सञ्जयः
मारिषातिरथेश्श्रुत्वा वचो युद्धाभिनन्दिनः
शल्योऽब्रवीत्कर्णमिदं निदर्शनमुदाहरन्
शल्यः
यथैव मत्तो मद्येन त्वं तथा पानपो यथा
तथाऽपि त्वां प्रमाद्यन्तं चिकित्सेयं सुहृत्तया
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे
श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन
नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे
येन मां त्वं महाबाहो हन्तुमिच्छस्यनागसम्
अवश्यं तु मया वाच्यं बुद्ध्वा तव हिताहितम्
विशेषतो रथस्थेन राज्ञश्चापि हितार्थिना
समं च विषमं चैव रथिनश्च बलाबलम्
श्रमः खेदश्च सततं हयानां रथिना सह
आयुधानां परीमाणं रुतं च मृगपक्षिणाम्
सारं चैवाप्यसारं च शल्यानां च प्रतिक्रिया
अस्त्रयोगं च युद्धं च निमित्तानि तथैव च
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना
अतस्त्वां कथये कर्ण दर्शयामि पुनः पुनः
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान्
यज्वा दानपतिश्शान्तस्स्वधर्मनिरतश्शुचिः
बहुपुत्रः प्रियापत्यस्सर्वभूतानुकम्पनः
राष्ट्रे धर्मप्रधानस्य राज्ञो वसति निर्भयः
पुत्राणां तस्य बालानां कुमाराणां च धीमताम्
काको बहूनामभवदुच्छिष्टकृतभोजनः
तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः
मांसोदनं दधि क्षीरं पायसं सर्पिषा सह
तथोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः
सदृशान्पक्षिणो मत्तश्श्रेयसश्चावमन्यते
अथ हंसास्समुद्रान्ते प्रजग्मुरतिपातिनः
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः
कुमारकास्ततो दृष्ट्वा हंसान् काकमथाब्रुवन्
वैश्यपुत्राः
भवानेव विशिष्टोऽसि पतत्रिभ्यो विहङ्गम
एतेऽतिपातिनः पश्य विहङ्गान्वियदाश्रितान्
एभिस्त्वमपि शक्तो हि कस्मान्न पतितं त्वया
शल्यः
प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः
तद्वचस्सत्यमित्येव मौर्ख्याद्दर्पाच्च जज्ञिवान्
तान्सोऽतिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति
उच्छिष्टदर्पितः काको बहूनामेकपातिनाम्
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम्
तमाह्वयत दुर्बुद्धिः पताव इति पक्षिणम्
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः
भाषतो बहु काकस्य बालिश्यात्पततां वराः
इदमूचुस्तु चक्राङ्गा वचः काकं विहङ्गमाः
हंसाः
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः
कथं नु बलिनं हंसं समाह्वयसि दुर्मते
काको भूत्वा निपतने चक्राङ्गान् दूरपातिनः
कथं त्वं पतसे काक सहास्माभिर्प्रचक्ष्व तत्
शल्यः
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः
प्राहोत्तरं वचः काकः कत्थनस्सोऽतिलाघवात्
काकः
शतमेकं च पातानां पतिताऽस्मि न संशयः
शतयोजनमेकैकं विचित्रं विविधं तथा
उड्डीनमवडीनं च प्रडीनं डीनमेव च
निड्डीनमथ सण्डीनं तिर्यश्चीनगतानि च
आडीनं परडीनं च पराडीनं सुडीनकम्
अतिडीनं महाडीनं विडीनमुपडीनकम्
प्रतिडीनं निडीनं चाप्यनुडीनं कुडीनकम्
गतागतप्रतिगता बह्वीश्चैव कुडीनकाः
कर्ताऽस्मि मिषतां वोऽद्य नूनं द्रक्ष्यथ मे बलम्
