सञ्जयः
नकुलं रभसं युद्धे तपन्तं तव वाहिनीम्
कर्णो वैकर्तनो राजन्वारयामास वै रुषा
नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत्
नकुलः
चिरस्य यत दृष्टोऽसि दैवतैस्सौम्यचक्षुषा
यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च
त्वद्दोषात्कौरवाः क्षीणास्समासाद्य परस्परम्
सञ्जयः
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि सत्वरः
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः
कर्णः
सदृशं राजपुत्रस्य विशेषेण धनुष्मतः।
प्रहरस्व रणे वीर पश्यामः पुरुषो भव
कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः
युध्यस्व समरे शक्त्या प्रतियोत्स्यामि ते रणे
सञ्जयः
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः
नकुलस्तु ततो विद्धस्सूतपुत्रेण भारत
अशीत्याऽऽशीविषप्रख्यैस्सूतपुत्रमविध्यत
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खान् शिलाशितान्
त्रिंशतं प्रेषयामास शरानाशीविषोपमान्
ते चास्य कवचं भित्त्वा पपुश्शोणितमाहवे
आशीविषा यथा राजन् भित्त्वा गां सलिलं भृशम्
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्
कर्णं विव्याध सप्तत्या सारथिञ्च त्रिभिश्शरैः
ततः क्रुद्धो महाराज नकुलः परवीरहा
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत्
अथैनं छिन्नधन्वानं सायकानां त्रिभिश्शरैः
आजघ्ने प्रहसन्वीरस्सर्वलोकमहारथम्
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष
विस्मयं परमं जग्मुर्ऋषयस्सह दैवतैः
अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा
नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्पयत्
उरस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम्
नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिराशुगैः
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष
सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम्
नकुलस्य ततो बाणैस्समन्ताद्वारयन्दिशः
सञ्छाद्यमानस्समरे कर्णचापच्युतैश्शरैः
चिच्छेद ताञ् शरांस्तूर्णं शरैरेव महायशाः
ततो बाणमयं जालं विततं व्योम्न्यदृश्यत
खद्योतानामिव व्रातैस्सम्पतद्भिर्यथा नभः
तैर्विमुक्तैश्शरशतैश्छादितं गगनं महत्
शलभानामिव व्रातैस्तद्धि ह्यासीद्विशाम्पते
ते शरा हेमविकृतास्सम्पतन्तो मुहुर्मुहुः
श्रेणीकृता व्यरोचन्त क्रौञ्चाश्श्रेणीकृता इव
बाणजालावृते व्योम्नि च्छादिते च दिवाकरे
न स्म सम्पतते भूतं किञ्चिदप्यन्तरिक्षगम्
निरुद्धे तत्र मार्गे तु शरसङ्घैस्समन्ततः
व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ
कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः
अवालीयन्त राजेन्द्र वेदनार्ता भृशार्दिताः
नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव
व्यदीर्यत ततो राजन्वातनुन्न इवाम्बुदः
ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः
शरपातानतिक्रम्य तस्थतुः प्रेक्षके इव
प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोश्शरैः
जघ्नतुस्तौ महात्मानावन्योन्यं शरवृष्टिभिः
विदर्शयन्तौ शस्त्राणि दिव्यानि रणमूर्धनि
छादयन्तौ च सहसा परस्परवधैषिणौ
नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः
सूतपुत्रमवच्छाद्य व्यतिष्ठन्त इवाऽम्बरे
तथैव सूतपुत्रेण प्रेषिताः परमाहवे
पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्त इवाम्बरे
शरवेश्मप्रविष्टौ तौ न दृश्येते कथञ्चन
चन्द्रसूर्यौ यथा राजञ्छाद्यमानौ जलागमे
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः
सञ्छाद्यमानस्समरे सूतपुत्रेण पाण्डवः
न चकार व्यथां राजन्भास्करो जलदैर्यथा
ततः प्रहस्यातिरथिश्शरजालानि मारिष
प्रेषयामास समरे शतशोऽथ सहस्रशः
एकबाणमभूत्सर्वं तस्य बाणैर्महात्मनः
अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिश्शरोत्तमैः
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः
सारथिं पातयामास रथनीडाद्धसन्निव
ततोऽश्वांश्छतुरस्तस्य चतुभिर्निशितैश्शरैः
यमस्य सदनं तूर्णं प्रेषयामास भारत
अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः
पताकां चक्ररक्षौ च गदां खड्गं च मारिष
शतचन्द्रं च तच्चर्म सर्वोपकरणानि च
सुवर्णविकृतं तच्च धनुस्सशरमाहवे
हताश्वो विरथश्चैव विचर्मा च विशाम्पते
अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः
समुद्यतं महाघोरं परिघं तस्य सूतजः
व्यथमत्सायकैस्तूर्णं तदद्भुतमिवाभवत्
व्यायुधं च समालक्ष्य शरैस्सन्नतपर्वभिः
अर्दयन्बहुशः कर्णो न चैनं समपीडयत्
स वध्यमानस्समरे कृतास्त्रेण बलीयसा
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः
अभिद्रुत्य च राधेयः प्रहसन्वै पुनःपुनः
सज्यं च स्वधनुः कण्ठे विससर्ज च भारत
ततस्स शुशुभे राजन्कण्ठासक्तं महाधनुः
परिवेषमनुप्राप्तो यथा नभसीव तमोनुदः
यथा चैवासितो मेघश्शक्रचापेन शोभते
अशोभत महाराज पाण्डुपुत्रस्तथा रणे
तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि
वदेदानीं पुनर्हृष्टो वध्यो मे त्वं पुनःपुनः
मा योत्सीर्गुरुभिस्सार्धं बलवद्भिश्च पाण्डव
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव
गृहं वा गच्छ माद्रेय यत्र वा केशवार्जुनौ
एवमुक्त्वा महाराज विससर्ज स तं तदा
वधप्राप्तं तु तं शत्रुं नावधीत्सूतनन्दनः
स्मृत्वा मातुर्वचो राजंस्तत एनं व्यसर्जयत्
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति
आरुरोह रथं चापि धर्मराजस्य पाण्डवः
निश्श्वसन्दुःखसन्तप्तः कुम्भक्षिप्त इवोरगः
तं विजित्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ
रथेनातिपताकेन चन्द्रवर्णहयेन च
तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान्
तत्राकरोन्महाराज कदनं सूतनन्दनः
मध्यं प्राप्ते दिनकरे चक्रवद्व्यचरत्प्रभुः
भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः
ससूतैर्हतसूतैश्च भग्नाक्षैश्चापि मारिष
ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान्
तत्रतत्र च सम्भ्रान्ता विचेरुस्तत्र कुञ्जराः
दावाग्न्यभिपरीताङ्गा यथैव स्युर्महावने
भिन्नकुम्भास्सरुधिराश्छिन्नहस्ताश्च वारणाः
छिन्नगात्रावराश्चैव च्छिन्नवालाश्च मारिष
छिन्नाभ्राणीव सम्पेतुर्वध्यमाना महात्मना
अपरे त्रासिता नागा नाराचशरतोमरैः
तमेवाभिमुखं जग्मुश्शलभा इव पावकम्
अपरे निष्टनन्तस्तु व्यदृश्यन्त महाद्विपाः
क्षरन्तश्शोणितं गात्रैर्नगा इव जलस्रवाः
उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः
राजतैश्च तथा कांस्यैस्सौवर्णैश्च विभूषणैः
हीना ह्याभरणैश्चैव खलीनैश्च विवर्जिताः
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि
निहतैस्सादिभिश्चैव शूरैराहवशोभिभिः
वातायमानान् सहसा प्रपश्याम हयोत्तमान्
हयान् योधानपश्याम कञ्चुकोष्णीषवेष्टितान्
निहतान् धावमानांश्च वेष्टमानांश्च भारत
रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः
भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतान्
हताक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत
विपताकध्वजांश्चैव छिन्नेषादण्डबन्धुरान्
विहीनान्रथिभिस्तत्र धावमानांस्ततस्ततः
रथांस्तु तत्र विच्छिन्नांस्तिलशः कर्णविक्रमैः
सूतपुत्रशरैस्तप्तानपश्याम जगत्पते
तारकाजालसञ्छिन्नानुरुघण्टोपशोभितान्
नानावर्णविचित्राभिः कदलीभिरलङ्कृतान्
नागानवयवैर्हीनांस्तत्र तत्र विनिष्ठितान्
पदातीनप्यपश्याम धावमानान्समन्ततः
विशस्त्रांश्च तथैवान्यान् सशस्त्रांश्च बहून् हतान्
शिरोभिर्बाहुभिर्हीनान् भीन्नैरूरुभिरेव च
कर्णचापच्युतैर्बाणैरदृश्यन्त विनाकृताः
महान् व्यतिकरो रौद्रो योधानामन्वदृश्यत
कर्णसायकनुन्नानां वध्यतां निशितैश्शरैः
ते वध्यमानास्समरे सूतपुत्रेण सृञ्जयाः
तमेवाभिमुखा यान्ति पतङ्गा इव पावकम्
तं दहन्तमनीकानि तत्रतत्र महारथम्
अपरे वर्जयामासुर्युगान्ताग्निमिवोल्बणम्
हतशेषास्तु ये वीराः पाञ्चालानां रथव्रजाः
तान्भग्रान्विद्रुतान् कर्णः पृष्ठतो विकिरञ्छरान्
अभ्यद्रवत तेजस्वी विकर्णकवचध्वजान्
तापयन् समरे बाणैस्सूतपुत्रो महारथः
मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः