दुर्योधनः
तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने
पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम्
ऊचुस्सर्वे समाभाष्य रथस्सङ्कल्प्यतामिति
विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत्
समेतां पृथिवीं देवीं विशालां पुरमालिनीम्
सपर्वतवनद्वीपां चक्रे भूतधरां रथम्
ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम्
अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम्
हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम्
अवस्करं प्रतिष्ठानं कल्पयामास वै तदा
अस्तं गिरिमधिष्ठानं नानाद्विजगणायुतम्
चकार भगवांस्त्वष्टा उदयं रथकूबरम्
मीननक्रझषावासं दानवालयमुत्तमम्
समुद्रमक्षं विदधे पत्तनाकरशोभितम्
चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम्
दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम्
गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः
अलङ्कारा रथस्यासन्नापगास्सरितस्तथा
त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम्
अनुकर्षान्ग्रहान्दीप्तान्वरूथांश्चापि तारकाः
ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत्
अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः
अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा
द्यां युगं युगपर्वाणि संवर्तकबलाहकान्
शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च
ऋग्वेदं सामवेदं च धुर्यावश्वावकल्पयत्
पृष्ठाश्वौ च यजुर्वेदः कल्पितोऽथर्वणस्तथा
अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम्
सिनीवालीमनुमतिं कुहूं राकां च सुप्रभान्
योक्त्राणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान्
कालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ
इतरे चाभवन्नागा हयानां वालबन्धनम्
अभीशवष्षडङ्गानि कल्पितानि महीपते
ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा
यज्ञास्सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः
अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती
नानावर्णानि शस्त्राणि पताकाः पवनेरिताः
विद्युदिन्द्रधनुर्युक्तं रथदीप्त्या व्यदीपयत्
वर्म योद्धुं च विहितं नभो ग्रहगणाकुलम्
अभेद्यं भानुमच्चित्रं कालचक्रपरिष्कृतम्
क्लृप्तं तु तं रथं दृष्ट्वा विस्मिता देवता भवन्
सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष
युक्तं निवेदयामासुर्देवास्तस्मै महात्मने
एवं तस्मिन्महाराज कल्पिते रथसत्तमे
त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने
स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम्
ब्रह्मदण्डः कालदण्डो रुद्रदण्डश्च ते ज्वराः
परिष्कारा रथस्यासन्समन्ताद्दिशमुद्धताः
विचित्रमृतुभिष्षड्भिः कृत्वा संवत्सरं धनुः
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम्
कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः
तस्माद्रौद्रा कालरात्रिर्ज्या कृता धनुषोऽजरा
ततो रथे रथाश्वांस्तानृषयस्समयोजयन्
एकैकशसुसुसंहृष्टानादाय सुधृतव्रताः
दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः
सव्यतस्सामवेदश्च युक्तो राजन्महर्षिभिः
पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदस्सुरद्विजैः
इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः
एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे
अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः
कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत्
चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम्
शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः
तस्या वाजांश्च पुङ्खं च कल्पयामास वै तदा
पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम
अग्नीषोमौ शरमुखे कल्पयामास वै तदा
अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत्
विष्णुरात्मा भगवतो भवस्यामिततेजसः
तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै
तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुस्सहं प्रभुम्
भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुस्सहः
स नीललोहितो धूम्रः कृत्तिवासा भयानकः
आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः
दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां हरः
प्रमथानां गणैश्चैव भीमरूपैर्महाजवैः
विभाति भगवान् स्थाणुरतीतात्मा गणैर्वृतः
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्
जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम्
दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी
आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम्
तमादाय महादेवस्त्रासयन्दैत्यदानवान्
आरुरोह तदा यत्तः कम्पयन्निव रोदसी
महर्षिभिस्स्तूयमानो वन्द्यमानश्च वन्दिभिः
उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः
स शोभमानो वरदः खड्गी बाणी शरासनी
हसन्निवाब्रवीद्देवान् सारथिः को भवेदिति