तद्धावध्वं विनिश्चित्य कुरुध्वं सहिताः खगाः
पातैरेतैस्सह मया पतितुं खे निराश्रये
शल्यः
एवमुक्ते तु काकेन तेषामेको विहङ्गमः
प्रहसन्नब्रवीत्काकमिदं राधेय तच्छृणु
हंसः
शतमेकं च पातानां काक त्वं पतिता ध्रुवम्
एकमेव तु सम्पातं विदुस्सर्वे विहङ्गमाः
एतेनाहं पते काक नान्यं जानामि कञ्चन
काकः
पत त्वमपि तत्राशु येन पातेन मन्यसे
शल्यः
अथ काकं प्रजहसुर्ये तत्रासन्समागताः
कथमेकेन पातेन जयेम शतपातिनम्
एकेन वायस त्वेनं पातेनाभिभविष्यति
शल्यः
हंसश्चोत्पतितः काको बलवानाशुविक्रमः
प्रपेततुस्तथेत्युक्त्वा तावुभौ हंसवायसौ
उपर्युपरि वेगेन समुद्रं मकरालयम्
हंसस्त्वेकेन पातेन काकः पातशतेन च
स्पर्धिनौ महितौ तूर्णं खमास्थाय तरस्विनौ
हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे
पूर्वमेव तु वै काकस्तूर्णं गन्तुं प्रचक्रमे
नात्यहीयत काकश्च मुहूर्तमिव सूतज
काकोऽथ हंसं चापल्याच्छीघ्रतां प्रतिदर्शयन्
वेगेनातीत्य तरसा पुनरेति मुहुर्मुहुः
तुण्डेनाभ्यहनच्चैनं कुर्वन्नामापसव्यतः
रोरूयन्निति चाप्येनं समाह्वयति वै मुहुः
विसिस्मापयिषुः पातैर्दर्शयन्नात्मनः क्रियाम्
अथ काकस्य चित्राणि पतितानीतराणि च
दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैस्स्वरैः
हंसाश्चापहसन्ति स्म प्रवदन्तोऽप्रियाणि च
कुर्वाणा विविधान्रावानिच्छन्तो जयमात्मनः
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च
वृक्षाग्रेभ्यस्स्थलेभ्यश्च निपतन्त्युत्पतन्ति च
अवमत्य च हंसं तमिदं काकोऽब्रवीद्वचः
काकः
योऽसावुत्पतितो हंसस्सोऽसावेव प्रहीयते
शल्यः
अथ हंसस्तु तच्छ्रुत्वा भाषितं पततांवरः
विगाह्य हंसो विक्षोभ्य प्रापतत्पश्चिमां दिशम्
उपर्युपरि वेगेन सागरं मकरालयम्
बहुसत्वसमाकीर्णं वीचीभिर्भीमदर्शनम्
अथाचिरेण राधेय काको वेगादहीयत
ततोऽतीव परिश्रान्तः कथञ्चिद्धंसमन्वगात्
भीश्चैनमाविशत्तीव्रं काकं कर्ण विचेतसम्
द्वीपान्द्रुमान्वितान्पश्यन्विश्रमार्थं श्रमातुरः
निपतेयं क्कनु श्रान्त इति तस्मिञ्जलार्णवे
अविषह्यस्समुद्रो हि बहुसत्वगणालयः
महान्भूतशतोद्भासी नभसस्तु विशिष्यते
गाम्भीर्याद्धि समुद्रस्य न विशेषं कुलाधम
दिशश्च नाम्भसां कर्ण समुद्रस्था विदुर्जनाः
विपश्चितोप्यपारत्वात्किं पुनः कर्ण वायसः
अथ हंसोऽप्यतिक्रामन्मुहूर्तमिव दूरतः
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत
शनकैः परिहीनं तं परिश्रान्तमचेतसम्
अवेक्षमाणस्तं काकं प्रत्यागम्य हसन्निव
तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा
हीयमानमथो दृष्ट्वा हंसः प्राह यथार्थवत्
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम्
बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः
पतस्यव्याहरन्खेदं ततो गुह्यं प्रभाषसे
किं नाम पतितं काक यत्त्वं पतसि साम्प्रतम्
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः
प्रब्रूहि कतमोऽयं ते पातो वर्तति वायस
एह्येहि काक शीघ्रं त्वमेष त्वां परिपालये
शल्यः
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा
काको दृढं परिश्रान्तस्सहसा निपपात ह
सागराम्भसि तं दृष्ट्वा पतन्तं दीनचेतसम्
म्रियमाणमिदं वाक्यं हंसः काकमुवाच ह
हंसः
शतमेकं च पातानां पताम्यहमिति स्म ह
श्लाघन्नात्मानमद्य त्वं काक भाषितवानसि
स त्वमेकशतं पातं पतन्नभ्यधिको मया
कथमेवं परिश्रान्तः पतितोऽसि महार्णवे
शल्यः
प्रत्युवाच ततः काकस्सीदमान इदं वचः
उपरिस्थं तदा हंसं प्रसमीक्ष्य प्रसादयन्
काकः
उच्छिष्टान्नेन पुष्टोऽहं दर्पोत्सिक्तः कुसत्त्वतः
सुपर्ण इव चात्मानं ज्ञातवान्बुद्धिलाघवात्
शरणं त्वां प्रपन्नोऽहमुदकान्तमवाप्नुयाम्
हंसेदानीं परिश्रान्तमापदो मां समुद्धर
यदि नाम पुनर्जीवन्गच्छेयं स्वं निवेशनम्
नैनं पुनर्हीनमपि क्षेप्ताऽहं खे विचारिणम्
शल्यः
तमेवं करुणं दीनं विलपन्तमचेतसम्
काक काकेति वाश्यन्तं निमज्जन्तं महार्णवे
कृपयाऽभिपरीतो हि कृपां चक्रे दुरात्मनि
अथ तं पततं दीनं जलक्लिन्नमचेतनम्
पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयत्तदा
स हंसः पृष्ठमारोप्य काकं कर्ण विचेतसम्
अविस्मयस्तदा कर्ण पुनरेनं समानयत्
तमेव देशं तरसा स्पर्धया पेततुर्यतः
उत्सृजंश्चाब्रवीन्नैवं पुनः कार्यं त्वयेति हि
स्थाप्य चैनं पुनर्द्वीपे समाश्वस्य च विक्लवम्
गतो यथेप्सितं देशं हंसो मन इवाशुगः
एवमुच्छिष्टपुष्टस्स काको हंसपराजितः
बलं वीर्यं मदं कर्ण त्यक्त्वा क्षान्तिमुपागत्
उच्छिष्टभोजनः काको यथा वैश्यकुले पुरा
एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः
सदृशाञ्श्रेयसश्चापि सर्वान्कर्णावमन्यसे
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः
विराटनगरे पार्थमेकं किं नावधीस्तदा
यत्र व्यस्तास्समस्ताश्च निर्जितास्स्थ किरीटिना
सृगाल इव सिंहेन क्व ते वीर्यं तदा गतम्
भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना
पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः
तथा द्वैतवने कर्ण गन्धर्वैस्समभिद्रुतान्
कुरून्सदारानुत्सृज्य त्वमेवाग्रे पलायथाः
हत्वा जित्वा च गन्धर्वाश्चित्रसेनमुखान्रणे
कर्ण दुर्योधनं पार्थस्सभ्रातृकममोचयत्
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च
कथितः कर्ण रामेण सभायां कुरुसंसदि
सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः
अवध्यौ वदतोः कृष्णौ सन्निधाने महीक्षिताम्
कियन्तं तत्र वक्ष्यामि येन येन धनञ्जयः
त्वत्तोऽतिरिक्तो भूतेभ्यस्सर्वेभ्यो ब्राह्मणो यथा
द्रक्ष्यसि त्वमिदानीं तौ प्रधाने स्यन्दने स्थितौ
पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम्
यथाऽश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः
त्वं शीघ्रमेहि वार्ष्णेयं पाण्डवं च धनञ्जयम्
देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ
यथाऽशिक्षत चक्राङ्गं वायसो बुद्धिमास्थितः
तद्वच्छिक्षस्व वार्ष्णेयं पाण्डवं च धनञ्जयम्
सूर्याचन्द्रमसौ यद्वत्तद्वदर्जुनपाण्डवौ
प्रकाशेनाद्य विख्यातौ त्वं तु खद्योतवन्नृषु
तौ मावमंस्था मौर्ख्यात्त्वं खद्योत इव रोचनौ
एवं विद्वन्मावमंस्थास्सूतपुत्राच्युतार्जुनौ
नरसिंहौ नरश्वा त्वं जोषमास्स्व विकत्थनात्