सञ्जयः
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून्
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत्
तमापतन्तं सदसा तव पुत्रं महाबल
धर्मराजो द्रुतं विद्ध्वा तिष्ठतिष्ठेति चाब्रवीत्
स तु तं प्रतिविव्याध नवभिर्निशितैश्शरैः
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्
ततो युधिष्ठिरो राजन्स्वर्णपुङ्खाञ्शिलाशितान्
दुर्योधनाय चिक्षेप त्रयोदश शिताञ्शरान्
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः
पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत्
षष्ठेन तु ध्वजं राज्ञस्सप्तमेन तु कार्मुकम्
अष्टमेन तथा खड्गं पातयामास भूतले
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम्
हताश्वात्तु रथात्तस्मादवप्लुत्य तवात्मजः
उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः
अभ्यवर्तन्त सहसा परीप्सन्तो जनाधिपम्
ततःपाण्डुसुतास्सर्वे परिवार्य युधिष्ठिरम्
अभ्ययुस्समरे राजंस्ततो युद्धमवर्तत
अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे
क्ष्वेलाः किलकिलाशब्दाः प्रादुरासन्विशाम्पते
ये येऽभ्यगच्छन्समरे पाञ्चालाः कौरवैस्सह
ते शूरास्समरे सर्वे प्राक्षीयन्त ततस्ततः
नरा नरैस्समाजग्मुर्वारणा वारणैस्सह
रथिनो रथिभिस्सार्धं हयाश्च हयसादिभिः
द्वन्द्वान्यासन्महाराज प्रेक्षणीयान्यनेकशः
तावकानां परेषां च चित्राणि गुरूणि च
विस्मापकान्यनीकानि शस्त्रास्त्रगुणसम्पदा
युद्धानि चक्रिरे राजन् परस्परजिगीषया
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः
न हि ते प्रहरन्ति स्म पृष्ठतो नाप्यनायुधम्
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत
रथी पत्तिं समासाद्य समरे निशितैश्शरैः
प्राहिणोद्यमकालाय कश्चिदेव पराक्रमात्
नागानन्यस्समासाद्य बहुधा विकिरञ्शरान्
द्रावयामास समरे तत्रतत्र तदातदा
पादातैराहता नागा विवरेषु समन्ततः
चक्रुरार्तस्वरान् राजन् सम्पतन्तस्ततस्ततः
पदातयश्च नागानां प्रद्रुतानां महामृधे
उत्सृज्य वारणांस्तूर्णमपसस्रुर्भयार्दिताः
निमित्तं मन्यमानास्तु परिणाम्य महागजाः
जगृहुर्बिभिदुश्चैव छत्राण्याभरणानि च
विद्राव्य च बहूनश्वान् नागराजा मदोत्कटाः
विषाणैरभिनिजघ्नुर्ममृदुश्च परस्परम्
साश्वारोहांश्च तुरगान्विषाणैर्ममृदू रुषा
अपरांश्चिक्षिपुर्वेगात्प्रगृह्य च दिशो दश
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः
निगृहीता हयाश्चान्ये पार्श्वस्थैस्तत्र भारत
नागाश्च शतशो राजन्निर्भिन्ना भूमिमाविशन्
सहसा सादिनं तत्र तोमरेण महागजः
भूमौ समममथ्नीत सवर्माणं विशाम्पते
रथाश्च सादिभिः कैश्चित् सञ्छिन्ना न्यपतन्भुवि
तथा साश्वान् पदातांश्च तत्रत्तत्र विशाम्पते
रथान्नागास्समासाद्य परिगृह्य च मारिष
व्याक्षिपन्सहसा तत्र घोररूपा भयानकाः
नाराचैर्निहताश्चापि निपतन्ति महागजाः
गिरीणां शिखराणीव वज्ररुग्णानि भूतले
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्भुवि
केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह
उद्यम्य तु भुजैरन्ये निक्षिप्य च महीतले
शिरस्युरसि चाक्रम्य स्फुरतो न्यहरञ्छिरः
मृतमन्यो महाराज पदा ताडितवांस्तदा
जीवतश्च तथैवान्यश्शस्त्रं काये न्यमज्जयत्
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत
तथा केशग्रहश्चोग्रो बाहुयुद्धं च दारुणम्
समासक्तस्य चान्योन्यमविज्ञातस्तथाऽपरः
जहार समरे प्राणान्नानाशस्त्रैरनेकशः
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले
कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः
शोणितैस्सिच्यमानानि शस्त्राणि कवचानि च
महाराजतरक्तानि वस्त्राणीव चकाशिरे
एवमेतत्तदा युद्धं तत्राभूद्रोमहर्षणम्
उन्मत्तगङ्गाप्रतिमं शब्देनापूरयद्दिशः
नैव स्वे न परे राजन्व्यज्ञायन्त शरातुराः
योद्धव्यमित्ययुध्यन्त राजानो जयगृद्धिनः
स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान्
उभयोस्सेनयोर्वीरा व्याकुले तु रणे सति
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
क्षणेनासीन्महाराज क्षतजौघप्रवाहिनी
शूराणां हर्षजननी भीरूणां भयवर्धनी
पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनञ्जयः
भीमसेनः कुरून्सर्वान्हस्त्यनीकं च सर्वशः
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः
अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं यशः