सञ्जयः
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे
यथा दृप्तं वने सिंहं शरभो वारयेद्युधि
निरुद्धः पार्षतस्तेन गौतमेन बलीयसा
पदात्पदं विचलितुं नाशकत्तत्र भारत
गौतमस्य रथं दृष्ट्वा धृष्टद्युम्नरथं प्रति
वित्रेसुस्सर्वभूतानि क्षयं प्राप्तं च मेनिरे
तत्र जल्पन्ति पाण्डूनां रथिनस्सादिनस्तथा
पाण्डुसैनिकाः
द्रोणस्य निधनान्नूनं सङ्क्रुद्धो द्विपदां वरः|
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः
अपि स्वस्ति भवेदस्य धृष्टद्युम्नस्य गौतमात्
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात्
अप्ययं ब्राह्मणस्सर्वान्न नो हन्यात्समागतान्
यादृशं दृश्यते रूपमन्तकप्रतिमं रणे
गमिष्यत्यद्य पदवीं भारद्वाजस्य गौतमः
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि
अस्त्रवाञ्छस्त्रसम्पन्नः क्रोधेन च समन्वितः
पार्षतश्च महायुद्धे विमुखोऽद्याभिलक्ष्यते
सञ्जयः
इत्येवं विविधा वाचो व्यश्रूयन्त रणाजिरे
विनिश्श्वस्य ततः क्रोधात्कृपश्शारद्वतो नृप
पार्षतं छादयामास निश्चेष्टं शरवृष्टिभिः
स वध्यमानस्समरे गौतमेन महात्मना
कर्तव्यं नाभिजज्ञे वै मोहेन महता वृतः
तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु मारिष
ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन
दैवयोगादिमे बाणा नजघ्नुर्मर्म चाहवे
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः
व्यावर्तये तव रथं नदीवेग इवाहवात्
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हृतः
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः
धृष्टद्युम्नः
मुह्यते मे मनस्तात गात्रस्वेदश्च जायते
वेपथुश्च क्लमश्चैव रोमहर्षश्च जायते
ब्राह्मणं वर्जयन् युद्धे शनैर्याहि यतोऽच्युतौ
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे
क्षेममद्य भवेन्मह्यमिति मे नैष्ठिकी मतिः
सञ्जयः
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान्
यतो भीमो महेष्वासो युयुधे तव सैनिकैः
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष
किरञ्शरशतान्येव गौतमोऽनुययौ तदा
शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः
पार्षतं द्रावयामास महेन्द्र इव शम्बरम्
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम्
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः
शिखण्डी तु समासाद्य हृदिकानां महारथम्
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समर्पयत्
कृतवर्मा तु सङ्क्रुद्धो विद्ध्वा षष्टिभिराशुगैः
धनुरेकेन चिच्छेद स्मयन्निव महारथः
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली
तिष्ठतिष्ठेति हार्दिक्यं सङ्क्रुद्धस्समपद्यत
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान्
प्रेषयामास समरे तेऽस्याभ्रश्यन्त वर्मणः
वितथांस्तान्समालक्ष्य पतितांश्च महीतले
क्षुरप्रेण सुतीक्ष्णेन सोऽच्छिनत् कार्मुकं दृढम्
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत्
सात्वतस्तु रणे क्रुद्धो मार्गणैः क्षतविग्रहः
व्यसृजद्रुधिरं गात्रैर्मुखात् कुम्भ इवोदकम्
रुधिरेण परिक्लिन्नः कृतवर्मा व्यरोचत
वर्षेण क्लेदितो राजन्यथा गैरिकपर्वतः
अथान्यद्धनुरादाय समार्गणगणं ततः
शिखण्डिनं त्रिभिर्बाणैश्शङ्खदेशेऽभ्यताडयत्
शङ्खदेशे स्थितैर्बाणैश्शिखण्डी तु व्यराजत
शाखाप्रशाखैर्विमलैस्सुमहान्वै यथा द्रुमः
तावन्योन्यं रणे विद्ध्वा रुधिरेण समुक्षितौ
पोप्लूयमानौ हि यथा महान्तौ शोणितह्रदे
तद्वद्विरेजतुर्वीरौ शोणितेन परिप्लुतौ
यथा च किंशुकौ फुल्लौ पुष्पमासेऽभ्युपागते
रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ
भुजगाविव सङ्क्रुद्धौ रेजतुस्तौ नरोत्तमौ
तावुभौ शरवनुन्नाङ्गौ परस्परशरक्षतौ
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः
कृतवर्मा महाराज पार्षतं निशितैश्शरैः
रणे विव्याध सप्तत्या स्वर्णपुङ्खैश्शिलाशितैः
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः
जीवितान्तकरं घोरं व्यसृजत्त्वरयाऽन्वितः
स तेनाभिहतो राजन्मूर्च्छयाऽभिपरिप्लुतः
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः
अपोवाह रणात्तं तु सारथी रथिनां वरम्
हार्दिक्यशरसन्तप्तं निश्श्वसन्तं पुनःपुनः
पराजिते तत्र शूरे द्रुपदस्य सुते प्रभो
प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः