सञ्जयः
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम्
यथा वायुस्समासाद्य तूलराशिं समन्ततः
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयस्सह कौरवैः
वसातयोऽथ साल्वाश्च गोपालाश्च यशस्विनः
सत्यदेवस्सत्यकीर्तिर्मित्रदेवश्श्रुतञ्जयः
त्रिगर्तराजस्समरे भ्रातृभिः परिवारितः
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रवधरैर्युधि
ते सृजन्तश्शरान् घोरान्किरन्तोऽर्जुनमाहवे
अभ्यवर्तन्त सहसा वार्योघा इव सागरम्
ते त्वर्जुनं समासाद्य योधाश्शतसहस्रशः
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः
ते वध्यमानास्समरे न जहुः पाण्डवं तदा
दह्यमाना महाराज शलभा इव पावकम्
सत्यदेवस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्
मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः
श्रुतञ्जयश्च विंशत्या सुशर्मा नवभिश्शरैः
स विद्धो बहुभिस्सङ्ख्ये प्रतिविव्याध तान्नृपान्
सौश्रुतिं पञ्चविंशत्या चन्द्रदेवं तथाऽष्टभिः
मित्रदेवं शतेनैव सत्यदेवं त्रिभिश्शरैः
अष्टाभिर्मित्रवर्माणं सुशर्माणं तथैव च
श्रुतञ्जयं च राजानं हत्वा तत्र शिलाशितैः
सौश्रुतेस्सशिरस्त्राणं शिरः कायादपाहरत्
त्वरितं चन्द्रदेवं च शरैर्निन्ये यमक्षयम्
अथेतरान्महाराज यतमानान्महारथान्
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यताडयत्
सत्यदेवस्तु सङ्क्रुद्धस्तोमरं ससृजे शितम्
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः
अयस्मयस्स्वर्णदण्डो जगाम धरणीतलम्
माधवस्य तु विद्धस्य तोमरेण महारणे
प्रतोदो न्यपतद्धस्ताद्रश्मयश्च विशाम्पते
प्रतोदं गृह्य सोऽन्यत्तु रश्मीन्सङ्गृह्य च द्रुतम्
वाहयामास तानश्वान्सत्यदेवरथं प्रति
विष्वक्सेनं सुनिर्विद्धं दृष्ट्वा पार्थो धनञ्जयः
क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह
अर्जुनः
सञ्जयः
चोदयाश्वान्महाबाहो सत्यदेवरथं प्रति
ततस्स चोदयामास सत्यदेवरथं प्रति
अथ दिव्यास्त्रविच्छूरो जातमन्यर्धनञ्जयः
सत्यदेवं शरैस्तीक्ष्णैर्वारयित्वा महारथः
ततस्सुनिशितैर्भल्लै राजंस्तस्य महात्मनः
कुम्डलोपचितं कायाच्चकर्त प्रहसञ्छिरः
तं निहत्य शितैर्बाणैर्मित्रवर्माणमाहवे
वत्सदन्तेन हत्वा च सारथिं चास्य मारिष
ततश्शरशतैर्भूयस्संशप्तकगणान्बहून्
पातयामास सङ्क्रुद्धश्शतशोऽथ सहस्रशः
ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः
मित्रसेनस्य चिच्छेद क्षुरप्रेण महायशाः
सुशर्माणं ततःक्रुद्धो जत्रुदेशे समर्पयत्
नाराचेन सुमुक्तेन सुतीक्ष्णेन महायशाः
ततस्संशप्तकास्सर्वे परिवार्य धनञ्जयम्
शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश
स तैरभ्यर्दितो जिष्णुश्शक्रतुल्यपराक्रमः
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः
ततश्शरसहस्राणि प्रादुरासन्विशाम्पते
कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः
ततस्तु च्छिद्यमानानां ध्वजानां धनुषां तथा
रथानां सपताकानां तूणीराणां युगैस्सह
अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिस्सह
कूबराणां वरूथानां पृषत्कानां च संयुगे
अश्वानां पततां चापि प्रासानामसिचर्मणाम्
गदानां परिघानां च शक्तीनां तोमरैस्सह
शतघ्नीनां सचक्राणां भुजानां चोरुभिस्सह
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष
हाराणां हेमसूत्राणां कटकानाञ्च भारत
छत्राणां मकुटानाञ्च व्यजनानां महात्मनाम्
राशयश्चात्र दृश्यन्ते पतितानां महीतले
सकुण्डलानि स्रग्वीणि पूर्णचन्द्रनिभानि च
शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे
सुस्वार्हाणि सुवासांसि चन्दनेनोक्षितानि च
शरीराणि व्यदृश्यन्त निहतानां महीतले
रुद्रस्याक्रीडसदृशं घोरमायोधनं तदा
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः
अर्जुनेन महाराज तत्रतत्र महारणे
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही
अगम्यरूपा समरे विशीर्णैरिव पर्वतैः
नासीद्रथपथस्तस्य पाण्डवस्य महात्मनः
निघ्नतश्शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत्
आस्तामितस्तो राजन् रथचक्रे विशाम्पते
रणे विचरतस्तस्य तस्मिंल्लोहितकर्दमे
सीदमाने तु चक्रे ते समूहुस्तुरगा भृशम्
श्रमेण महता युक्ता मनोमारुतरंहसः
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना
प्रायशो विमुखं सैन्यं नावतिष्ठत संयुगे
ताञ्जित्वा समरे जिष्णुस्संशप्तकगणान्बहून्
रराज स महाराज विधूमोऽग्निरिव ज्वलन्