हि नास्त्येकरथो न मत्तो युध्येत यः पाण्डवमिन्द्रकल्पम्
तस्याहवे पौरुषं पाण्डवस्य ब्रूयाः पृष्टस्समितौ क्षत्रियाणाम्
किं त्वं मूर्खः प्रहसन्मूढचेता आख्यासि मे पौरुषमर्जुनस्य
अत्यप्रियो यः पुरुषो नीचकर्मा क्षुद्रः क्षेप्ता क्षमिणामक्षमावान्
हन्यामहं त्वादृशानां शतानि क्षमामि त्वा क्षमिणां काल एषः
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि प्रधर्षयन् मूढवत्पापकर्मा
मय्यार्जवे जिह्ममतिर्यतस्त्वं मित्रद्रोही साप्तपदं हि मित्रम्
कालस्त्वयं प्रत्युपयाति दारुणो दुर्योधनो युद्धमुपागमद्यत्
तस्यार्थसिद्धिमभिकाङ्क्षमाणस्तमन्वेष्ये यत्र चैकान्तमस्ति
तथाऽप्यहं पाण्डववासुदेवौ योत्स्ये रणे मद्विधस्यैव कर्म
न प्राकृतस्सज्जते वै कदाचिद्यः प्रत्युदीयात्कृष्णधनञ्जयौ तौ
मित्रं मिधेर्नन्दतेः प्रीयतेर्वा सन्त्रायतेर्मन्यतेर्मोदतेर्वा
ब्रवीमि ते सर्वमिदं ममास्ति तच्चापि सर्वं मम वेत्ति राजा
प्रमीयते भजते यच्च मित्रं तच्चापि सर्वं मम दुर्योधनेऽस्ति
शतेश्शत्रुश्शासतेर्वा सदेर्वा शृणोतोर्वा श्वसतेस्स्यन्दतेर्वा
श्रमेश्शुचो बहुशस्सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम्
दुर्योधनार्थं तव चाप्रियार्थं यशोऽर्थमर्थार्थमपीश्वरार्थम्
तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्तः कर्म च पश्य मेऽद्य
शल्याद्याहं सङ्गतः पाण्डवेन मुच्येयं चेज्जीवमानः कथञ्चित्
शश्वन्मृत्योस्स्यामनाधृष्यरूपो व्यक्तं तस्मात्संयुगाद्विप्रमुक्तः
अस्त्रं ब्राह्मं मनसा यञ्जपन्वै यदाऽस्यते क्रोधितस् सव्यसाची
तदाऽपि मे नैव मुच्येत पार्थो न चेत्पतेद्विषमे मेऽद्य चक्रम्
अस्त्राणि विद्ध्वा समरे गतानि ब्राह्माणि दिव्यान्यथ मानुषाणि
आसादयिष्याम्यहमुग्रवीर्यं नागोत्तमं नाग इव प्रभिन्नः