सञ्जयः
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम्
जघान समरे शूरश्शरैस्सन्नतपर्वभिः
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्
कर्णस्य पश्यतो राजन्निजघ्नुस्ते महारथाः
कर्णोऽपि सुमहाबाहुरविध्यत्पाण्डवीं चमूम्
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः
नेदुस्सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारथम्
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्
विन्दानुविन्दौ कैकेयौ सात्यकिस्समवारयत्
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः
प्रतिविन्ध्यस्तथा चित्रं चित्रकेतनकार्मुकम्
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्
संशप्तकगणा हृष्टा ह्यभ्यधावन्धनञ्जयम्
धृष्टद्युम्नः कृपं चापि तस्मिन्वीरवरक्षये
शिखण्डी कृतवर्माणमाससाद महाबलः
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रसुतः प्रभुः
दुश्शासनं महाराज सहदेवः प्रतापवान्
कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता
सात्यकिः केकयौ चापि छादयामास सायकैः
तावेनं भ्रातरौ वीरौ युधि विव्यधतुर्भृशम्
विषाणाभ्यां यथा नागौ प्रतिनागं महावने
शरसञ्छिन्नवर्माणौ तावुभौ भ्रातरौ रणे
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः
तौ सात्यकिर्महाराज प्रहसन्युद्धदुर्मदः
छादयञ्छरवर्षेण वारयामास सर्वतः
वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः
शैनेयस्य रथं तूर्णं छादयामासतुश्शरैः
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे
अथ तौ सायकैस्तीक्ष्णैः पूरयामास सात्वतः
अथान्ये धनुषी चित्रे प्रगृह्याशु महाशरान्
सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः
द्योतयन्तो दिशस्सर्वास्सम्पेतुर्हेमभूषणाः
बाणान्धकारमभवत्तयो राजन्महाहवे
अन्योन्यस्य तु चापानि चिच्छिदुस्ते महारथाः
ततः क्रुद्धो महाराज सात्यकिर्युद्धदुर्मदः
धनुरन्यत्समादाय सज्यं कृत्वा महाबलः
अनुमृज्य च राजेन्द्र तद्धनुर्भारसाधनम्
क्षुरप्रेण सुतीक्ष्णेन ह्यनुविन्दशिरोऽहरत्
तच्छिरोह्यपतद्भूमौ कुण्डलोपचितं शुभम्
शम्बरस्य शिरो यद्वन्निहतस्य महामृधे
शोचयन्केकयान्सर्वाञ्जगामाथ वसुन्धराम्
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः
सज्यमन्यद्धनुः कृत्वा शैनेयं पर्यवारयत्
सहसा सात्यकिर्विद्धस्स्वर्णपुङ्खैश्शिलाशितैः
ननाद बलवन्नादं तिष्ठतिष्ठेति चाब्रवीत्
सात्यकस्य पुनस्तूर्णं केकयानां महारथः
शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्पयत्
स शराहतसर्वाङ्गस्सात्यकिस्सत्यविक्रमः
रराज समरे राजन्सपुष्प इव किंशुकः
सात्यकिस्समरे विद्धः कैकेयेन महात्मना
कैकेयं पञ्चविंशत्या विव्याध प्रहसन्निव
तावन्योन्यस्य धनुषी सञ्छिद्य समरे शुभे
हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ
विरथावसियुद्धाय समाजग्मतुराहवे
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ
विरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ
यथा दैवासुरे युद्धे बलशक्रौ महाबलौ
मण्डलानि ततस्तौ तु विचरन्तौ महारणे
अन्योन्यमभितस्तूर्णं समाजघ्नतुराहवे
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम्
कैकेयस्य ततश्चर्म द्विधा चिच्छेद सात्यकिः
सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः
शैनेयश्चर्म हित्वा तु तारागणशतैश्चितम्
चचार मण्डलान्येव गतप्रत्यागतानि च
चरन्तं तं महारङ्गे निस्त्रिंशवरधारिणम्
अपहस्तेन चिच्छेद सात्यकिस्त्वरयाऽन्वितः
सवर्मा केकयो राजन्द्विधा च्छिन्नो महाहवे
निपपात महेष्वासो वज्रनुन्न इवाचलः
तं निहत्य रणे शूरश्शैनेयो रथसत्तमः
युधामन्यो रथं तूर्णमारुरोह परन्तपः
ततोऽन्यं रथमारुह्य विधिवत्कल्पितं पुनः
केकयानां महत्सैन्यं व्यधमत्सात्यकिश्शरैः
सा वध्यमाना समरे केकयानां महाचमूः
तमुत्सृज्य रणे शस्त्रं प्रदुद्राव दिशो दश