दुर्योधनः
एवं स भगवान्देवो ब्रह्मा लोकपितामहः
सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथे
रथिनोऽभ्यधिको वीरः कर्तव्यो रथसारथिः
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि
सञ्जयः
ततश्शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्
दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तथा
शल्यः
एवं चेन्मन्यसे राजन्गान्धरे प्रियदर्शनम्
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम्
यस्मिंस्तु भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव
यद्यत् कर्णमहं ब्रूयां हितकामः प्रियाप्रियम्
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः
कर्णः
ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः
तथा नित्यं हिते युक्तो मद्रराज भवस्व मे
शल्यः
आत्मनिन्दाच पूजा च परनिन्दाऽऽत्मनस्तवः
अनाचरितमार्याणां वृत्तमेतच्चतुष्टयम्
यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमिदं तव
आत्मनस्स्तवसंयुक्तं तन्निबोध यथातथम्
अहं शक्रस्य सारथ्यं मद्रराजः करिष्यति
अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सितैः
ततस्मात्पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ
वाहयिष्यामि तुरगान्विज्वरो भव सूतज
दुर्योधनः
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति
कृष्णादभ्यधिको यन्ता वासवस्येव मातलिः
यथा हरिहयैर्युक्तं रथं गृह्णाति मातलिः
शल्यस्तथा तवाद्याऽयं संयन्ता रथवाजिनाम्
योधे त्वयि रथस्थे च मद्रराजे महारथे
रथश्रेष्ठं ध्रुवं सङ्क्षेपार्थो नाभिभविष्यति
सञ्जयः
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम्
उवाच राजन् सङ्ग्रामे प्रश्रितो मधुरं वचः
दुर्योधनः
कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान्
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम्
सञ्जयः
इत्युक्तो रथमास्थाय तथेति प्राह भारत
शल्येऽभ्युपगते कर्णस्सारथ्याय ततोऽब्रवीत्
स्वसूतं स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन्
ततो जैत्रं रथवरं गन्धर्वनगरोत्तमम्
विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत्
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्
समीपस्थं मद्रराजं समारोहेत्यथाब्रवीत्
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत्
आरुरोह महातेजाश्शल्यस्सिंह इवाचलम्
ततश्शल्यास्थितं राजन्कर्णस्स्वरथमुत्तमम्
अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः
तावेकरथमारूढावादित्याग्निसमद्युती
व्यभ्राजेतां तदा सङ्ख्ये सूर्याग्नी सहितौ दिवि
संस्तूयमानौ तौ वीरौ तदाऽऽस्तां द्युतिमत्तरौ
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानौ यथाऽध्वरे
स शल्यसङ्गृहीताश्वे रथे कर्णस्स्थितो बभौ
धनुर्विष्फारयन् घोरं परिवेषीव भास्करः
आस्थितस्सरथश्रेष्ठं कर्णश्शरगभस्तिमान्
प्रबभौ पुरुषव्याघ्रौ मन्दरस्य इवांशुमान्
तं प्रयान्तं महाबाहुं युद्धायामिततेजसम्
दुर्योधनोऽथ राधेयमिदं चवनमब्रवीत्