सञ्जयः
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः
शल्यः
यदा वै त्वा फल्गुनबाहुवेगाज्ज्याचोदिता वेगवन्तोऽग्निकल्पाः
अन्वेतारः कङ्कपत्राश्शिताग्रास्त्यक्ष्यत्येषा त्वां तदा कर्ण बुद्धिः
यदा दिव्यं धनुरादाय पार्थः प्रतापयन्पृतनां सव्यसाची
त्वां मर्दयिष्यत्यसुखैः पृषत्कैस्तदापृच्छां त्यक्ष्यसे पाण्डवस्य
बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम्
तद्वन्मोहाद्द्योतमानं रथस्थं जेतुं पार्थं काङ्क्षसे सूतपुत्र
खन्यादसिं तीक्ष्णधारं यथाऽज्ञस्सुतेजनं निहितं वै पृथिव्याम्
तथा खनस्यद्य शितान्पृषत्कान्यत्प्रार्थयस्यर्जुनेनेह युद्धम्
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं सर्वाणि गात्राणि विकर्षसि त्वम्
सुतीक्ष्णशस्त्रोपमकर्मणेह युयुत्ससे फल्गुनेनाद्य कर्ण
क्रुद्धं सिंहं केसरिणं बृहन्तं बालो भूत्वा क्षुद्रमृगस्तरस्वी
समाह्वयेद्धृष्टमुपेत्य योद्धुं तथा त्वमद्याह्वयसे ह पार्थम्
मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव
वने सृगालः पिशिताभितृप्तः पार्थं समासाद्य विनङ्क्ष्यसि त्वम्
ईषादन्तं महानागं प्रभिन्नकरटामुखम्
शशो भूत्वाऽऽह्वयस्यद्य युद्धे कर्ण धनञ्जयम्
सृगालो हि वने कर्ण शशैःपरिवृतो वसन्
मन्यते सिंहमात्मानं यावत् सिंहं न पश्यति
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि
अपश्यञ्शत्रुदमनं नरसिंहं रणेऽर्जुनम्
बिलस्थं कृष्णसर्पं त्वं सम्बोधयितुमिच्छसि
महाविषं कर्ण मोहाद्योऽद्याह्वयसि फल्गुनम्
सिंहं केसरिणं क्रुद्धमभिक्रम्याभिनर्दसे
सृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम्
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम्
लट्वेवाह्वयसे पार्थं तथा कर्ण धनञ्जयम्
सर्वाम्भसां निधिं भीममूर्तिमन्तं झषाकुलम्
चन्द्रोदयेन वर्धन्तमप्लवस्त्वं तितीर्षसि
यथा वत्सतरो भूत्वा जातस्कन्धेन शुष्मिणा।
युद्धमिच्छेद्रोपतिना तथेच्छसि किरीटिना
महामेघं महाघोषं दर्दुरः प्रतिनर्दसे
कामतोयप्रदं काले नरपर्जन्यमर्जुनम्
यथा च श्वा गृहस्थस्तु व्याघ्रं वनगतं भषेत्
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम्
व्याघ्रं त्वं मन्यसे त्मानं यावत्कृष्णौ न पश्यसि।
समास्थितावेकरथे सूर्याचन्द्रमसाविव
यावद्गाण्डीवघोषं त्वं न शृणोषि महामृधे
तावदेव त्वया कर्ण वक्तुं शक्यं यथेष्टतः
रथशङ्खधनुश्शब्दैर्नादयन्तं दिशो दश
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि
नित्यमेव सृगालस्त्वं नित्यं सिंहः धनञ्जयः
वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे
यथाऽऽखुस्स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले
यथा सृगालस्सिंहश्च यथा च शशकुञ्जरौ
यथाऽनृतं च सत्यं च यथा वाऽपि विषामृते
तथा त्वमपि पार्थश्च प्रख्यातावात्मकीर्तिभिः