धृतराष्ट्रः
अतितीव्राणि युद्धानि सुमहान्ति बहूनि च
तत्र सञ्जय चाश्रौषं पुत्राणामिह सङ्क्षयम्
यथा तु मे कथयसे यथा युद्धं प्रवर्तते
न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः
दुर्योधनस्तु विरथः कृतस्तत्र महारणे
धर्मपुत्रः कथं चक्रे तस्मिन् वा नृपतिः कथम्
अपराह्णे कथं युद्धमभवद्रोणहर्षणम्
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय
सञ्जयः
संशप्तकेषु सैन्येषु वध्यमानेषु भागशः
रथमन्यं समास्थाय पुत्रस्तव विशाम्पते
क्रोधेन महताऽविष्टस्सविषो भुजगो यथा
सर्वसैन्यमुदीक्ष्यैव क्रोधादुद्वृत्तलोचनः
दृष्ट्वा धर्मसुतं चापि सैन्यमध्ये व्यवस्थितम्
श्रिया ज्वलन्तं कौन्तेयं यथा वज्रधरं युधि
दुर्योधनस्तु दृष्ट्वैव धर्मसुतं युधिष्ठिरम्
उवाच त्वरितो सूतं याहि याहीति भारत
दुर्योधनः
तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः
छत्रेण ध्रियमाणेन राजा तिष्ठति दंशितः
सञ्जयः
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम्
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे
ततो युधिष्ठिरः क्रुद्धः प्रणुन्न इव पन्नगः
सारथिं चोदयामास याहि यत्र सुयोधनः
तौ समाजग्मतुर्वीरौ भ्रातरौ राजसत्तमौ
समेत्य च महावीरौ संरब्धौ युद्धदुर्मदौ
ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे
ततो दुर्योधनो राजा धर्मशीलस्य मारिष
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे
तं नामृष्यत सङ्क्रुद्धो धनुषश्छेदमाहवे।
दुर्योधनस्य कौरव्य तव पुत्रस्य मारिष
अपविध्य धनुश्च्छिन्नं क्रोधसंरक्तलोचनः
अन्यत्कार्मुकमादाय धर्मराजश्चमूमुखे
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च
अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ
युधिष्ठिरस्य चिक्षेप शरान्कनकभूषणान्
रुक्मपुङ्खान्प्रसन्नाग्रान्सविषानिव पन्नगान्
तावन्योन्यं सुसंरब्धौ शस्त्रवर्षाण्यमुञ्चताम्
सिंहाविव बलोद्वृत्तौ परस्परजिगीषया
जघ्नतुस्तौ रणेऽन्योन्यं नदन्तौ वृषभाविव
अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ
ततः पूर्णायतोत्सृष्टैश्शरैस्तौ तु कृतव्रणौ
विरेजतुर्महाराज पुष्पिताविव किंशुकौ
ततो राजन्प्रतिभयान् सिंहनादान्मुहुर्मुहुः
तलयोश्च महाशब्दं धनुषश्च महाहवे
शङ्खशब्दं तथा चोग्रं चक्रतुस्तौ नरेश्वरौ
अन्योन्यं च महाराज पीडयामासतुर्भृशम्
ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिश्शरैः
आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः
प्रतिविव्याध तं तूर्णं तव पुत्रो महारथः
पञ्चभिर्निशितैर्बाणैस्स्वर्णपुङ्खैश्शिलाशितैः
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत
सर्वपारशवीं गुर्वीं महोल्काप्रतिमां तदा
तामापतन्तीं सहसा धर्मराजः शितैः शरैः
त्रिभिः प्रहस्य चिच्छेद तं च विव्याध सप्तभिः
निपपात ततस्सा तु स्वर्णदण्डा महास्वना
दीपयन्ती महोल्काभा राजच्छक्तिर्दिशो दश
शक्तिं विनिहतां दृष्ट्वा तव पुत्रो विशाम्पते
नवभिर्निशितैर्भल्लैराजघान युधिष्ठिरम्
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः
समधत्त च तं बाणं धनुर्मध्ये महाबलः
चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी
स तु बाणस्समासाद्य तव पुत्रं महारथम्
व्यामोहयद्भृशं राजन् धरणीं च जगाम ह
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगतः
विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम्
तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम्
धर्मराजो महाशक्तिं पुत्राय प्राहिणोत्तव
दीप्यमानां महाराज महोल्कां ज्वलितामिव
यमदण्डनिभां घोरां कालरात्रिमिवापराम्
रथस्थस्स तया विद्धस्तव पुत्रस्स्तनान्तरे
भृशं संविग्नहृदयः पपात च मुमोह च
ततस्त्वरितमागम्य कृतवर्मा तवात्मजम्
प्रत्यपद्यत राजानं निमग्नं व्यसनार्णवे
भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम्
अभिदुद्राव वेगेन कृतवर्माणमाहवे
एवं तदभवद्युद्धं त्वदीयानां परैस्सह