दुर्योधनः
तमब्रुवन्देवगणा यं भवान्सन्नियोक्ष्यते
स भविष्यति देवेश सारथिस्ते न संशयः
तानब्रवीन्महादेवो मत्तश्श्रेष्ठतरो हि यः
तं सारथिं कुरुध्वं वै स्वयं सञ्चिन्त्य मा चिरम्
एतच्छ्रुत्वा वचो देवास्सर्वे गत्वा पितामहम्
प्रणिपत्योचुरेकाग्राः प्रसाद्यैनं महर्षिभिः
देवाः
त्वया यत्कथितं देव त्रिदशारिनिबर्हणे
तथा तत्कृतमस्माभिः प्रसन्नश्च वृषध्वजः
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः
सारथिं च न जानीमः कस्स्यात्तस्मिन्रथोत्तमे
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तमः
सफलां तां गिरं देव कर्तुमर्हसि नो विभो
एवमस्मासु हि पुरा भगवन्नुक्तवानसि
एवं कर्तास्मि भवतामिति तत्कर्तुमर्हसि
सदेव युक्तो रथसत्तमो वै दुराधर्षो द्रावणश्शात्रवाणाम्
पिनाकधन्वा विहितोऽत्र योद्धा विभीषयन्दानवानुद्यतोऽसौ
तथैव वेदाश्च रथे हयाग्र्या धरा सशैला च रथो महात्मनः
नक्षत्रवंशानुगतो वरूथी यस्मिन्योद्धा सारथिनाऽभिरक्ष्यः
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान्
तं प्रविष्टा रथं देवा रथयोद्धारमेव च
कवचानि च शस्त्राणि कार्मुकं च पितामह
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम्
त्वं हि सर्वैर्गणैर्युक्तो देवताभ्योऽधिकः प्रभो
त्वं देव शक्तो लोकेऽस्मिन्नियन्तुं प्रद्रुतानिमान्
वेदांश्वान् सोपनिषदस्सारथिर्भव नस्स्वयम्
योद्धुं बलेन सत्त्वेन वीर्येण विनयेन च
अधिकस्सारथिः कार्यो नास्ति चान्योऽधिको भवात्
स भवांस्तारयत्वस्मान्कुरु सारथ्यमव्ययम्
भवानभ्यधिकस्त्वत्तो नान्योस्तीति पितामह
त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर
तं रथं त्वं समारुह्य संयच्छ परमान्हयान्
तव प्रसादाद्वध्येरन्देव दैवतकण्टकः
स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात्
त्वं हि नो गतिरव्यग्र त्वं नो गोप्ता महाव्रत
त्वत्प्रसादात्सुरास्सर्वे पूज्यन्ते त्रिदिवे प्रभो
दुर्योधनः
इति ते शिरसा नत्वा त्रिलोकेशं पितामहम्
देवाः प्रसादयामासुस्सारथ्यायेति नश्श्रुतम्
ब्रह्मा
एवमेतत्सुरास्तथ्यं नान्यस्त्वभ्यधिको भवात्
सारथित्वं करिष्यामि शङ्करस्य महात्मनः
सर्वथा रथिनश्श्रेयान्कर्तव्यो रथसारथिः
तस्मादेतद्यथातत्त्वं ज्ञात्वा युष्मांश्च सङ्गतान्
संयच्छामि हयानेष विबुधाय कपर्दिने
दुर्योधनः
एवमुक्त्वा जटाभारं संयम्य प्रपितामहः
परिधायाजिनं गाढं सन्यस्य च कमण्डलुम्
प्रतोदपाणिर्भगवानारुरोह रथं तदा
सारथ्ये कल्पिते देवैरीशानस्य महात्मनः
तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम्
शिरोभिः पतिता भूमौ तुरगा वेदसम्भृताः
उभाभ्यां लोकनाथाभ्यामास्थितं रथसत्तमम्
वोढुं न शक्ता वेदाश्वा जानुभ्यामपतन्महीम्
अभीशुभिस्तु भगवानुद्यम्य च हयान्विभुः
अस्तु शौर्यं वीर्यं च च वेदाश्वानामिति प्रभुः
रथं सञ्चोदयामास देवानां प्रभुरव्ययः
ततोऽधिरूढे वरदे रथं पशुपतिस्तदा
साधुसाध्विति देवेशं स्मयमानोऽभ्यभाषत
रुद्रः
याहि देव यतो दैत्याश्चोदयाश्वानरिन्दम
पश्य बाह्वोर्बलं मेऽद्य निघ्नतश्शात्रवान्रणे
दुर्योधनः
ततोऽश्वांश्चोदयामास मनोमारुतरंहसः
पुराण्युद्दिश्य स्वस्थानि दानवानां तरस्विनाम्
ततस्ते सहसोत्पत्य वेदाख्या रथवाजिनः
क्षणेन तेन दैत्यानां पुराणि प्रापयन्हरम्
अथर्वाङ्गिरसौ चास्तां चक्ररक्षौ महात्मनः
अथाधिज्यं धनुः कृत्वा शर्वस्सन्धाय तं शरम्
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्
तस्मिन्स्थिते ततो राजन्रुद्रे वितततकार्मुके
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै
एकीभावं गते चैव त्रिपुरत्वमुपागते
बभूव तुमुलो हर्षो देवतानां महात्मनाम्
ततो देवगणास्सर्वे सिद्धाश्च परमर्षयः
जयेति वाचो मुमुचुस्संस्तुवन्तो महेश्वरम्
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान्
अनिर्देश्याग्र्यवपुषो देवस्यासह्यतेजसः
त्रीणि दृष्ट्वैकसंस्थानि पुराण्यथ पिनाकधृत्
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति
एकबाणेन तं देवस्त्रिपुरं परमेश्वरः
निजघ्ने सासुरगणं देवदेवो महेश्वरः
बाणतेजोग्निदग्धं तत्प्रविशीर्णं सहस्रधा
महदार्तरवं कृत्वा नावशेषमुपागतम्
मद्रेश सासुरगणं प्रापतत्पश्चिमार्णवे
एवं हि त्रिपुरं दग्धं दानवाश्चाप्यशेषतः
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा
स चात्मक्रोधजो वह्निर्दहेत्युक्तो निवारितः
त्रैलोक्यमविशेषेण पुनर्दग्धुं प्रचक्रमे
कालाग्निमिव निर्दग्धुमुत्थितं तं पुनः पुनः
माकार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीद्वचः
ततः प्रकृतिमापन्ना देवलोकास्तथर्षयः
तुष्टुवुर्वाग्भिरग्य्राभिस्स्थाणुं त्रिपुरवैरिणम्
तेऽनुज्ञाता भगवता सर्वे जग्मुर्यथागतम्
कृतकामाः प्रसन्नेन प्रजापतिमुखास्सुराः
एवं रुद्रस्य कृतवान्सारथ्यं तु पितामहः
संयच्छ तुरगानस्य राधेयस्य महात्मनः
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च गुणाधिकः
बलतो रूपतो योगादस्त्रसम्पद एव च
समासक्तं महीपाल कुरु मे हितमीप्सितम्
युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमो नये
तस्माच्छक्तौ युवां जेतुं शत्रूंस्ताविव चासुरान्
स यथा शल्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम्
प्रमथ्य हन्यात्कौन्तेयं तथा नीतिर्विधीयताम्
त्वयि राज्यं सुखं चैव जीवितं जय एव च
समासक्तं महीपाल कुरु मे हितमीप्सितम्
संयच्छास्य हयान्राजन्मत्प्रियार्थं परन्तप