सञ्जयः
ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम्
द्विरदनररथाश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रघोषैः
द्विरदरथपदातिसादिसङ्घाः परिकुपिताभिमुखाः प्रजघ्निरे ते
शितपरशुगदासिपट्टसैरिषुभिरनेकविधैश्च सूदिताः
द्विरदरथहया महाहवे ते पुरुषवराः पुरुषैश्च वाहनैः
कमलदिनकरेन्दुसन्निभैस्सितदशनैस् समुखाक्षिनासिकैः
रुचिरमकुटकुण्डलैर्मही पुरुषशिरोभिरुपस्तृता बभौ
परिघमुसलशक्तितौमरैर्नखरमुसुण्ठिगदाशतैर्हताः
द्विरदनरहयास्सहस्रशो रुधिरनदीप्रवहास्तदाऽभवन्
प्रहतरथनराश्वकुञ्जरं प्रतिभयदर्शनमुल्बण बभौ
तदहितहतमाहवे बलं पितृपतिराष्ट्रमिव प्रजाक्षये
अथ तव नरदेव सैनिकास्तव च सुतास्सुरसूनुसन्निभाः
अमितबलपुरस्सरा रणे कुरुवृषभाश्शिनिपुत्रमभ्ययुः
तदतिरुधिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम्
लवणजलसमुद्धतस्वनं बलमसुरामरसैन्यसन्निभम्
सुरपतिसमविक्रमस्ततस्स्त्रिदशवरावरजोपमं युधि
दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम्
त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह
तदुदधिनिभमाद्रवद्बलं त्वरिततरैस्समभिद्रुतं बलैः
द्रुपदसुतवरस्तदाऽकरोत्पुरुषरथाश्वगजक्षयं महत्
तमपि सरथवाजिसारथिं शिनिवृषभो विविधैश्शरैस्त्वरन्
भुजगविषनिभैशरोत्तमैः पुरुषवरं समवास्तृणोत्तदा
शिनिवृषभशरप्रपीडितं तव सुहृदो वसुषेणमभ्ययुः
अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम्
अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ श्रितौ
जलदनिनदनिस्स्वनं रथं पवनविधूतपताककेतनम्
सितहयमुपयान्तमन्तिकं कृतमनसो ददृशुस्तदाऽरयः
हस्तेन हस्तिवरहस्तसमानहस्तस्तूणीमुखादथ शरान् मुहुराददानः
वज्रीव दानवचमूं प्रगृहीतचापो भीमानुजस्तव नरेन्द्र चमूं जगाहे
अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा
रथान्विमानप्रतिमान्सज्जानिन्द्रायुधध्वजान्
सयोधान् सारथीन् बाणैरभ्राणीवानिलोऽवधीत्
गजान्गजप्रणेतॄंश्च वैजयन्तीश्शुभध्वजान्
सादिनोऽश्वांश्च पत्तींश्च निन्ये बाणैर्यमक्षयम्
तमन्तकमिव क्रुद्धमनिवार्यं महारथम्
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैःपृथग्विधैः
तस्यार्जुनो धनुः केतुमश्वान् सूतं च सायकैः
हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा
शरमन्यं समादाय व्यसृजत्प्राणघातिनम्
दुर्योधनायेषुवरं तं द्रौणिस्सप्तधाऽच्छिनत्
ततो द्रौणेर्धनुश्छित्वा हत्वा च तुरगाञ्शरैः
कृपस्य महदत्युग्रं धनुश्चिच्छेद पाण्डवः
हार्दिक्यस्य धनुश्छित्त्वा ध्वजञ्चाश्वांस्तदाऽवधीत्
दुश्शासनस्य चेष्वासं छित्त्वा राधेयमभ्ययात्
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः
विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः
कर्णस्य स्फुरदत्यर्थं प्रास्यतस्सायकान् धनुः
नानदत्त्रासजननं भूतानामहितान्तकम्
अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैश्शरैः
नवत्या नवभिश्चोग्रैश्शतेन पुनरार्पयत्
ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन्
युधामन्युश्शिखण्डी च द्रौपदेयाः प्रभद्रकाः
उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च
चेदिकारूशमात्स्यानां केकयानां च तद्बलम्
चेकितानश्च बलवान्धर्मराजश्च सुव्रतः
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमाः
परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन्
भाषन्तो वाग्भिरुग्राभिस्सर्वे कर्णवधे धृताः
ताश्शस्त्रवृष्टीर्बहुधा कर्णश्छित्त्वा शितैश्शरैः
अपोवाहास्त्रवीर्येण द्रुमान् भङ्क्त्वेव मारुतः
रथिनस्समहामात्रान्गजानश्वान्ससादिनः
पत्तिव्रातांश्च सङ्क्रुद्धो निघ्नन्कर्णो व्यदृश्यत
न ग्लानिरासीत्कर्णस्य प्रास्यतस्सायकान्बहून्
रणे विनिघ्नतश्शत्रून् क्रुद्धस्येव शतक्रतोः
तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा
विशस्त्रपत्रदेहासु तत आसीत्पराङ्मुखम्
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनस्स्मयन्
दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः
मुसला इव निष्पेतुः परिघा इव चेषवः
शतघ्न्य इव चाप्यन्ये वज्रा उग्रा इवापरे
वध्यमानं च तत्सैन्यं सपत्त्यश्वरथद्विपम्
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च
निष्कैवल्यं यथा दुःखं प्रापुरश्वनरद्विपाः
वध्यमानाश्शरैरार्तास्तदा भीताः प्रदुद्रुवुः
तेषाञ्चैव तदा युद्धे संसक्तानां जयैषिणाम्
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान्
तमसा च महाराज रजसा च विशेषतः
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम्
ते त्रस्यन्तो महेष्वासा रात्रियुद्धस्य भारत
अपहारं ततश्चक्रुस्सहितास्सर्वसैनिकैः
कौरवेष्वपयातेषु ततो राजन्दिनक्षये
जयं सुमनसः प्राप्य पार्थास्स्वशिबिरं ययुः
वादित्रशब्दैर्विविधैस्सिंहनादैस्सनर्तनैः
परानपहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ
कृतेऽपहारे तैर्वीरैस्सैनिकास्सर्व एव ते
आशिषः पाण्डवेयेषु प्रायुञ्जन्त नरेश्वराः
ततः कृतेऽपहारे च प्रहृष्टाः कुरुपाण्डवाः
निशि स्वशिबिरान् गत्वा न्यवसन्त नरेश्वर
रणे प्रवृत्तान्यहनि कथयन्तस्सुखं तथा
ततो रक्षःपिशाचाश्च श्वापदानि च सङ्घशः
जग्मुरायोधनं घोरं रुद्रस्याक्रीडनोपमम्