सञ्जयः
एवमुक्तो महाराज तव पुत्रः प्रतापवान्
मद्रेश्वरं प्रति रणे सुरसैन्यभयङ्करम्
सर्वं तथाऽकरोत्तूर्णं राधेयस्तद्यदब्रवीत्
मद्रराजं च समरे प्रणम्य च महारथम्
विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत्
दुर्योधनः
सत्यव्रत महाभाग द्विषतां भयवर्धन
मत्प्रियार्थं हितार्थं च तथा पार्थवधाय च
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर
तथा नृपतिसिंहानां मध्ये त्वां वरयाम्यहम्
स त्वामप्रतिवीर्याद्य शत्रुपक्षभयावह
मद्रेश्वर प्रयाचेऽहं शिरसा विनयानतः
त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत
सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि
त्वयि यन्तरि राधेयो विजेष्यति ममाहितान्
अभीशूणां हि कर्णस्य ग्रहीताऽन्यो न विद्यते
ऋते त्वत्तो महाभाग वासुदेवसमाद्भुवि
यथा हि सर्वस्वापत्सु वार्ष्णेयः पाति पाण्डवम्
तथा भवानिमं पातु कर्णं वैकर्तनं रणे
भीष्मद्रोणौ कृपः कर्णो भवान्भोजश्च वीर्यवान्
शकुनिस्सौबलो द्रौणिरहमेव च नो बलम्
एवमेष कृतो भागो नवधा पृथिवीपते
नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः
ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः
वृद्धौ च तौ नरव्याघ्रौ छलेन विनिपातितौ
कृत्वा चासुकरं कर्म स्वर्गलोकमितो गतौ
ततोऽन्ये पुरुषव्याघ्राः परेषां निहता युधि
अस्मदीयाश्च बहवस्स्वर्गाय गमिताः परैः
त्यक्त्वा प्राणान् यथाशक्ति चेष्टां कृत्वा च पुष्कलाम्
तदिदं हतभूयिष्ठं बलं मम जनाधिप
पूर्वमप्यल्पकैः पार्थैर्हतं किन्त्वद्य विद्रुतम्
बलवन्तो महात्मानः कौन्तेयास्सत्यविक्रमाः
बलशेषं न हन्युर्मे यथा तत्कुरु पार्थिव
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः
भवांश्च पुरुषव्याघ्रस्सर्वलोकमहारथः
तस्मिंस्त्वयि च मद्रेश जयाशा विपुला मम
तस्माज्जयाय मे वीर सारथ्यं कर्तुमर्हसि
पार्थस्य समरे कृष्णो यथाऽभीशुग्रहो वरः
तथा कर्णस्य राजंस्त्वमभीशुग्राहको भव
तेन युक्तो रणे पार्थो रक्ष्यमाणश्च मद्रप
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव च
पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून्
इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च
कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम्
अहन्यहनि मद्रेश द्रावयन् युधि दृश्यते
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते
तं भागं सह कर्णेन युगपन्नाशयाहवे
अरुणेन यथा सार्धं तमस्सूर्यो व्यपोहति
तथा कर्णेन सहितो जहि पार्थं महारणे
सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष
तथा नश्यन्तु कौन्तेयास्सपाञ्चालास्ससृञ्जयाः
रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान्
सन्निपातस्समो लोके भविता नास्ति नाप्यभूत्
यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम्
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे
सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे
यथा च समरे कृष्णो रक्षते सर्वतोऽर्जुनम्
तथा त्वमपि राधेयं रक्षस्व च महारणे
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति
देवानामपि सङ्ग्रामे सशक्राणां महीपते
किं पुनः पाण्डवेयानां नातिशङ्कीर्वचो मम
सञ्जयः
दुर्योधनवचश्श्रुत्वा शल्यः क्रोधसमन्वितः
धार्तराष्ट्रमथोवाच सृक्किणी परिलेलिहन्
एवमुक्तस्तु सङ्क्रुद्धः पदा स्पृष्ट इवोरगः
त्रिशिखां भ्रुकुटिं कृत्वा धून्वन्हस्तं पुनःपुनः
क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः
कुलैश्वर्यश्रुतबलैर्दृप्तश्शल्योऽब्रवीदिदम्
शल्यः
न मामर्हसि राजेन्द्र नियोक्तुं कर्मणीदृशे
न हि पापीयसश्श्रेयान्प्रेष्यत्वं कर्तुमर्हति
यो ह्यभ्युपगतं मित्रं गरीयांसं विशेषतः
वशे पापीयसो धत्ते तत्कार्यमधरोत्तरम्
ब्रह्मणा ब्राह्मणास्सृष्टा मुखात्क्षत्रमथोरसः
ऊरुभ्यामथ वैश्या वै शूद्राः पद्भ्यामिति श्रुतिः
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः
अन्योन्यस्य च संयोगाच्चातुर्वर्ण्यस्य भारत
गोप्तारस्सङ्गृहीतारो दातारः क्षत्रियास्स्मृताः
याजनाध्यापनैर्विप्रा विशुद्वैश्च प्रतिग्रहैः
लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि
कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः
ब्रह्मक्षत्रस्य विहितास्सूता वै परिचारकाः
न विट्छूद्रस्य संयोगं शृणु चान्यं ममानघ
सोऽहं मूर्धाभिषिक्तस्सन् राजर्षिकुलजो नृपः
महारथसमाख्यातस्सेव्यस्स्तुत्यश्च वन्दिनाम्
सोऽहमेतादृशो भूत्वा नेहारिबलमर्दनः
सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे
अवमन्यसे मां गान्धारे ध्रुवं चाप्यतिशङ्कसे
यस्माद्ब्रवीषि विस्रब्धस्सारथ्यं क्रियतामिति
अस्मत्तोऽभ्यधिकं कर्णं मन्वानस्तं प्रशंससि
न चाहं युधि राधेयं गणये तुल्यमात्मनः
आदिश्यतामभ्यधिको ममांशः पृथिवीपते
तमहं समरे हत्वा गमिष्यामि यथागतम्
अथवाऽप्येक एवाहं योत्स्यामि तव शत्रुभिः
पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून्
न चापि कामान्कौरव्य निधाय हृदये पुमान्
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्कथाः
अपि चाप्यवमानो मे न कर्तव्यः कथञ्चन
पश्य भीमौ मम भुजौ वज्रसंहननौ दृढौ
धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान्
रथं च पश्य मे चित्रं सदश्वैर्वातवेगिभिः
गदां च पश्य गान्धारे हेमपट्टपरिष्कृताम्
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान्
शोषयेयं समुद्रांश्च पातयेयं च भास्करम्
तं मामेवंविधं जानन्समर्थमरिनिग्रहे
कस्माद्युनङ्क्षि सारथ्ये सूतस्याधिरथेस्तु माम्
न चापि मम राधेयः कलामर्हति षोडशीम्
सकर्णा ये त्रयो लोकास्सार्जुनास्सजनार्दनाः
निबद्धांस्तान्त्रणे राजन्न गणेयं कथञ्चन
तथाऽपि शक्तिं कौरव्य विहाय हृदये पुमान्
न चाहं प्राकृतः कश्चिन्न चास्म्यधिगतस्स्वयम्
अयं चाप्यवमानो मे न कर्तव्यः कथञ्चन
आपृच्छे त्वाऽद्य गान्धारे यास्यामि विषयं प्रति
न चाहं सूतपुत्रस्य सारथ्यमुपजग्मिवान्
सञ्जयः
एवमुक्त्वा महाराज शल्यस्समितिशोभनः
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः
प्रणयाद्बहुमानाच्च सन्निगृह्य सुतस्तव
अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम्
दुर्योधनः
यथा शल्य त्वमात्थेदमेवमेतन्न संशयः
अभिप्रायस्तु मे कश्चित्तन्निबोध जनेश्वर
न कर्णोऽभ्यधिकस्त्वत्तो न चान्ये चैव पार्थिवाः|
न च मद्रेश्वर त्वां हि कर्णस्सोढुं च शक्ष्यति
ऋतमेव हि पूर्णं ते वर्त्म राजर्षिसत्तम
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम
शल्यभूतस्तु शत्रूणां यस्मात्त्वं युधि मानद
तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते
यदेतद्व्याहृतं पूर्वं भवता भूरिदक्षिण
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यते
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान्
वृणीमस्त्वां हयाग्र्याणां यन्तारमिह संयुगे
मन्ये ह्यभ्यधिकं कर्णं गुणैस्तात धनञ्जयात्
वासुदेवादति त्वां च लोकोऽयमितिमन्यते
कर्णो ह्यभ्यधिकः पार्थात्सर्वास्त्रेषु नरर्षभ
भवानभ्यधिकः कृष्णादश्वयाने बले तथा
यथाऽश्वहृदयं वेद वासुदेवो महामनाः
द्विगुणं च तथा वेत्थ मद्रराजो न संशयः
शल्यः
यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य मारिष
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यरस्त्वयि
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः
युध्यतः पाण्डवाग्र्येण यत्त्वं मां वीर मन्यसे
समयस्त्वयि कौरव्य कश्चिद्वैकर्तनं प्रति
उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य सन्निधौ
सञ्जयः
तथेति राजन्पुत्रस्ते सह कर्णेन भारत
अब्रवीन्मद्रराजस्य मतं भरतसत्तम