दुर्योधनः
अकृतं द्रोणभीष्माभ्यामाहवे कर्म दुष्करम्
कुरुष्वातिरथे वीर मिषतां सर्वधन्विनाम्
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ
अर्जुनं भीमसेनञ्च निहन्ताराविति ध्रुवम्
ताभ्यां यन्न कृतं वीर कर्म कर्ण महाहवे
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम्
भीमसेनञ्च कौन्तेयं माद्रीपुत्रौ यमावपि
जयश्च तेऽस्तु भद्रं ते प्रयाहि त्वं नरर्षभ
पाण्डवेयानि सर्वाणि कुरु सैन्यानि भस्मसात्
सञ्जयः
ततस्तूर्यसहस्राणि भेरीणामयुतानि च
वाद्यमानान्यशोभन्त मेघशब्दो यथा दिवि
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः
अभ्यभाषत राधेयश्शल्यं युद्धविशारदः
कर्णः
चोदयाश्वान्महाष्वास यावद्धन्मि धनञ्जयम्
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम्
अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च
सञ्जयः
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान्
पाण्डवानां विनाशाय दुर्योधनजयाय च
एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत्
शल्यः
कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान्
अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान्
अपि सञ्जनयेयुस्ते भयं साक्षाच्छतक्रतोः
यदा द्रष्टासि निर्घोषं विस्फूर्जितमिवाशनेः
राधेय पार्थधनुषस्तदा नैवं वदिष्यसि
यदा द्रष्टासि भीमेन कुञ्जरानीकमाहवे
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि
यदा ज्येष्ठं पाण्डवेयं माद्रीपुत्रौ च पाण्डवौ
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवायसैः
द्रष्टासि लघुचित्रास्त्रैर्निघ्नतोऽरीन् सहस्रशः
पार्थिवानपि चान्यांस्त्वं तदा नैवं वदिष्यसि
सञ्जयः
अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम्
द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर
दृष्ट्वा कर्णं महावीर्यं युयुत्सुं समवस्थितम्
चुक्रुशुः कुरवस्सर्वे हृष्टरूपाः परन्तपाः
ततो दुन्दुभिघोषेण शङ्खाना निस्वनेन च
बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम्
निर्ययुस्तावकास्सर्वे मृत्युं कृत्वा निवर्तनम्
प्रयाते च ततः कर्णे रथेषु मुदितेषु च
चचाल च मही सर्वा ररास च सुविस्वरम्
निस्सरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः
उल्कापाताश्च सञ्जज्ञुर्दिग्दाहाश्च सुदारुणाः
तथाऽशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवम्
मृगपक्षिगणाश्चैव पृतनां बहुशस्तव
अपसव्यं ततश्चक्रुर्वेदयन्तो महद्भयम्
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम्
जज्वलुश्चापि शस्त्राणि ध्वजाश्चास्य चकम्पिरे
अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते
एते चान्ये च बहव उत्पातास्तत्र मारिष
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः
न च तान्गणयामासुस्सर्वे ते दैवमोहिताः
प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि
शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम्
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः
ततो रथस्थः परवीरहन्ता भीष्मद्रोणावात्तवीर्यौ समीक्ष्य
समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा
स शल्यमाभाष्य जगाद वाक्यं पार्थस्य दृष्ट्वा़ऽप्रतिमं च कर्म
मानेन दर्पेण च दह्यमाणः क्रोधेन दीप्यन्निव निश्श्वसित्वा
कर्णः
नाहं महेन्द्रादपि वज्रपाणेः क्रुद्धाद्बिभेम्यात्तधनू रथस्थः
दृष्ट्वा़ऽपि भीष्मप्रमुखाञ्शयानान्नत्वेव मां सा स्थिरता जहाति
महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्वनागारिवरप्रमाथिनौ
अवध्यकल्पौ निहतौ यदा परैस्ततोऽपि मे नास्ति रणेऽद्य साध्वसम्
समीक्ष्य सङ्ख्येऽतिबलान्नराधिपैर्नराश्वमातङ्गरथान्परैर्हतान्
कथं नु सर्वानहितान्रणेऽवधीन्महास्त्रविद्ब्राह्मणपुङ्गवो गुरुः
स संस्मरन्द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत
न वो मदन्यः प्रसहेद्रणेऽर्जुनं समागतं मृत्युमिवोग्ररूपिणम्
शिक्षा प्रदानञ्च बलं धृतिश्च द्रोणे महास्त्राणि च सन्नतिश्च
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये
नेह ध्रुवं किञ्चिदपि प्रचिन्तयन्वदामि लोके कर्मणो नित्ययोगात्
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते
न नूनमस्त्राणि बलं पराक्रमः क्रियास्सुनीताः परमायुधानि च
अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युद्धे निहतः परैर्गुरुः
हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम्
नये बृहस्पत्युशनस्समं सदा न चैनमस्त्रं निजघान दुस्सहम्
असम्प्रहृष्टे रुदितस्त्रीकुमारे पराजिते पौरुषे धार्तराष्ट्रे
कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम्
यत्रैव राजा पाण्डवस्सत्यसन्धो व्यवस्थितौ भीमसेनार्जुनौ च
स वासुदेवस्सात्यकिस्सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः
तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च
तान्वा हनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय
न त्वेवाहं न गमिष्यामि मध्यं तेषां शूराणामिति शल्याद्य विद्धि
मित्रद्रोहो मर्षणीयो न चाऽहं त्यक्त्वा प्राणाननुयास्यामि द्रोणम्
प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य
अतो विद्वन्नभियोत्स्यामि पार्थं दिष्टं न शक्यं व्यतिवर्तितुं हि
कल्याणवृत्तस्सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत्
तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च
वैयाघ्रचर्माणमकूजिताक्षं हैमं त्रिकोणं रजतत्रिवेणुम्
रथप्रबर्हं तुरगप्रवीरैर्युक्तं प्रादान्मह्यमिमं हि रामः
धनूंषि चित्राणि निरीक्ष्य शल्य गदां घोरां सायकांश्चोग्ररूपान्
असींश्च दीप्तान् परमायुधांश्च शङ्खं च शुभ्रं स्वनवन्तमुग्रम्
अस्त्राणि दिव्यान्यददान्महात्मा पताकिनं वज्रनिपातनिस्स्वनम्
सिताश्वयुक्तं शुभवेणुशोभितं रथप्रबर्हं पुरुषप्रबर्हः
इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात्
तं चेन्मृत्युस्सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तस्समरे पाण्डुपुत्रम्
तं वा हनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय
यमवरुणकुबेरवासवा यदि युगपत्सगणा महाहवे
जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम्
सञ्जयः
इति रणरभसस्य कत्थतस्तदुपनिशम्य वचस्स मद्रराट्
अपहसदवमत्य वीर्यवान्प्रतिषिषिधे च जगाद चोत्तरम्
शल्यः
विरम विरम कर्ण कत्थनादतिरभसोऽप्यति चाप्ययुक्तवाक्
क्व च हि नरवरो धनञ्जयः क्व पुनरिह त्वमहो नराधमः
यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम्
प्रसभमतिविलोड्य को हरेत्पुरुषवरावरजामृतेऽर्जुनात्
त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि
मृगवधकलहेऽर्जुनादृते सुरपतिवीर्यसमात्प्रभावतः
असुरसुरनरोरगान्मृगान्गरुडपिशाचसयक्षराक्षसान्
इषुभिरजयदग्निगौरवात्स्वभिलषितं च हविर्ददौ जयः
स्मरसि ननु यदा परैर्हृतस्सहधृतराष्ट्रसुतो विमोक्षितः
अधिरथज नरोत्तमैर्युधामरुषु बहून्विनिहत्य तानरीन्
प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः
स्मरसि ननु यदा प्रमोक्षिताः खगमगणानतिपात्य पाण्डवैः
प्रमुदितबलवाहनाः पुनः कुरुवृषभेण जितास्तु गोग्रहे
सगुरुगुरुसुतास्सभीष्मकाः किमु न जितस्स तदा त्वयाऽर्जुनः
इदमपरमुपस्थितं पुनस्तव निधनाय नियुद्धमद्य वै
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज
सञ्जयः
इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम्
भृशमभिरुषितः परन्तपः कुरुपृतनापतिराह मद्रपम्
कर्णः
भवतु भवतु किं विकत्थसे ननु मम तस्य नियुद्धमद्य वै
यदि जयति स मामिहाहवे तत इदमस्तु सुकत्थितं तव
सञ्जयः
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान्
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया
स रथः प्रययौ शत्रून्निघ्नतश्शल्यसारथिः
निघ्नन्नमित्रान्समरे तमोघ्नस्सविता यथा
ततः प्रायाद्द्युतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः
आलोकयन् ध्वजिनीं पाण्डवानां धनञ्जयं त्वरया पर्यपृच्छत्