दुर्योधनः
भूय एव तु मद्रेश यत्त्वां वक्ष्यामि तच्छृणु
यथा पुरावृत्तमिदं युद्धे दैवासुरे प्रभो
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः
ब्रुवतस्तदशेषेण मम राजर्षिसत्तम
निबोध मनसा चात्र न ते कार्या विचारणा
समुत्पन्ना हि राजानः प्रमोह इति निश्चयः
कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान्
देवानामसुराणां च महानासीत्समुच्छ्रयः
सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन्
ते निरस्ताः कृता देवैर्दानवा बलगर्विताः
तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः
निर्जिताश्च ततो दैत्या दैवतैरिति नश्श्रुतिः
भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा
निर्जितेष्वसुरेषु तारकस्य सुतास्त्रयः
विद्युन्माली तारकाक्षः कमलाक्षश्च वीर्यवान्
तप उग्रं समास्थाय नियमे परमे स्थिताः
तपसा कर्शयामासुर्देहांस्वाञ्शत्रुकर्शनाः
दमेन तपसा चैव नियमेन समाधिना
तेषां पितामहः प्रीतो वरदः प्रददौ वरम्
अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा
सहिता वरयामासस्सर्वलोकपितामहम्
तानब्रवीत्तदा देवस्सर्वलोकगुरुः प्रभुः
ब्रह्मा
नास्ति सर्वामरत्वं हि निवर्तध्वमितोऽसुराः
अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः
दुर्योधनः
ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन्
दैत्याः
वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम्
सर्वकामसमृद्धार्थमवध्यं देवदानवैः
यक्षरक्षोरगगणैर्नानाजातिभिरेव च
न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम्
वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह
अस्माकं त्वं वरं देव प्रयच्छैतं पितामह
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्
विचरिष्याम लोकेश त्वत्प्रसादपुरस्कृताः
यथा वर्षसहस्रेषु समेष्यामः परस्परम्
ब्रह्मा
विलयस्समयस्यान्ते मरणं जीवितस्य च
इति वित्त वधोपायं कञ्चिदेव निशामये
दैत्याः
एकीभावं गमिष्यन्ति पुराणयेतानि चानघ
समागतानि चैतानि यो हन्याद्भगवन्नरः
देवो वा द्विपदां श्रेष्ठस्स नो मृत्युर्भविष्यति
दुर्योधनः
तेषां तद्वचनं श्रुत्वा दानवानां महायशाः
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्
ते तु लब्धवराः प्रीतास्सम्प्रधार्य परस्परम्
पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुराः
विश्वकर्माणमजरं दैत्यदानवपूजितम्
ततो मयस्स्वतपसा चक्रे धीरः पुराण्यथ
त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्
आयसं चाभवद्भूमौ तदा तेषां परन्तप
एकैकं योजनशतं विस्तृतं तावदायतम्
दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम्
गृहप्रवरसम्बाधमसम्बाधमहापथम्
प्रासादैर्विविधैश्चैव द्वारैरप्युपशोभितम्
त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक्
दिव्यमाल्याम्बरधरा दैतेया राजसत्तम
काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः
राजतं कमलाक्षस्य विद्युन्मालेस्तथाऽऽयसम्
त्रयस्ते दैत्यराजानस्त्रील्ँलोकानाशु तेजसा
आक्रम्य तस्थुर्दुर्धर्षाः कश्च नाम प्रजापतिः
तेषु दानवमुख्यानां प्रयुतान्यर्बुदानि च
कोट्यश्चापि प्रवीराणां समाजग्मुस्समन्ततः
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः
सर्वेषां च पुनस्तेषां सर्वभोगावहो मयः
तमाश्रित्य हि ते सर्वे वर्तयन्त्यकुतोभयाः
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रितैः
तस्मै तस्मै मयस्तं तं विदधे मायया तदा
तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः
तपस्तेपे तु परमं येनातुष्यत्पितामहः
स तुष्टमवृणोद्देवं वापी भवतु नः पुरे
शस्त्रैर्विनिहता यत्र क्षिप्तास्स्युर्बलवत्तमाः
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः
ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभुः
पूर्णा दिव्यस्य तोयस्य पीयूषप्रतिमस्य वै
येन रूपेण यो दैत्यो येन वेषेण चाप्यथ
क्षिप्यते निहतो वाप्यां तादृशेनैव जायते
सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः
एवंवीर्येण संयुक्तां कृतां तेन महात्मना
तां प्राप्य त्रैपुरां वापीं लोकान्सर्वान्बबाधिरे
महता तपसा सिद्धास्सुराणां भयवर्धनाः
एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान्
न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः
निर्भीकास्सहितास्सर्वे स्थापितास्समलोलुपाः
विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा
विचेरुस्स्वेन कामेन वरदानेन दर्पिताः
देवारण्यानानि रम्याणि स्थानानि च दिवौकसाम्
ऋषीणामाश्रमान्पुण्यान्धर्म्याञ्जनपदांस्तथा
उत्सादयन्त्यमर्यादां दानवा दुष्टचारिणः
निस्स्थानाश्च कृता देवा ऋषयः पितृभिस्सह
दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैस्सुरेतरैः
पीड्यमानेषु लोकेषु ततश्शक्रो मरुद्वृतः
पुराण्यायोधयाञ्चक्रे वज्रहस्तस्समन्ततः
नाशक्नोत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः
पुराणि वरदत्तानि धात्रा तेन नराधिप
तदा भीतस्सुरपतिर्मुक्त्वा तानि पुराण्यथ
तैरेव विबुधैस्सार्धं पितामहमरिन्दम
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः
ते सर्वमभिविख्याप्य शिरसाऽभिप्रणम्य च
तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन्
ब्रह्मा
श्रुत्वा तु भगवान्देवो देवानिदमुवाच ह
श्रूयतां त्रिदशास्सर्वे यथेदं वाक्यगौरवम्
दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम
न शक्नुवन्ति ये सर्वे युष्मान्वै पीडयन्ति ते
अहं समस्तु भूतानां सर्वेषां नात्र संशयः
अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः
एकेषुणा विभेद्यानि तानि दुर्गाणि नान्यथा
शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः
ते यूयं तपसा स्थाणुं जिष्णुमक्लिष्टकारिणम्
योद्धारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान्
दुर्योधनः
ते देवास्तेन वाक्येन चोदिताः प्रणतास्स्थिताः
दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः
शुद्धात्मानो महात्मानो जग्मुर्वै वृषभध्वजम्
ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः
तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम्
अनङ्गमथनं सर्वे भवं सर्वात्मना गताः
देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम्
शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम्
तुष्टुवुर्वाग्भिरग्र्याभिर्भयेष्वभयमच्युतम्
सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना
तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः
यस्साङ्ख्यमात्मना वेत्ति यस्य चात्मा वशे सदा
तं ते ददृशुरीशानं तेजोराशिमुमापतिम्
परेण यत्नेन भवं त्रिदशाश्शर्वमीश्वरम्
अनन्यसदृशं देवं प्रतपन्तमकल्मषम्
एकश्च भगवांस्तत्र नानारूपमकल्पयत्
आत्मनः प्रतिरूपाणि रूपाण्यथ महामतिः
परस्परस्य चापश्यन्सर्वे परमविस्मिताः
सर्वभूतमयं दृष्ट्वा तमजं जगतः पतिम्
देवा ब्रह्मर्षयस्सर्वे शिरोभिरवनिं गताः
तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः
ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते त्रस्तचेतसः
नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम्
देवाः
नमो देवादिदेवाय प्रियधाम्नेऽतिमन्यवे
प्रजापतिमखघ्नाय प्रजापतिभिरीडित
नमस्स्तुताय स्तुत्याय स्तूयमानाय शम्भवे
विलोहिताय रुद्राय नीलग्रीवाय शूलिने
अमोघाय प्रदक्षाय शमाय क्रोधनाय च
दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे
कुमारपित्रे त्र्यक्षाय प्रवरायुधयोधिने
प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने
वनस्पतीनां पतये वनानां पतये नमः
गवां च पतये नित्यं यज्ञानां पतये नमः
नमो नमस्ते सौम्याय त्र्यम्बकायोग्रतेजसे
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः
दुर्योधनः
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान्
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः
देवाश्शर्वस्य वचनं श्रुत्वा हर्षमुपागताः