सञ्जयः
श्रुतकर्मा महाराज चित्रसेनं महीपतिम्
आजघान रणे क्रुद्धः पञ्चाशद्भिश्शिलीमुखैः
चित्रसेनस्तु राजेन्द्र नवभिर्निशितैश्शरैः
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे
नाराचेन सुतीक्ष्णेन शङ्खदेशे समार्पयत्
सोऽतिविद्धो महाराज तदा तेन महात्मना
मूर्च्छामपि जगामाशु कश्मलं च समाविशत्
एतस्मिन्नन्तरे चैव श्रुतकर्मा महायशाः
नवत्या जगतीपालं छादयन्नतपर्वभिः
प्रतिलभ्य ततस्सञ्ज्ञां चित्रसेनो महाबलः
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः
सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषितम्
चित्रसेनं शरैश्चित्रैश्चित्ररूपमथाकरोत्
स शरैश्चित्रितो राजा चित्रमाल्यधरो युवा
अशोभत महारङ्गे श्वाविच्छललतो यथा
राजा तु श्रुतकर्माणं नाराचेन स्तनान्तरे
बिभेद समरे क्रूरस्तिष्ठतिष्ठेति चाब्रवीत्
श्रुतकर्मा तु समरे नाराचेन समर्पितः
सुस्राव रुधिरं तत्र गैरिकाम्बु यथाऽचलः
ततस्स रुधिराक्ताङ्गो रुधिरार्द्रीकृतच्छविः
रराज समरे राजन् सुफुल्ल इव किंशुकः
श्रुतकर्मा महाराज शत्रुणा समभिद्रुतः
शत्रुसंवरणं क्रुद्धो द्विधा चिच्छेद कार्मुकम्
अथैनं छिन्नधन्वानं नाराचानां शतैस्त्रिभिः
विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः
नवत्या जगतीपालं छादयन्नतपर्वभिः
ततःपीतेन भल्लेन भृशं तीक्ष्णेन सत्वरः
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः
तच्छिरो न्यपतद्भूमौ चित्रसेनस्य दीप्तिमत्
यदृच्छया यथा चन्द्रश्च्युतस्स्वर्गान्महीतले
राजानं निहतं दृष्ट्वा अभिसारास्तु मारिष
अभ्यद्रवन्त वेगेन श्रुतकर्माणमाहवे
ततः क्रुद्धो महेष्वासस्तत्सैन्यं समभिद्रवत्
अन्तकाले यथा क्रुद्धस्सर्वभूतानि चान्तकः
ते वध्यमानास्समरे तव पौत्रेण धन्विना
व्यद्रवन्त दिशस्तूर्णं मृगा व्याघ्रादिता इव
तांस्तु विद्रवतो दृष्ट्वा निरुत्साहान्द्विषज्जये
द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत
प्रतिविन्ध्यस्ततश्चित्रं विद्ध्वा पञ्चभिरायसैः
सारथिं त्रिभिरानर्च्छद् ध्वजमेकेन पत्रिणा
तं चित्रो नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्
स्वर्णपुङ्खैश्शिलाधौतैः कङ्कबर्हिणवाजितैः
प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः
पञ्चभिर्निशितैर्बाणैरथैनमभिजघ्निवान्
ततश्शक्तिं महाराज हेमदण्डां दुरासदाम्
प्राहिणोत्प्रतिविन्ध्याय विचिन्वन्तीमसूनिव
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात्
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव
सा पपात द्विधा च्छिन्ना प्रतिविन्ध्यशरैश्शितैः
युगान्ते सर्वभूतानि त्रासयन्ती यथाऽशनिः
शक्तिं विनिहतां दृष्ट्वा चित्रो गृह्य महागदाम्
प्रतिविन्ध्याय चिक्षेप रुक्मपट्टैर्विभूषिताम्
सा हत्वा सहसा सूतं गदा तस्य महात्मनः
रथं प्रमृद्य वेगेन धरणीमन्वपद्यत
प्रतिविन्ध्यस्ततः क्रुद्धो रथादाप्लुत्य भारत
शक्तिं चिक्षेप चित्राय स्वर्णदण्डामलङ्कृताम्
तामापतन्तीं जग्राह चित्रो राजन्महामनाः
ततस्तामेव चिक्षेप प्रतिविन्ध्याय पार्थिवः
सा समासाद्य तं शूरं प्रतिविन्ध्यं महाप्रभा
निर्भिद्य दक्षिणं बाहुं निपपात महीतले
पतिताऽभासयच्चैव तं देशमशनिर्यथा
प्रतिविन्ध्यस्ततो राजंस्तोमरं स्वर्णभूषितम्
प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाङ्क्षया
स तस्य देहावरणं भित्त्वा हृदयमेव च
जगाम धरणीं तूर्णं महोरग इवाशयम्
स पपात तदा राजा तोमरेण समाहतः
प्रसार्य विपुलौ बाहू महापरिघसन्निभौ
चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनम्
अभ्यधावन्त वेगेन प्रतिविन्ध्यं समन्ततः
सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः
तमेकं छादयामासुस्सूर्यमभ्रगणा इव
तान्विव्याध महाबाहुश्शरजालैर्महाहवे
व्यद्रावयत्तव चमूं वज्रहस्त इवासुरान्
ते वध्यमानास्समरे तावकाः पाण्डवैर्नृप
विप्रकीर्यन्त सहसा वातनुन्ना घना इव
विद्रुते तु बले तस्मिन्वध्यमाने समन्ततः
द्रौणिरेकोऽभ्यद्रवत्तूर्णं भीमसेनं महाबलम्
तयोस्समागमो घोरो बभूव समरे नृप
यथा दैवासुरे युद्धे वृत्रवासवयोरिव