सञ्जयः
अधिक्षिप्तस्तु राधेयश्शल्येनामिततेजसा
प्रत्यब्रवीन्महाराज वाक्शल्यमवधारयन्
कर्णः
गुणान्गुणवतां शल्य गुणवान्वेत्ति नागुणः
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यसि गुणागुणान्
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुश्शरान्
अहं शल्याभिजानामि न त्वं जानासि तत्तथा
एवमेवात्मनो वीर्यं महद्वैरं च पाण्डवैः
पाण्डवस्याभिजानामि विक्रमं च महात्मनः
तथा कृष्णस्य माहात्म्यमृषभस्य महात्मनः
यथाऽहं शल्य जानामि मूढ शल्य न जानसि
अहमेवात्मना वीर्यं महद्वीर्यं व पाण्डवे
जानंस्तावाह्वये युद्धे शल्य नाग्निं पतङ्गवत्
अस्ति चायमिषुश्शल्य सुमुखो रक्तभोजनः
एकस्तूणीशयः पत्री सुधौतस्समलङ्कृतः
शेते चन्दनचूर्णेन पूजितो बहुलास्समाः
आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा
एकरूपो महानुग्रस्तनुत्रास्थिविदारणः
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम्
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते
कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे
तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ
योत्स्ये परमसंरब्धौ तत्कर्तुं सदृशं मम
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः
उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति
तावेतौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ
मामेकमभिसंयुक्तौ सुजातं पश्य शल्य मे
पितृष्वसामातुलजौ भ्रातरावपराजितौ
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ
भीरूणां त्रासजननौ शल्य हर्षकरौ मम
त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः
भयावदीर्णस्सन्त्रासादबद्धं बहु भाषसे
संस्तौषि तौ तु केनापि हेतुना त्वं कुदेशज
तौ हत्वा समरे हन्ता त्वामप्यद्य सबान्धवम्
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन
सुहृद्रूपो रिपुः किं मां कृष्णाभ्यां भीषयिष्यसि
तौ वा मामद्य हन्तारौ हनिष्ये तौ न संशयः
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम्
वासुदेवसहस्रं वा फल्गुनानां शतानि वा
अहमेको हनिष्यामि जोषमास्स्व कुदेशज
स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः
या गाथास्सम्प्रगायन्ति कुर्वन्तोऽध्ययनं यथा
ता गाथाश्श्रुणु मे शल्य मद्रकेषु दुरात्मसु
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ
श्रुत्वा चैकमना मूर्ख मम वा ब्रूहि चोत्तरम्
मित्रध्रुङ्भद्रको नित्यं यो नो द्वेष्टि स मद्रकः
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे
दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः
यच्चान्यदपि दौरात्म्यं मद्रकेष्विति नश्श्रुतम्
पिता माता च पुत्राश्च श्वश्रूश्वशुरमातुलाः
भगिनी दुहिता भ्राता नप्ता चान्ये च बान्धवाः
वयस्याभ्यागताश्चान्ये दासीदासाश्च सङ्गताः
पुम्भिर्विमिश्रिता नार्यो ज्ञाताज्ञातास्स्वयेच्छया
येषां गृहेष्वशिष्टानां सक्तुमद्याशिनां सदा
पीत्वा शीधु सगोमांसं क्रन्दन्ति च हसन्ति च
गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः
कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत्
मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु
नापि वैरं न सौहार्दं मद्रकेषु समाचरेत्
मद्रके सङ्गतं नास्ति मद्रको हि सदा मलः
मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च
राजयाजकयाज्याभ्यां यथा दत्तं हविर्नशेत्
शूद्रसंस्कारको विप्रो यथा याति पराभवम्
यथा ब्रह्मद्विषोऽत्यन्तं गच्छन्तीह पराभवम्
तथैव सङ्गतं चापि मद्रकेषु दुरात्मसु
बालेष्वपि सदा न स्म धनं वृश्चिकतो विषम्
आथर्वणेन मन्त्रेण सर्वशान्तिः कृता मया
इति वृश्चिकदष्टस्य नानाविषहतस्य च
कुर्वन्ति भेषजं प्राज्ञास्सद्यस्तच्चापि दृश्यते
भूयस्त्वं श्रुणु मे वाचो ब्रूहि चात्रोत्तरं वचः
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो मद्यविमोहिताः
मैथुनेऽसङ्गतायाश्च तथा कामकराश्च ह
तासां पुत्रः कथं धर्मं मद्रको बोद्धुमर्हति
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रा यथैडकाः
तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि
सौवीरकं याच्यमाना माद्रिका कर्षति स्फिचौ
अदातुकामा वचनमिदमाह सुदारुणम्
न मां सौवीरकं कश्चिद्याचेत दयितं मम
पुत्रं दद्यां पतिं दद्यां न तद्दद्यां सुवीरकम्
गौर्यो बृहत्यो निर्ह्रीका माद्रिकाः कम्पलावृताः
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम
प्रमेहित्वा स्फिचौ भूमौ घर्षन्त्यो हीनशोधनाः
स्पृष्ट्वा वाऽद्भिर्न मृद्भिश्च नित्योच्छिष्टा भवन्ति हि
एवमादि मयाऽन्यैर्वा शक्यं वक्तुं भवेद्बहु
आकेशादानखाग्राच्च वक्तव्येषु कुवर्त्मसु
मद्रकास्सिन्धुसौवीरा धर्मं विद्युः कथं त्विह
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः
एष मुख्यतमो धर्मः क्षत्रियस्येति नश्श्रुतम्
यदाजौ निहतश्शेते सद्भिस्समभिपूजितः
आयुधानां साम्पराये यन्मुञ्चेयमहं तनुम्
य एष प्रथमः कल्पस्स एव स्वर्गगामिनाम्
सोऽहं प्रियस्सखा चैव धार्तराष्ट्रस्य धीमतः
तदर्था हि मम प्राणा यच्च मे विद्यते वसु
व्यक्तं त्वमस्युपहितः पाण्डवैः पापदेशज
तथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे
कामं खलु न शक्योऽहं त्वद्विधानां शतैरपि
सङ्ग्रामाद्विमुखीकर्तुं सद्धर्म इव नास्तिकैः
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च
नाहं भीषयितुं शक्यः क्षत्रधर्मे व्यवस्थितः
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्
या गतिर्गुरुणा प्रोक्ता प्रेम्णा रामेण तां स्मरे
स्वेषां त्राणार्थमुद्युक्तं वधार्थं द्विषतामपि
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम्
न तं भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः
एवं विद्वानास्स्व जोषं किं त्रासाद्बहु भाषसे
मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधिप
मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यति
शिरस्ते पातयिष्यासि गदया वज्रकल्पया
श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज
कर्णं वा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ
एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते
अब्रवीन्मद्रराजानं याहि याहीति सम्भ्रमात्