सञ्जयः
सहदेवं तदा क्रुद्धं निघ्नन्तं तव वाहिनीम्
दुश्शासनो महाराज भ्राता भ्रातरमभ्ययात्
तौ समेतौ महारङ्गे दृष्ट्वा तत्र समागताः
सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह
तत्र भारत रुष्टेन तव पुत्रेण धन्विना
पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो भृशम्
सहदेवस्ततो राजन्नाराचैस्तु तवात्मजम्
विव्याधोरसि सप्तत्या सारथिं चेषुभिस्त्रिभिः
दुश्शासनस्ततश्चापं छित्त्वा राजन्महाहवे
सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्पयत्
सहदेवस्ततः क्रुद्धः खड्गमुद्यम्य मारिष
आविध्य प्रासृजत्तूर्णं तव पुत्ररथं प्रति
समार्गणगुणं चापं द्विधा कृत्वा महानसिः
निपपात ततो भूमौ च्युतस्सर्प इवाम्बरात्
अथान्यद्धनुरादाय माद्रेयः क्रोधमूर्च्छितः
दुश्शासनाय चिक्षेप बाणमन्तकरं परम्
तमापतन्तं वेगेन यमदण्डमिवापरम्
खड्गेन शितधारेण द्विधा चिच्छेद कौरवः
ततस्तं निशितं खड्गं प्राविध्यत्तस्य सत्वरम्
धनुश्चान्यत्समादाय शरं जग्राह वीर्यवान्
तमापतन्तं वेगेन निस्त्रिंशं निशितैश्शरैः
समरेऽपातयद्धृष्टस्सहदेवो हसन्निव
ततो बाणांश्चतुष्षष्टिं तव पुत्रो महारथः
सहदेवरथे तूर्णं प्रेषयामास भारत
शरानापततस्तूर्णं समरे तान् सुवेगिनः
एकैकं पञ्चभिर्बाणैर्माद्रेयस्तु समाच्छिनत्
तान्निवार्य ततो बाणैस्सहदेवः प्रतापवान्
शतसङ्ख्यांस्ततो बाणान्प्रेषयामास संयुगे
तान्बाणांस्तव पुत्रोऽपि छित्त्वैकैकं त्रिभिस्त्रिभिः
ननाद सुमहानादं नादयानो वसुन्धराम्
ततो दुश्शासनो राजन्द्वाभ्यां पाण्डुसुतं रणे
सारथिं नवभिर्बाणैर्माद्रेयस्य समाचिनोत्
ततः क्रुद्धो महाराज सहदेवः प्रतापवान्
समधत्त शरं घोरं मृत्युकालान्तकोपमम्
विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत्
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत्
प्राविशद्धरणीं तूर्णं वल्मीकमिव पन्नगः
स मुमोह ततः पुत्रस्तव राजन् महाबलः
मूढं चैनं समालक्ष्य सारथिस्त्वरितो रणात्
अपोवाह सुसन्त्रस्तो वध्यमानं शितैश्शरैः
पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज
दुर्योधनबलं बाणैः प्रामथद्वै समन्ततः
पिपीलिकापुटं राजन्यथा मृद्नन्नरो रुषा
तथा सा कौरवी सेना मृदिता तेन भारत