धृतराष्ट्रः
स्वेन च्छन्देन नस्सर्वानवधीद्व्यक्तमर्जुनः
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत्
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान्
निवातकवचानाञ्च तिस्रः कोटीर्जघान ह
एकः किरातरूपेण स्थितं शर्वमयोधयत्
एको ह्यरक्षद्भरतानेकश्शर्वमतोषयत्
तेनैकेन जितास्सर्वे मदीया ह्युग्रतेजसः
ते न निन्द्याः प्रशस्यास्ते यत्ते चक्रुः प्रचक्ष्व तत्
सञ्जयः
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः
दीनस्वरा दूयमाना मानिनश्शत्रुनिर्जिताः
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः
भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः
तानब्रवीत्ततः कर्णः क्रुद्धस्सर्प इव श्वसन्
करं करेण निष्पिष्य प्रेक्षमाणस्तवात्मजम्
कर्णः
यत्ते दृढश्च दक्षश्च धृतिमानर्जुनस्सदा
सम्बोधयति चाप्येनं प्राप्तकालमधोक्षजः
सहस्राक्षनिमृष्ट्या च शक्त्या तेन स्म वञ्चिताः
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता विशाम्पते
सञ्जयः
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपो नृपान्
तेऽनुज्ञाता नृपास्तेन स्वान् निवासान्स्म भेजिरे
सुखोषिताश्चा रजनीं पुनर्युद्धाय निर्ययुः
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम्
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोपमात्
ततः प्रतीपकर्तारं सततं विदितात्मनाम्
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा
पुरन्दरसमं वीर्ये प्रभञ्जनसमं बले
कार्तवीर्यसमं युद्धे कर्णं राज्ञोऽगमन्मनः
सर्वेषां चैव योधानां कर्णमेवागमन्मनः
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव
धृतराष्ट्रः
यद्वो मनोऽगमत् सूत कर्णं वैकर्तनं तदा
अप्यद्राक्षुस्सूतपुत्रं शीतार्ता इव भास्करम्
कृतेऽपहारे सैन्यानां प्रवृत्ते च रणे पुनः
दुर्योधनं च दृष्ट्वाऽजौ पाण्डवेन भृशार्दितम्
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महारणे
कथं वैकर्तनः कर्णस्तत्रायुध्यत संयुगे
कथं च पाण्डवास्सर्वे युयुधुस्तत्र सूतजम्
कर्णमाश्रित्य हि सदा मन्दबुद्धिस्सुयोधनः
जेतुमुत्सहते पार्थान्सहपुत्रान्सकेशवान्
यस्सौबलं तथा तात नीतिमानिति मन्यते
कर्णं चाप्रतिमं युद्धे देवैरपि दुरुत्सहम्
मन्यतेऽभ्यधिकं पार्थादेवं चास्य हृदि स्थितम्
विजेष्यति रणे कर्ण एकः पार्थान्ससोमकान्
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि
तथाऽस्त्राणि च घोराणि विक्रमश्च महात्मनः।
मम चैव सदा मन्दश्शंसते नित्यमग्रतः
कर्णश्च तान् महेष्वासान् पाणडुपुत्रान् महारथान्
नातरद्रभसात्सूत दैवं नूनं परायणम्
अहो बत महद्दुःखं प्राप्तो दैववशादहम्
अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते
यदहं वर्तमानेषु महायुद्धेषु सञ्जय
अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान्
अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम्
कथं शक्ष्यामि संसोढुं शल्यभूतानि सञ्जय
न पाण्डवानां समरे कश्चिदस्ति हतः किल
स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम्
सञ्जयः
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः
तच्चास्य न भवेत् कार्यं चिन्तया च विनश्यति
तदिदं तव कार्यं तु दूरप्राप्तं विजानतः
अतिक्रान्तं हि यत्त्वया पूर्वमप्राप्तं प्राप्तवान्रणे
उक्तोऽसि बहुशो राजन्मा युद्धमिति सर्वशः
न च तत्त्वग्रहीर्द्वेषात्पाण्डवेषु विशाम्पते
त्वया पापानि कर्माणि समाचीर्णानि पाण्डुषु
त्वत्कृते वर्तते घोरः कौरवाणां जनक्षयः
तदिदानीमतिक्रान्तं मा शुचो भरतर्षभ
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते
प्रभातायां तु शर्वर्यां कर्णो राजानमभ्ययात्
समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत्
कर्णः
बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव।
नाभूत्समागमो राजन्मम चैवार्जुनस्य च
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना
निहनिष्यामि तं वीरं स मां वा निहनिष्यति
अनिहत्य रणे पार्थं नाहमेष्यामि पार्थिव
इदं तु मे महाप्राज्ञ शृणु वाक्यं नराधिप
हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि
अभियास्यति मां पार्थश्शक्रशक्तिर्गता हि सा
तत्र श्रेयस्करं यत्तु तन्निबोध जनेश्वर
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च
कार्यस्य महतो भेदे लाघवे दूरपातने
सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः
प्राणे च स्थैर्ये वीर्ये च विक्रमे चापि भारत
निमित्तज्ञानयोगे च सव्यसाची न मत्समः
सर्वायुधमहामात्रं विजयं नाम मद्धनुः
इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा
येन दैत्यान् पुराराजञ्जितवान्वै शतक्रतुः
यस्य घोषेण दैत्याश्च मुह्यन्ति च दिशो दश
तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतः
तद्दिव्यं भार्गवो मह्यमददाद्धनुरत्तमम्
तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम्
यथेन्द्रस्समरे सर्वान्दैतेयान्वै समागतान्
निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान्
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते
त्रिस्सप्तकृत्वः पृथिवी धनुषा तेन निर्जिता
धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः
तद्रामो ह्यददन्मह्यं तेन योत्स्ये धनञ्जयम्
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम्
निहत्य समरे वीरमर्जुनं जयतां वरम्
सपर्वतवनद्वीपा हतद्विड् भूस्ससागरा
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव
नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः
सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा
न हि मे विक्रमं सोढुं स शक्तोऽग्निं द्रुमो यथा
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात्
ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी
सारथिस्तस्य गोविन्दो मम तादृङ्न विद्यते
तच्च दिव्यं धनुश्श्रेष्ठं गाण्डीवमजरं युधि
विजयं च महद्दिव्यं ममापि धनुरुत्तमम्
तत्राहमधिकः पार्थाद्धनुषैकेन पार्थिव
यैस्समभ्यधिको वीरः पाण्डवस्तान्निबोध मे
रश्मिग्राहोऽस्य दाशार्हो मम तादृङ्न विद्यते
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः
अच्छेद्यास्सर्वधा वीर वाजिनश्च मनोजवाः
ध्वजश्च दिव्यो द्युतिमान्वानरोऽपि भयङ्करः
कृष्णश्च जगतस्स्रष्टा रथं तमभिरक्षति
एभिस्त्रिभिरहं हीनो योद्धुमिच्छामि पाण्डवम्
अयं तु सदृशश्शौरेश्शल्यस्समितिशोभनः
सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत्
तस्य मे सारथिश्शल्यो भवत्वसुकरः परैः
नाराचान्गृध्रपत्रांश्च शकटानि वहन्तु मे
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुग्रगैः
आयान्तु पश्चात्सङ्ग्रामे मम वै भरतर्षभ
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम्
शल्यो ह्यभ्यधिकः कृष्णात्पार्थादर्जुनतो ह्यहम्
तथाऽस्त्रे मत्समो नास्ति कश्चिदन्यो धनुर्धरः
बाहुवीर्यान्मया ह्यद्य न तु तुल्यः कथञ्चन
तथा शल्यसमो राजन् रथयाने न विद्यते
यथाऽश्वहृदयं वेद दाशार्हः परवीरहा
तथा शल्यो विजानाति हयज्ञानं महारथः
वीर्यतस्सारत श्चैव योगतः कर्मतोऽर्थतः
सोऽयमभ्यधिकः पार्थाद्भविष्यामि न संशयः
विजयेयमहं सङ्ख्ये फल्गुनं कुरुनन्दन
एतत्कृतं महाराज त्वयेच्छामि परन्तप
क्रियतामेष कामो मे मा वः कालोऽत्यगादयम्
एवं कृते कृतं मह्यं त्वया सर्वं भविष्यति
ततो द्रष्टासि समरे यत्करिष्यामि भारत
सर्वथा पाण्डवान्सङ्ख्ये विजेष्याम्यद्य समागतान्
एवं युक्तं न मां शक्ता अपि जेतुं सुरासुराः
किमु पाण्डुसुता राजन्रणे मानुषयोनयः
सञ्जयः
एवमुक्तस्तव सुतः कर्णेनाहवशोभिना
सम्पूज्यैनं प्रहृष्टात्मा ततो राधेयमब्रवीत्
दुर्योधनः
एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे
सोपासङ्गा रथास्साश्वा अनुयास्यन्ति तेऽनघ
नाराचान्गृध्रपत्रांश्च वक्ष्यन्ति शकटानि ते
वयं च त्वाऽनुयास्यामः कर्ण सर्वे च पार्थिवाः