सञ्जयः
प्रयत्नेन तदा कर्णो हर्षयंस्तव वाहिनीम्
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत
कर्णः
यो ममाद्य महात्मानं पाण्डवं दर्शयेद्युधि
तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति
अथवा शकटं पूर्णं रत्नानां षड्गवायुतम्
दुरि क्षमैर्बृहद्भिश्च गोभिर्युक्तमकालिकम्
न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्धनञ्जयम्
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
ददाम्यास्मै गवामेकं शतं द्रोणदुहामहम्
अथवाऽस्मै पुनर्दद्यां श्वेतमश्वतरीरथम्
एकश्श्यामकर्णीभिर्यो मे ब्रूयाद्धनञ्जयम्
अथवाऽस्मै पुनर्दद्यां वरमन्यं यथेप्सितम्
युक्तं हयवरैर्जैत्रं काम्भोजैरभिनिष्ठितम्
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यमस्मै वरं दद्यां सौवर्णं हस्तिषङ्गवम्
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यमस्मै वरं दद्यां श्वेतान्पञ्चशतं हयान्
अथवाऽस्मै विचित्राङ्गान् विचित्रमणिमण्डितान्
रथाञ्जात्यैर्हयैर्युक्तान्दद्यामष्टादशैव तान्
अन्यमस्मै वरं दद्यां धुर्यान्दान्तांश्चतुश्शतम्
रोहिणी रूपसम्पन्ना हैमशृङ्गीश्चतुश्शतम्
दद्यामस्मै पयस्विन्यो यो मे ब्रूयाद्धनञ्जयम्
रथं च शुभ्रं सौवर्णं दद्यामस्मै स्वलङ्कृतम्
हयानष्टौ च काम्भोजान् यो मे ब्रूयाद्धनञ्जयम्
ददाम्यास्मै गवामेकं शतं द्रोणदुहामहम्
अथवाऽस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम्
श्यामानां निष्ककण्ठीनां यो मे ब्रूयाद्धनञ्जयम्
अन्यमस्मै वरं दद्यां कुञ्जरान् दश शोभनान्
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः
अन्यमस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश
प्रष्टसीमान् सस्याढ्यान् प्रत्यासन्नवनोदकान्
आप्तोदयान्पशुमत उपभोग्याञ्जनायुतान्
दासीनां निष्ककण्ठीनां मागधीनां शतं तथा
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम्
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
दद्यां वर्णस्य वर्णस्य हयाग्र्याणां शतं शतम्
धुर्याणां साधु दान्तानां शिक्षितानां नरोत्तमैः
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यमस्मै वरं दद्यां यमसौ कामयेत्स्वयम्
पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ
सञ्जयः
एता वाचस्सुबहुशः कर्ण उच्चारयन्युधि
दध्मौ सागरसम्भूतं सस्वनं शङ्खमुत्तमम्
ता वाचस्सूतपुत्रस्य तथा युक्ता निशम्य तु
दुर्योधनो महाराज संहृष्टस्सानुजोऽभवत्
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः
सिंहनादस्सवादित्रः कुञ्चराणां च निस्स्वनः
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ
योधानां च प्रहृष्टानां तदा समभवत्स्वनः
तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम्
विकत्थमानं च तदा राधेयमरिकर्शनम्
मद्रराजः प्रहस्यैनं वचनं प्रत्यभाषत
शल्यः
मा सूतपुत्र मन्येथास्सौवर्णं हस्तिषङ्गवम्
प्रयच्छसि मुधैव त्वं द्रक्ष्यस्यद्य धनञ्जयम्
बलेन मत्तस्त्यजसि वसु वैश्रवणो यथा
अयत्नेनैव राधेय द्रक्षस्यद्य धनञ्जयम्
पुरा सृजसि यच्चापि वित्तं बहु च मूढवत्
अपात्रदानाद्ये दोषास्तान्मोहान्नावबुध्यसे
यत्प्रवेदयसे वित्तं बहु तेन खलु त्वया
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्धन्तुं मृषैव तत्
न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते
ये त्वां निवारयन्त्यद्य प्रपतन्तं हुताशने
कार्याकार्यं न जानीषे कालपक्कोऽस्यसंशयम्
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्
गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम्
सहितस्सर्वयोधैस्तु व्यूढानीकस्सुरक्षितः
धनञ्जयेन युध्यस्व जयं चेत्प्राप्तुमिच्छसि
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया
श्रद्धस्वेदं मया प्रोक्तं यदि तेऽस्ति जिजीविषा
कर्णः
स्ववीर्येणाहमाश्वस्तः प्रार्थयाम्यर्जुनं रणे
त्वं तु मित्रमुखश्शत्रुर्मां भीषयितुमिच्छसि
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन