सञ्जयः
युयुत्सुं तव पुत्रस्य तापयन्तं वरूथिनीम्
उलूकोऽभ्यपतत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत्
युयुत्सुश्च ततो राजञ्शितधारेण पत्रिणा
उलूकं ताडयामास वज्रेणेव महाचलम्
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य मारिष
क्षुरप्रेण सुतीक्ष्णेन धनुश्चिच्छेद संयुगे
अपास्य तद्धनुश्छिन्नं युयुत्सुर्वेगवत्तरम्
अन्यदादत्त सुमहच्चापं संरक्तलोचनः
शाकुनिं तु चतुष्षष्ट्या विव्याध भरतर्षभ
सारथिं त्रिभिरानर्च्छत्तं च भूयोऽप्यविध्यत
उलूकः पञ्चविंशत्या विद्ध्वा रुक्मविभूषितैः
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम्
स च्छिन्नयष्टिस्सुमहाञ्शीर्यमाणो महाध्वजः
पपात प्रमुखे राजन्युयुत्सोर्विद्रुताद्रथात्
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे
उलूकस्तस्य भल्लेन तैलधौतेन मारिष
शिरश्चिच्छेद समरे यन्तुर्भरतसत्तम
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः
सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम्
निर्जित्य तं रणे राजन्नुलूकस्त्वरितो ययौ
पाञ्चालान्सृञ्जयांश्चैव विकिरन्निशितैश्शरैः
शतानीकं महाराज श्रुतकर्मा सुतस्तव
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः
हताश्वे तु रथे तिष्ठञ्शतानीको महारथः
गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष
सा कृत्वा स्यन्दनं भस्म हयान् सारथिमेव च।
ध्वजञ्चैव पताकां च मेदिनीमन्वपद्यत
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ
व्यपाक्रमेतां युद्धात्तु प्रेक्षमाणौ परस्परम्
पुत्रस्तु तव सम्भ्रान्तो विविंशो रथमाव्रजत्
शतानीकोऽपि राजेन्द्र प्रतिविन्ध्यरथं गतः
सुतसोमं तु शकुनिर्विद्ध्वा सुनिशितैश्शरैः
नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम्
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्
शरैरनेकसाहस्रैश्छादयामास भारत
ताञ्शराञ्शकुनिस्तस्य तूर्णं चिच्छेद पत्त्रिभिः
लघुहस्तश्चित्रयोधी च जितकाशी च संयुगे
निवार्य समरे चापि शरांस्तान्निशितैश्शरैः
आजघान ततः क्रुद्धस्सुतसोमं त्रिभिश्शरैः
नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम्
तस्याश्वान्स्यन्दनं केतुं तिलशो व्यधमच्छरैः
स्यालस्तव महावीर्यस्तत उच्चुक्रुशुर्जनाः
हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष
धन्वी धनुर्वरं गृह्य रथाद्भूमौ व्यतिष्ठत
व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान्
छादयामासुरथ ते तव स्यालस्य तं रथम्
पतङ्गानामिव व्राताश्शरव्राता महारथम्
सञ्छाद्यमानोऽपि दृढं विव्यथे नैव सौबलः
प्रामर्दत शरानस्ताञ् शरजालैर्महारथः
तत्रातुष्यन्त योधाश्च सिद्धाश्चैव दिवि स्थिताः
सुतसोमस्य तत्कर्म दृष्ट्वाऽश्रद्धेयमद्भुतम्
रथस्थं नृपतिं यत्तु पदातिस्समयोधयत्
तस्य तीक्ष्णैर्महावेगैर्भल्लैस्सन्नतपर्वभिः
व्यधमत्कार्मुकं राजंस्तूणीरांश्चैव सर्वशः
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदत्
वैदूर्योत्पलपत्राभं दन्तिदन्तमयत्सरुम्
भ्राम्यमाणं ततस्तं तु विमलाम्बरदर्शनम्
कालोपमं तदा मेने सुतसोमस्य धीमतः
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः
चतुर्दिशं महाराज शिक्षाबलसमन्वितः
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्
तानापतत एवाशु चिच्छेद परमासिना
ततः क्रुद्धो महाराज सौबलः परवीरहा
प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान्
चिच्छेद तांस्तु खड्गेन शिक्षया च बलेन च
दर्शयँल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः
तस्य सञ्चरतो राजन्मण्डलावर्तने तदा
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम्
स च्छिन्नः सहसा भूमौ निपपात महानसिः
अधर्मस्य स्थितं हस्ते सत्सरोर्यत्तु भारत
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्
प्राविध्यतासिं तच्छेषं सुतसोमो महाबलः
तच्छित्त्वा सगुणं चापं स्वर्णवज्रविभूषितम्
पपात धरणीं तूर्णं रणे तस्य महात्मनः
सुतसोमस्ततो राजञ्छ्रुतकीर्तिरथं गतः
सौबलोऽपि धनुर्गृह्य घोरमन्यन्महाबलः
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून्
तत्र नादो महानासीत्पाण्डवानां विशाम्पते
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत्
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना
यथा दैत्यचमूं राजन्देवराजो ममर्द ह
तथैव पाण्डवानीकं सौबलेयो व्यनाशयत्