सञ्जयः
भीमसेनं ततो राजन् द्रौणिर्विव्याध पत्रिणा
त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम्
अथैनं पुनराजघ्ने नवत्या निशितैश्शरैः
सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत्
भीमसेनस्समाकीर्णो द्रौणिना निशितैश्शरैः
रराज समरे राजन्रश्मिमानिव भास्करः
ततश्शरसहस्रेण सुप्रयुक्तेन पाण्डवः
द्रोणपुत्रमवच्छाद्य सिंहनादमथानदत्
शरैश्शरांस्तथा द्रौणिस्संवार्य युधि पाण्डवम्
ललाटेऽभ्याहनद्राजन्नाराचेन स्मयन्निव
ललाटस्थं ततो बाणं धारयामास पाण्डवः
यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप
ततो द्रौणिं रणे भीमो यतमानं पराक्रमी
त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव
ललाटस्थैस्त्रिभिर्बाणैरश्वत्थामा व्यरोचत
प्रावृष्यम्बुपरिक्षिप्तस्त्रिशृङ्ग इव पर्वतः
ततश्शरशतैर्द्रौणिमर्दयामास पाण्डवः
न चैनं कम्पयामास महावात इवाचलम्
तथैव पाण्डवं युद्धे द्रौणिश्शरशतैश्शितैः
नाकम्पयत संहृष्टो वार्योघ इव पर्वतम्
तावन्योन्यं शरैर्घोरैश्छादयन्तौ महारथौ
रथचर्यागतौ वीरौ शुशुभाते नरर्षभौ
आदित्याविव सन्दीप्तौ लोकक्षयकरावुभौ
स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः
कृतप्रतिकृते यत्नं कुर्वाणौ तौ महारथौ
कृतप्रतिकृते चैव बाणसङ्घैरभीतवत्
व्याघ्राविव च संरब्धौ चेरतुस्तौ नरोत्तमौ
शरदंष्ट्रौ दुराधर्षौ चापहस्तौ भयङ्करौ
अदृश्यौ च मुहूर्तेन शरजालैर्बभूवतुः
मेघजालैः प्रतिच्छनौ सूर्याचन्द्रमसाविव
प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिन्दमौ
विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि
अथ तत्रैव सङ्ग्रामे वर्तमाने सुदारुणे
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम्
किरञ्छरशतैरुग्रैर्धाराभिरिव पर्वतम्
न तु तन्ममृषे भीमश्शत्रोर्विजयक्षणम्
प्रतिचक्रे ततो राजन्पाण्डवोऽप्यपसव्यतः
मण्डलानां विभागेन गतप्रत्यागतेन च
बभूव तुमुलं युद्धं तयोस्तत्र महामृधे
चरित्वा विविधान्मार्गान्मण्डलस्थानमेव च
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमाहवे
इयेषतुश्च विरथं कर्तुमन्योन्यमाहवे
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः
तान्यस्त्रैरेव समरे प्रतिजघ्ने स पाण्डवः
ततो घोरं महाराज अस्त्रयुद्धमवर्तत
ग्रहयुद्वं यथा घोरं प्रजासंहरणे ह्यभूत्
ते बाणास्समसज्जन्त ताभ्यां क्षिप्ता इतस्ततः
द्योतयन्तो दिशस्सर्वास्तच्च सैन्यं समन्ततः
बाणसङ्घावृतं सर्वमाकाशं समपद्यत
उल्कापातावृतं यद्वत् प्रजासंहरणे नृप
बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः
सविस्फुलिङ्गो दीप्तार्चिर्योऽदहद्वाहिनीद्वयम्
तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः
अतियुद्धानि सर्वाणि युद्धमेतदवर्तत
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम्
नैतादृशं पुनर्युद्धं भविष्यति कदाचन
अहो ज्ञानेन सम्पन्नावुभौ चोग्रपराक्रमौ
अहोऽनयोर्बलं युद्धे अहो चापि कृतास्त्रता
अहो ज्ञानस्य सम्पच्च अहो सौष्ठवमेव च
स्थितावेतौ हि समरे कालान्तकयमोपमौ
रुद्रौ द्वाविव सम्भूतौ तथा द्वाविव भास्करौ
यमाविव नरव्याघ्रौ घोररूपाविमौ रणे
इति स्म वाचश्श्रूयन्ते सम्पतन्त्यो मुहुर्मुहुः
सिंहनादाश्च सञ्जज्ञुस्समेतानां दिवौकसाम्
अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा युद्धं महारणे
तौ शूरौ समरे राजन्परस्परकृतागसौ॥
परस्परमुदीक्षेतां क्रोधादुद्धृत्य चक्षुषी
क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ
क्रोधात्सन्दश्य दशनैस्तथैव दशनच्छदौ
छादयामासतुरुभौ तावन्योन्यं रणे शरैः
शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ
तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ॥
अन्योन्यस्य हयांश्चापि सायकैर्निर्बिभेदतुः
ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे
उभौ चिक्षिपतुस्तूर्ममन्योन्यस्य वधैषिणौ
तौ सायकौ महाराज द्योतमानौ चमूमुखे
आजघ्नतुस्समासाद्य वज्रवेगौ दुरासदौ
तौ परस्परवेगेन शराभ्यामाहतौ भृशम्
निपेततुर्महाराज स्वरथोपस्थयोस्तदा
ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम्
अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः
तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः
अपोवाह रणाद्राजन् विशोकश्शत्रुतापनम्